नितिन गडकरिणा जोजिला सुरंगस्य निर्माणं भारतस्य अवसंरचनेतिहासस्य 'स्वर्ण अध्यायः' कथितः
गांदरबलम्, 09 जूनमासः (हि.स.)। केन्द्रीयसडकपरिवहनराजमार्गमन्त्री नितिनगडकरी मङ्गलवासरे जोजिलासुरङ्गस्य निर्माणं भारतस्य अवसंरचनाइतिहासस्य स्वर्णाध्यायः इति वर्णितवान्। तेन उक्तं यत् एषा सुरङ्गा सर्वासु ऋतुषु सम्पर्कसुनिश्चितीकरणेन लद्दाखप्रदेशस्य
नितिन गडकरिणा जोजिला सुरंगस्य निर्माणं भारतस्य अवसंरचनेतिहासस्य 'स्वर्ण अध्यायः' कथितः


गांदरबलम्, 09 जूनमासः (हि.स.)।

केन्द्रीयसडकपरिवहनराजमार्गमन्त्री नितिनगडकरी मङ्गलवासरे जोजिलासुरङ्गस्य निर्माणं भारतस्य अवसंरचनाइतिहासस्य स्वर्णाध्यायः इति वर्णितवान्। तेन उक्तं यत् एषा सुरङ्गा सर्वासु ऋतुषु सम्पर्कसुनिश्चितीकरणेन लद्दाखप्रदेशस्य जम्मूकश्मीरप्रदेशस्य च कृते जीवनरेखारूपेण कार्यं करिष्यति।

समारोहोत्तरायां पत्रकारसम्मेलने गडकरी उक्तवान् यत् चतुर्दशकिलोमीटरदीर्घा एषा सुरङ्गा देशस्य अत्यन्तमहत्त्वपूर्णासु अवसंरचनापरियोजनासु अन्यतमा अस्ति। सा दुर्गमभूप्रदेशस्य प्रतिकूलवातावरणस्य च उपस्थितावपि वैश्विकसुरक्षामानकानुसारं निर्मिता अस्ति। परियोजनायां संलग्नानाम् अभियन्तृणां श्रमिकाणां संस्थानानां च प्रशंसां कुर्वन् सः उक्तवान् यत् निर्माणकार्यं प्रायः त्रिसहस्रमीटरोन्नतौ शून्याङ्कात् न्यूनतापमाने सम्पन्नम्। अस्मिन् कार्ये प्रायः अशीतिप्रतिशतं श्रमिकाः स्थानीयाः आसन्।

तेन उक्तं यत् एषा सुरङ्गा कश्मीरप्रदेशस्य लद्दाखप्रदेशस्य च मध्ये निर्बाधसम्पर्कं सुनिश्चित्य सीमावर्तिक्षेत्रे पर्यटनस्य व्यापारस्य आर्थिकक्रियाकलापस्य रणनीतिकगमनागमनस्य च संवर्धनं करिष्यति। केन्द्रीयमन्त्रिणा लद्दाखप्रदेशस्य कृते अनेकाः नवीनाः आधारभूतसंरचनापरियोजनाः घोषिताः। तासु सहस्रकोटिरूप्यकव्ययेन निर्मीयमाणः लेहदक्षिणपरिहारमार्गः अष्टचत्वारिंशत्किलोमीटरपरिमितः तथा द्विशतकोटिरूप्यकव्ययेन निर्मीयमाणः लेहोत्तरपरिहारमार्गः सप्तदशमांशषट्किलोमीटरपरिमितः च अन्तर्भवतः। एतयोः उद्देश्यं यातायातसङ्कोचस्य न्यूनीकरणं सम्पर्कस्य च उन्नयनम् अस्ति।

तेन उक्तं यत् द्विदशमांशषट्किलोमीटरदीर्घायाः फातुलाद्विनलिकासुरङ्गायाः कार्यं त्रिमासाभ्यन्तरे आरभ्यते। अपरं त्रिसहस्रपञ्चशतकोटिरूप्यकव्यययुक्ता टेलापाससुरङ्गापरियोजना अन्तिमविस्तृतपरियोजनाप्रतिवेदनचरणे वर्तते तथा आगामिवर्षस्य मार्चमासात् पूर्वं तस्याः ठेकानां वितरणस्य सम्भावना वर्तते।

अतिरिक्तरूपेण गडकरी श्रीनगरगुमरीमार्गस्य विस्तारीकरणस्य उन्नयनस्य च घोषणाम् अकरोत्। अनेन सम्पर्कव्यवस्था अधिकं सुदृढा भविष्यति तथा जोजिलासुरङ्गायाः पूरकरूपेण कार्यं करिष्यति। तेन हिमालयप्रदेशे आधारभूतसंरचनाविस्ताराय दूरस्थसीमावर्तिक्षेत्रेषु च वर्षपर्यन्तं गमनागमनसुविधासुनिश्चितीकरणाय केन्द्रशासनस्य प्रतिबद्धता पुनः प्रतिपादिता।

---------------

Hindusthan Samachar / Dheeraj Maithani