Enter your Email Address to subscribe to our newsletters

काठमाण्डूनगरम्, ०९ जूनमासः (हि.स.)। नेपालस्य प्रधानमन्त्री बालेन्द्र-शाह-महोदयेन अद्य मन्त्रिपरिषदः विस्तारः कृतः। राष्ट्रपतिः रामचन्द्र-पौडेल-महोदयस्य समक्षं सुधन-गुरुङ्-महोदयेन गृहमन्त्रिपदस्य तथा महावीर-पुन-महोदयेन विज्ञान-प्रौद्योगिकी-नवप्रवर्तन-मन्त्रिपदस्य शपथः गृहीतः।
गृहमन्त्रिपदस्य कार्यभारं स्वीकृत्य प्रथम-निर्णयरूपेण सुधन-गुरुङ्-महोदयः २००१ तमे वर्षे घटितस्य नारायणहिटी-राजप्रासाद-नरसंहारस्य पुनरन्वेषणस्य घोषणाम् अकरोत्। तेन उक्तं यत् पूर्ववर्ती-अन्वेषण-प्रतिवेदनानां समीक्षां कृत्वा घटनायाः विषये अतिरिक्त-अनुसन्धानं करिष्यते।
उल्लेखनीयम् अस्ति यत् १ जून २००१ तमे वर्षे काठमाण्डुस्थिते नारायणहिटी-राजप्रासादे भीषण-गुटिकाकाण्डः अभवत्, यस्मिन् तत्कालीन-नेपाल-नरेशः वीरेन्द्र-विक्रम-शाहः, रानी ऐश्वर्या च सह राजपरिवारस्य नव सदस्याः मृताः अभवन्।
सर्वकारीय-अन्वेषणानुसारं युवराजः दीपेन्द्रः एव एतत् नरसंहारं कृतवान् इति निष्कर्षः प्रस्तुतः आसीत्। कथ्यते यत् स्वेच्छया विवाहस्य विषये उत्पन्नेन विवादेन सः कुपितः अभवत्। घटनानन्तरं दीपेन्द्रः अपि गम्भीररूपेण आहतः अभवत् तथा चिकित्सालये उपचाराधीनः सन् अल्पकालाय नेपालस्य राजा घोषितः, किन्तु द्विदिनानन्तरं तस्य निधनम् अभवत्। ततः ज्ञानेन्द्रः राजसिंहासनम् आरुरोह।
एषा घटना अद्यापि नेपाले विवादस्य तथा सन्देहस्य विषयः अस्ति। अतः नूतन-गृहमन्त्रिणा प्रकरणस्य पुनः परीक्षणस्य निर्णयः कृतः, येन घटनायाः विषये यथार्थ-तथ्यानि प्रकाशं प्राप्नुयुः।
Hindusthan Samachar / Divya Ranjan