मध्यप्रदेशे अग्रिम-सप्ताहे मानसून-ऋतुः प्रविष्टुं शक्नोति, अद्य बहुषु जनपदेषु तीव्र-वृष्टेः सतर्कता-घोषणा
भोपालनगरम्, ०९ जूनमासः (हि.स.)। मध्यप्रदेशे मानसून-ऋतो: प्रवेशः अग्रिमे सप्ताहे १५ तः १८ जूनमास-तिथीनां मध्ये भवितुं शक्नोति। ऋतु-विभागस्य अनुमानानुसारं मानसून-इत्यस्य आगमनम् इन्दौर-जबलपुर-सम्भागयोः अन्तर्गतैः छिन्दवाड़ा, पांढुर्णा, बालाघाट, बड़वान
मौसम (फाइल फोटो)


भोपालनगरम्, ०९ जूनमासः (हि.स.)। मध्यप्रदेशे मानसून-ऋतो: प्रवेशः अग्रिमे सप्ताहे १५ तः १८ जूनमास-तिथीनां मध्ये भवितुं शक्नोति। ऋतु-विभागस्य अनुमानानुसारं मानसून-इत्यस्य आगमनम् इन्दौर-जबलपुर-सम्भागयोः अन्तर्गतैः छिन्दवाड़ा, पांढुर्णा, बालाघाट, बड़वानी, खरगोन, बुरहानपुर अथवा बैतूल-जनपदैः मार्गेण सम्भाव्यते। तस्मात् पूर्वं राज्ये प्राक्-मानसून-क्रियाकलापाः निरन्तरं प्रवर्तिष्यन्ते।

अद्य प्रदेशस्य बहुषु जनपदेषु तीव्र-वात्या सह वर्षायाः सतर्कता-घोषणा निर्गता अस्ति। प्रभावित-जनपदेषु बड़वानी, खरगोन, बुरहानपुर, खण्डवा, हरदा, नर्मदापुरम्, बैतूल, नरसिंहपुर, छिन्दवाड़ा, पांढुर्णा, जबलपुर, सिवनी, बालाघाट, मण्डला, डिण्डौरी, अनूपपुर, उमरिया तथा शहडोल इत्यादय: जनपदाः अन्तर्भवन्ति। ऋतू-विभागस्य अनुसारं ९ तः ११ जूनपर्यन्तं प्रदेशे वृष्टिसहितं उष्णतायाः प्रभावः अपि विद्यमानं भविष्यति। १० तथा ११ जूनमासयोः भिण्ड, दतिया, निवाड़ी, टीकमगढ़ तथा छतरपुर-जनपदेषु उष्णतरङ्गस्य सम्भावना वर्तते।

अनेक-जनपदेषु तापमानं ४२ अंशात् अधिकम्

वृष्ट्या: उपस्थितावपि प्रदेशस्य बहुषु भागेषु उष्णतायाः प्रभावः यथावत् अस्ति। सोमवासरे अनेकस्थानेषु तापमानं ४२ डिग्री-सेल्सियस-अंशात् अधिकं अभिलिखितम्। प्रमुख-नगरेषु ग्वालियर-नगरं सर्वाधिक-उष्णं आसीत्, यत्र अधिकतमं तापमानं ४१.६ डिग्री अभवत्। जबलपुरे ४०, उज्जयिन्यां ३९.५, भोपाले ३८.७ तथा इन्दौरे ३८.६ डिग्री तापमानं अभिलिखितम्।

मण्डला-जनपदः प्रदेशस्य सर्वाधिक-उष्णः जनपदः आसीत्, यत्र तापमानं ४२.५ डिग्री-सेल्सियसपर्यन्तम् अगच्छत्। अन्येषु स्थानेषु छिन्दवाड़ायां ४२.१, खजुराहो-प्रदेशे ४२, दमोहे ४१.८, मलाजखण्डे ४१.७ तथा राजगढ़े ४१.६ डिग्री तापमानम् अभवत्। नरसिंहपुरे, दतियायां तथा नौग्रामे ४१.४, शाजापुरे ४१.३, खण्डवायां ४१.१ तथा गुणायां ४१ डिग्री तापमानम् अभिलिखितम्। खरगोन, सतना, रतलाम, टीकमगढ़, उमरिया तथा शिवपुरी-प्रदेशेष्वपि तापमानं ४० डिग्री-अंशात् अधिकम् आसीत्।

प्रदेशे एकत्र त्रयाणां ऋतूनाम् प्रभावः दृश्यते

ऋतु-विभागस्य कथनानुसारं मध्यप्रदेशः सम्प्रति संक्रमण-कालं अनुभवति, यत्र उष्णता, प्राक्-मानसून-वृष्टिः तथा वर्धमाना आर्द्रता एकत्र प्रभावं प्रदर्शयन्ति। रीवा, सतना, सीधी, सिंगरौली, शहडोल, उमरिया, अनूपपुर, डिण्डौरी, मण्डला, बालाघाट तथा सिवनी-जनपदेषु अग्रिम-त्रि-चतुर्दिनेषु गर्जन-विद्युत्सहित-वृष्टेः सम्भावना वर्तते। महाकौशल-प्रदेशे अनेकस्थानेषु मध्यम-वृष्टिः भवितुम् अर्हति। एतेषु क्षेत्रेषु विद्युत्पातस्य तीव्र-वाते: च आशङ्का अपि वर्तते।

भोपाल-नर्मदापुरम्-बुन्देलखण्ड-प्रदेशेभ्यः सौविध्यम्

भोपाल, रायसेन, सीहोर, विदिशा, राजगढ़, नर्मदापुरम्, बैतूल तथा हरदा-जनपदेषु अपराह्णकाले मेघाच्छादनं, गर्जनं, विद्युत्प्रकाशः तथा लघु-मध्यम-वृष्टेः सम्भावना वर्तते। अनेन जनाः तीव्र-उष्णतायाः किञ्चित् सौविध्यं प्राप्स्यन्ति। सागर, दमोह, छतरपुर, टीकमगढ़ तथा पन्ना-प्रदेशेष्वपि वर्षा-क्रियाकलापेषु वृद्धेः संकेताः दृश्यन्ते।

मालवा-निमाड़-प्रदेशयोः आर्द्रता वर्धिष्यते

इन्दौर, उज्जैन, धार, खरगोन, बड़वानी, खण्डवा तथा बुरहानपुर-जनपदेषु अरब-सागरात् आगच्छन्त्याः आर्द्रतायाः प्रभावः दृश्यते। अत्र मेघानां सञ्चारः वर्धिष्यते तथा कतिपयेषु स्थानेषु लघु-वृष्टिः भवितुं शक्नोति। तथापि पूर्व-मध्यप्रदेशस्य अपेक्षया वर्षायाः क्षेत्रं सीमितं भविष्यति। ऋतु-विभागस्य अनुसारं अग्रिम-दिनेषु प्रदेशस्य अधिकांश-भागेषु अधिकतम-तापमाने २ तः ५ डिग्री-सेल्सियसपर्यन्तं न्यूनता अभिलिखिता भवितुम् अर्हति। यत्र वर्षा भविष्यति तत्र वातावरणं सुखकरं भविष्यति, किन्तु केवलं मेघाच्छादितेषु क्षेत्रेषु आर्द्रता वर्धिष्यते।

वर्तमान-ऋतु-प्रणालीनां मानसून-इत्यस्य प्रगतिं च दृष्ट्वा प्रदेशे मानसून-प्रवेशस्य परिस्थितयः शीघ्रतया निर्मीयन्ते। यदि अग्रिमेषु कतिपय-दिनेषु एषा स्थितिः यथावत् तिष्ठति तर्हि दक्षिण-पूर्वीय-पूर्वीय-मध्यप्रदेशयोः मानसून-क्रियाकलापाः अधिकं तीव्राः भविष्यन्ति। ऋतु-विभागस्य अनुसारं प्रदेशे प्राक्-मानसून-क्रियाकलापाः सक्रियाः सन्ति। सहैव उत्तर-पूर्वीय-प्रदेशे एकस्य चक्रवातीय-परिसञ्चरणस्य तथा ट्रफ-रेखायाः प्रभावः वर्तते, येन मौसमे निरन्तरं परिवर्तनं दृश्यते। ११ जूनमासे पश्चिम-हिमालयीय-प्रदेशे सक्रियस्य पश्चिम-विक्षोभस्य प्रभावोऽपि मध्यप्रदेशस्य ऋतौ पतितुं शक्नोति।

हिन्दुस्थान समाचार / Divya Ranjan