Enter your Email Address to subscribe to our newsletters

नवदेहली, ०९ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी-महोदयः मङ्गलवासरे समाजकल्याणाय समर्पितस्य सत्यबुद्धिमतः पुरुषस्य गुणान् प्रकाशयन् एकं संस्कृत-सुभाषितं समाजमाध्यमे ‘एक्स’ इत्यत्र सहभागं कृतवान्। सः अवदत् यत् गतद्वादशवर्षेषु “सर्वैः सह, सर्वेषां विकासः” इति भावनया प्रेरितैः निरन्तर-प्रयासैः वयं सुदृढस्य आत्मनिर्भरभारतस्य दिशि अग्रसराः स्मः।
प्रधानमन्त्री महोदयः ‘एक्स’-माध्यमे लिखितवान् यत् “राष्ट्रनिर्माणाय समर्पणं सेवाभावश्च अस्माकं अमूल्यं धनम् अस्ति। गतद्वादशवर्षेषु ‘सर्वैः सह, सर्वेषां विकासः’ इति भावनया प्रेरितैः निरन्तरप्रयासैः एव अद्य वयं सुदृढस्य आत्मनिर्भरभारतस्य दिशि अग्रसराः स्मः।”
सः यत् संस्कृत-सुभाषितं सहभागं कृतवान्, तत्—
“आर्यकर्माणि राज्यन्ते भूतिकर्माणि कुर्वते।हितं च नाभ्यसूयन्ति स वै पण्डित उच्यते॥”
अस्य सुभाषितस्य अर्थः अस्ति यत् यः जनः सततं सत्कर्मसु प्रवृत्तः भवति, समाजस्य कल्याणे समर्पितः तिष्ठति, परोपकारिणां वचांसि कर्माणि च सम्मानयति तथा तेषु दुर्भावं न धारयति, स एव वस्तुतः पण्डितः इति कथ्यते।
Hindusthan Samachar / Divya Ranjan