फुटबॉल-विश्वकप-दर्शनार्थं गच्छन्तौ नेपाल-फुटबॉल-संघस्य द्वौ पदाधिकारिणौ विमानस्थानकात् प्रत्यावर्तितौ
काठमाण्डूनगरम्, ०९ जूनमासः (हि.स.)। अखिल-नेपाल-फुटबॉल-संघस्य अध्यक्षः पङ्कज-विक्रम-नेम्वाङ्-महोदयः तथा महासचिवः किरण-राय-महोदयः त्रिभुवन-अन्ताराष्ट्रिय-विमानस्थानकात् प्रत्यावर्तितौ। शिक्षा-क्रीडा-मन्त्रालयस्य तथा राष्ट्रिय-क्रीडा-परिषदः पत्रस्य आ
अखिल नेपाल फुटबॉल संघ के पदाधिकारी


काठमाण्डूनगरम्, ०९ जूनमासः (हि.स.)। अखिल-नेपाल-फुटबॉल-संघस्य अध्यक्षः पङ्कज-विक्रम-नेम्वाङ्-महोदयः तथा महासचिवः किरण-राय-महोदयः त्रिभुवन-अन्ताराष्ट्रिय-विमानस्थानकात् प्रत्यावर्तितौ।

शिक्षा-क्रीडा-मन्त्रालयस्य तथा राष्ट्रिय-क्रीडा-परिषदः पत्रस्य आधारेण अध्यागमन-कार्यालयेन तयोः विदेश-यात्रा निरुद्धा। उभौ पदाधिकारी टर्किश-एयरलाइन्स-संस्थायाः टीके-७२७ इति विमान-सेवया इस्ताम्बुल-नगरं मार्गीकृत्य मेक्सिको-देशं गन्तुं सज्जौ आस्ताम्।

अध्यक्षस्य नेम्वाङ्-महोदयस्य तथा महासचिवस्य राय-महोदयस्य विरुद्धं वित्तीय-अनियमिततासम्बद्धेषु आरोपेषु भ्रष्टाचार-निरोधक-अनुसन्धान-विभागेन अन्वेषणं क्रियते। एतस्मात् कारणात् तयोः नामनी अध्यागमन-विभागस्य निरीक्षण-सूच्यां समाविष्टे स्तः, येन तयोः विदेश-गमनं निरुद्धम्।

Hindusthan Samachar / Divya Ranjan