Enter your Email Address to subscribe to our newsletters

नैनीतालम्, 09 जूनमासः (हि.स.)।कुमाऊँ परिक्षेत्रस्य नवनियुक्ता पुलिसमहानिरीक्षिका निवेदिता कुकरेती उक्तवती यत् महिला बालसुरक्षा तस्याः सर्वोच्चप्राथमिकतासु अन्तर्भवति।
तया उक्तं यत् महिलानां बालकानां च विरुद्धं घटमानानाम् अपराधानां निरोधनं, त्वरितानुसन्धानम् तथा प्रभाविकार्यवाही सुनिश्चितं कर्तुं पुलिसतन्त्रं अधिकं सुदृढं क्रियिष्यते। सहैव सुरक्षितं विश्वासपूर्णं च वातावरणं प्रदातुं आधुनिकप्रौद्योगिकीआधारितपुलिसव्यवस्थायाः प्रोत्साहनं दास्यते।
अद्य कार्यभारग्रहणानन्तरं कार्यालये पत्रकारैः सह संवादं कुर्वन्ती सा उक्तवती यत् पर्यटनसत्रस्य तथा कैंचीधामे वर्धमानश्रद्धालुसंख्यायाः कारणात् यातायातप्रबन्धनं महती चुनौती अभवत्। अस्याः चुनौतायाः निवारणार्थं पुलिसविभागः विविधविभागैः सह समन्वयं स्थापयित्वा कार्यं करोति, येन श्रद्धालुभ्यः पर्यटकेभ्यश्च उत्तमाः सुविधाः प्रदातुं शक्येरन्।
तया उक्तं यत् युवजनान् मादकद्रव्यसेवनप्रवृत्तेः रक्षितुं तथा मादकद्रव्यतस्करीं निरोद्धुं विशेषाः अभियानाः सञ्चालयिष्यन्ते। मादकद्रव्यतस्कर्यां संलग्नानां व्यक्तीनां विरुद्धं कठोरकार्यवाही क्रियिष्यते तथा जनजागरूकताकार्यक्रमाः अपि सञ्चालयिष्यन्ते।
तया उक्तं यत् राज्यसर्वकारस्य नीतिनिर्देशानां प्रभाविक्रियान्वयनं सुनिश्चित्य विधिव्यवस्थां अधिकं सुदृढां कर्तुं दिशि कार्यं करिष्यते।
Hindusthan Samachar / Dheeraj Maithani