Enter your Email Address to subscribe to our newsletters


भोपालम्, 09 जूनमासः (हि.स.)।
मध्यप्रदेशस्य आर्थिकराजधान्यां इंदौर नगरे केन्द्रसर्वकारेण ब्रिक्सशिखरसम्मेलनम् २०२६ अन्तर्गतं कृषिकार्यसमूहस्य महत्त्वपूर्णम् अन्तर्राष्ट्रीयसम्मेलनम् अद्य मङ्गलवासरात् आरभ्यते। अत्र ग्रेण्ड् शेरेटन होटले १३ जूनपर्यन्तं प्रवर्तमाने अस्मिन् उच्चस्तरीयसम्मेलने २० देशानां कृषिमन्त्रिणः, वरिष्ठाधिकारीणः, कृषिवैज्ञानिकाः, नीतिनिर्धारकाः तथा विशेषज्ञाः सहभागं करिष्यन्ति।
केन्द्रीयकृषिमन्त्री शिवराज सिंह चौहान अवदत् यत् सम्मेलने प्रारम्भिकत्रिदिनेषु अर्थात् ९ जूनतः ११ जूनपर्यन्तं कृषिकार्यसमूहस्य उपवेशनानि भविष्यन्ति, ततः परं १२ जूनतः १३ जूनपर्यन्तं मुख्यकृषिमन्त्रिणां उपवेशनस्य आयोजनं भविष्यति। अस्मिन् काले खाद्यहानिन्यूनकरणम्, पशुपालनम्, मत्स्यपालनम्, कृषकाधिकाराः च इत्यादिषु महत्त्वपूर्णविषयेषु गम्भीरमन्थनम् अपि भविष्यति।
केन्द्रीयमन्त्री चौहानः अवदत् यत् एतत् सम्मेलनं केवलं भारतस्यैव न, अपितु सम्पूर्णविश्वस्य कृषिक्षेत्रस्य कृते अपि महत्त्वपूर्णं सिद्धं भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी महोदयस्य नेतृत्वे आयोजितम् एतत् सम्मेलनं खाद्यसुरक्षा, जलवायुपरिवर्तनम्, कृषिवाणिज्यम्, कृषककल्याणम् इत्यादिषु विषयेषु नवीनां दिशां निर्धारयिष्यति। सम्मेलने ब्राजील, रूस, भारत, चीन, दक्षिणआफ्रिका, यूगाण्डा, मिस्र, इथियोपिया, ईरान, सऊदीअरब, मलेशिया, नाइजीरिया, थाईलैण्ड्, संयुक्तअरबअमीरातम्, कोलम्बिया, इण्डोनेशिया सहितं कुलं २० देशानां प्रतिनिधयः सहभागं करिष्यन्ति।
तेन उक्तं यत् ब्रिक्ससमूहस्य आरम्भः २००६ तमे वर्षे अभवत् तथा अद्य ११ सदस्यदेशैः १० साझेदारदेशैः च सह एषः विश्वस्य सर्वाधिकप्रभावशालीसमूहेषु अन्यतमः अभवत्। भारतस्य अध्यक्षतायां अधुना पर्यन्तं ब्रिक्सकृषिकार्यसमूहस्य प्रायः अष्ट उपवेशनानि सम्पन्नानि। एतेषु उपवेशनेषु खाद्यसुरक्षा, मत्स्यपालनम्, पशुपालनम् इत्यादीनि कृषिसम्बद्धानि अनेकानि महत्त्वपूर्णविषयाणि अधिकृत्य व्यापकचर्चा अभवत्।
तेन उक्तं यत् मध्यप्रदेशस्य कृते एतत् अत्यन्तं गौरवस्य प्रसन्नतायाश्च विषयः अस्ति यत् इंदौरनगरे ब्रिक्सदेशानाम् एग्रीकल्चरवर्किङ्गग्रुपस्य तथा कृषिमन्त्रिणां महत्त्वपूर्णम् उपवेशनम् आयोजितं भवति।
वैश्विकदृष्टिकोणेन एषः समूहः अत्यन्तं महत्त्वपूर्णः अस्ति, यतः विश्वस्य प्रायः ४२ प्रतिशतं कृषिभूमिः, ६८ प्रतिशतं कृषिजोताः, प्रायः ४२ प्रतिशतं खाद्योत्पादनं च एतेषां ब्रिक्सदेशानाम् अधीनम् अस्ति। अस्मिन् मञ्चे भवत् सहयोगः सम्पूर्णविश्वस्य खाद्यसुरक्षां प्रभावितुं समर्थः अस्ति।
सम्मेलने अनेकमहत्त्वपूर्णविषयेषु चर्चा भविष्यति, येषु वैश्विकखाद्यसुरक्षा तथा पोषणम्, जलवायुस्मार्टकृषिः, कृषिवाणिज्यम् तथा आपूर्तिशृङ्खला, डिजिटलकृषिः तथा प्रिसिजनफार्मिङ्ग्, कृत्रिमबुद्धिमत्ता, यन्त्राधिगमः तथा रोबोटिकी, कृषककल्याणम् तथा अनुसंधानसहयोगः इत्यादयः समाविष्टाः सन्ति। एतत् सम्मेलनं केवलम् औपचारिकोपवेशनं न भविष्यति, अपितु अतिथिभ्यः इंदौरस्य स्वच्छता, संस्कृतिः, मालवप्रदेशस्य आतिथ्यपरम्परा तथा कृषिविविधता अपि परिचायिता भविष्यति।
कृषिसम्मेलने सहभागार्थं विदेशीयाः अतिथयः सोमवासरे इंदौरनगरम् आगतवन्तः। राज्यशासनेन अतिथीनां स्वागतं पुष्पवर्षया कृतम्। विदेशीयाः अतिथयः सोमवासरस्य रात्रौ इंदौरस्य प्रसिद्धे ५६ दुकाने मालवप्रदेशस्य स्वादिष्टव्यञ्जनानाम् आस्वादं कृतवन्तः। ब्राजील, इथियोपिया, इण्डोनेशिया, दक्षिणआफ्रिका इत्यादिदेशेभ्यः आगताः अतिथयः ५६ दुकाने मालवीयव्यञ्जनानि यथा शिंकजी, दधिवडः, शाहीपोहा, कचौरी, पेटिस्, साबूदानखिचडी इत्यादीनां स्वादम् आस्वादितवन्तः। व्यञ्जनेषु स्वच्छतायाः विशेषध्यानं धृतम्।
---------------
Hindusthan Samachar / Dheeraj Maithani