Enter your Email Address to subscribe to our newsletters

-2027 इत्यस्य विजयस्य अधुनैव करणीयश्शंखनादः : शाहनवाज हुसैनः-विकसित भारतस्य अथ विकसित उत्तर प्रदेशस्य संकल्पं को साकारीकरणे लग्नाःकार्यकर्तारः : शाहनवाज हुसैनः
प्रयागराजः, 09 जूनमासः (हि.स)। भारतीयजनतापक्षस्य राष्ट्रियप्रवक्ता तथा पूर्वकेन्द्रीयमन्त्रिणः सैयदशाहनवाजहुसैनस्य मङ्गलवासरे भाजपायमुनापारजिलाध्यक्ष राजेशशुक्लस्य नेतृत्वे भाजपा जिल्लापाध्यक्षः तथा महिलामोर्चाजिल्लाध्यक्षः सवितामिश्रा इत्यस्याः नैनीस्थितनिवासे कार्यकर्तृभिः स्वागतं अभिनन्दनं च कृतम्।
अवसरे अस्मिन् कार्यकर्तॄन् सम्बोधयन् राष्ट्रियप्रवक्ता सैयदशाहनवाजहुसैन उक्तवान् यत् भारतीयजनतापक्षस्य प्रत्येकः कार्यकर्ता राष्ट्रहिताय, सङ्गठनाय, जनसेवायै च समर्पितः अस्ति। भाजपाकार्यकर्तृषु हनुमतः इव अद्भुता शक्तिः, निष्ठा, समर्पणभावश्च वर्तते, यस्य बलात् पक्षेण देशस्य राजनीतिक्षेत्रे नूतनाः कीर्तिमानाः स्थापिताः। तेन उक्तं यत् वर्षात् २०१४ पूर्वं देशः निराशया, भ्रष्टाचारेण, नीतिगतअस्थिरतया च पीडितः आसीत्। किन्तु प्रधानमन्त्रिणः नरेन्द्रमोदि नेतृत्वे विगतेषु द्वादशवर्षेषु भारतेन विकासे, सुशासने, सुरक्षायाम्, आत्मनिर्भरतायां च ऐतिहासिकाः उपलब्धीः प्राप्ताः।
तेन उक्तं यत् अद्य भारतं विश्वमञ्चे सुदृढतया स्वपरिचयं स्थापयति। दरिद्रकल्याणे, कृषकसम्माने, महिलासशक्तीकरणे, आधारभूतसंरचनाविकासे, डिजिटलकान्तौ च अनेकेषु क्षेत्रेषु केन्द्रीयसर्वकारेण अभूतपूर्वं कार्यं कृतम्। एताः उपलब्धीः जनजनं प्रति प्रापयितुं प्रत्येकस्य भाजपाकार्यकर्तुः दायित्वम् अस्ति।
राष्ट्रियप्रवक्त्रा मुख्यमन्त्रिणो योगीआदित्यनाथस्य नेतृत्वे उत्तरप्रदेशे सम्पन्नानां व्यापकपरिवर्तनानाम् उल्लेखः कृतः। तेन उक्तं यत् प्रदेशः अद्य विधिव्यवस्थायाम्, निवेशे, आधारभूतसंरचनाविकासे, जनकल्याणकारीयोजनानां क्रियान्वयने च देशस्य अग्रणीषु राज्येषु समाविष्टः अस्ति। तेन उक्तं यत् भाजपाकार्यकर्तारः वर्षम् २०२७ विधानसभानिर्वाचनं लक्ष्यीकृत्य अधुनैव मतदानकेन्द्रस्तरपर्यन्तं सङ्गठनं अधिकं सुदृढं कर्तुं प्रवर्तेरन्। तेन उक्तं यत् विपक्षदलानि जनसामान्येषु भ्रमं प्रसारयितुं विकासराजनीतौ बाधाम् उत्पन्नं कर्तुं च विविधाः कुटिलयोजनाः करिष्यन्ति, किन्तु भाजपाकार्यकर्तृभिः तथ्याधारितरूपेण उपलब्धीनां आधारेण जनतायाः जागरणं करणीयम्। तेन उक्तं यत् भाजपायाः महान्तमा शक्तिः तस्याः समर्पितः कार्यकर्ता अस्ति, यः राष्ट्रहितं सर्वोपरि मत्वा कार्यं करोति।
तेन पश्चिमबङ्गालसहितेषु विभिन्नराज्येषु पक्षस्य सफलतायाः उल्लेखं कृत्वा उक्तं यत् विजयः आत्मविश्वासं वर्धयति, किन्तु सङ्गठनस्य सुदृढीकरणं जनसम्पर्कस्य निरन्तरवर्धनं च एव भाजपायाः सफलतायाः मूलमन्त्रः अस्ति। तेन कार्यकर्तृभ्यः सेवा, सङ्गठनं, संवादं च माध्यमीकृत्य समाजस्य प्रत्येकं वर्गं प्रति गन्तुम् आह्वानं कृतम्।
भाजपाजिलामाध्यमप्रभारी दिलीपकुमारचतुर्वेदी अवदत् यत् राष्ट्रियप्रवक्त्रा प्रायः एकघण्टापर्यन्तं पदाधिकारिभिः कार्यकर्तृभिश्च सह सङ्गठनात्मकविषयेषु विस्तरेण चर्चा कृता तथा च आगामिकार्यक्रमाणां निर्वाचनतयारीणां च विषये महत्त्वपूर्णं मार्गदर्शनं प्रदत्तम्। अस्मिन् काले तेन जिलाउपाध्यक्षस्य पत्युः कुशलक्षेमम् अपि ज्ञातम्, यः विगतकिञ्चित्कालात् अस्वस्थः वर्तते। ततः परं सः मिर्जापुरं प्रति प्रस्थितः।
अवसरे अस्मिन् जिला कार्यालयमन्त्री आनन्दतिवारी, मण्डलाध्यक्षः हरिकृष्णपाण्डेयः, अभिषेकत्रिपाठी, सत्यमशुक्ला, उमादेवी, प्रमिला, नीतू, दिलीपकेशरवानी इत्यादयः तथा बहुसंख्यकाः भाजपापदाधिकारिणः कार्यकर्तारश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani