सारणे नगरीयनदी प्रबंधन योजनायाः प्रारूपाय अंतिम रूपं दातुमुपवेशनम् आयोजितम्
सारणम्, 09 जूनमासः (हि.स.)। सारणजनपदस्य जिलाधिकारी वैभवश्रीवास्तवस्य अध्यक्षतायाम् अद्य नगरीयनदीप्रबन्धनयोजनायाः प्रारूपस्य अन्तिमरूपप्रदानार्थं बहुहितधारकबैठकस्य आयोजनम् अभवत्। अस्याः महत्त्वाकाङ्क्षिण्याः परियोजनायाः सञ्चालनं भारतसर्वकारस्य जल
सारण में शहरी नदी प्रबंधन योजना के प्रारूप को अंतिम रूप देने हेतु बैठक आयोजित


सारण में शहरी नदी प्रबंधन योजना के प्रारूप को अंतिम रूप देने हेतु बैठक आयोजित


सारणम्, 09 जूनमासः (हि.स.)।

सारणजनपदस्य जिलाधिकारी वैभवश्रीवास्तवस्य अध्यक्षतायाम् अद्य नगरीयनदीप्रबन्धनयोजनायाः प्रारूपस्य अन्तिमरूपप्रदानार्थं बहुहितधारकबैठकस्य आयोजनम् अभवत्।

अस्याः महत्त्वाकाङ्क्षिण्याः परियोजनायाः सञ्चालनं भारतसर्वकारस्य जलशक्तिमन्त्रालयस्य अधीनस्थेन राष्ट्रियस्वच्छगङ्गामिशनेन क्रियते। प्रथमचरणे बिहारस्य गङ्गातटनदीप्रणालीक्षेत्रात् चयनितेषु षट्सु नगरेषु छपरानगरम् अपि समाविष्टम् अस्ति। राष्ट्रियशहरीयकार्यसंस्थानम् तथा विशेषज्ञपरामर्शिसंस्थाः एतां समग्रयोजनां सज्जीकुर्वन्ति।

गोष्ठ्यां सारणस्य सांसदः राजीवप्रतापरूडी आभासीयमाध्यमेन सम्बद्धः अभवत्। तेन भाविआवश्यकतानाम् अनुरूपं नदीसंरक्षणम्, शहरीयविकासः तथा स्थानीयप्राथमिकताः मनसि निधाय व्यापकदृष्टिकोणस्य अवलम्बनाय सुझावः प्रदत्तः।

अपरत्र जिलाधिकारी वैभवश्रीवास्तवः परामर्शिसंस्थाः निर्देशितवान् यत् योजनायां छपरानगरक्षेत्रस्य प्रस्तावितविस्तारः तथा नदीसंयोजनपरियोजना इत्यादयः भाविविकासपरियोजनाः अनिवार्यरूपेण समावेश्याः।

अस्याः योजनायाः अन्तर्गतं मुख्यतया नदीतटस्य सुनियोजितविकासः, सौन्दर्ययुक्तबाढसुरक्षाभित्तेः निर्माणम्, स्थूलापशिष्टप्रबन्धनम्, विकेन्द्रीकृतार्द्रकचराप्रबन्धनम् तथा मलपङ्कस्य वैज्ञानिकनिस्तारणार्थं संरचनानां स्थापना इत्यादिषु घटकेषु विस्तृतः विचारविमर्शः कृतः।

गोष्ठ्याम् आधारभूतसंरचनाभिः सह जनजागरूकतायाः तथा नागरिकसहभागितायाः विषये विशेषबलं प्रदत्तम्, यथा जनानां व्यवहारः सकारात्मकदिशि परिवर्तितुं शक्नुयात्।

अस्यां गोष्ठ्यां छपरानगरनिगमस्य महापौरा, नगरायुक्तः, विभिन्ननगरनिकायानां कार्यपालकपदाधिकारिणः तथा जनपदस्तरीयाधिकारिणः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani