Enter your Email Address to subscribe to our newsletters


रायपुरम्, ०९ जूनमासः (हि.स.)। छत्तीसगढ़-राज्ये मार्ग-दुर्घटनानां न्यूनीकरणाय प्रौद्योगिकी-आधारित-निरीक्षणस्य, उन्नत-चालक-प्रशिक्षणस्य, वाहनानां वैज्ञानिक-योग्यता-परीक्षणस्य तथा यातायात-नियमानां प्रभावी-पालनस्य विषये सर्वकारेण विशेष-बलं प्रदत्तम्।
नवा-रायपुर-स्थिते मन्त्रालये आयोजितायां राज्य-मार्ग-सुरक्षा-परिषदः सभायां उपमुख्यमन्त्री अरुण-साव-महोदयः, उपमुख्यमन्त्री विजय-शर्मा-महोदयः तथा परिवहनमन्त्री केदार-कश्यप-महोदयः मार्ग-सुरक्षायाः विविध-पक्षाणां समीक्षां कृत्वा अधिकारिभ्यः प्रभावी-क्रियान्वयनस्य सुनिश्चितीकरणाय निर्देशान् अददुः। सभायां विधायकेन अनुज-शर्मा-महोदयेन सहितः विविध-विभागानां वरिष्ठ-अधिकारिणः उपस्थिताः आसन्।
सभायां सूचितं यत् राज्ये मार्ग-सुरक्षां सुदृढां कर्तुं आधुनिक-वाहन-योग्यता-परीक्षण-केन्द्राणां, ई-चालक-परीक्षण-पथानां, एएनपीआर-कैमरा-यन्त्राणां तथा वेग-निगराणी-प्रणालीनां विस्तारं क्रियमाणम् अस्ति। जनवरी-मासात् मे-मासपर्यन्तं २०२६ वर्षे ३१,६०४ वाहनानां योग्यता-परीक्षणं सम्पन्नम्, यदा च प्रौद्योगिकी-निरीक्षण-तन्त्रस्य माध्यमेन ६१ सहस्राधिकानि चालानपत्राणि निर्गतानि।
उपमुख्यमन्त्री अरुण-साव-महोदयः अवदत् यत् मार्ग-सुरक्षा केवलं कस्यचित् एकस्य विभागस्य उत्तरदायित्वं नास्ति, अपितु समाजस्य सामूहिकी उत्तरदायित्वता अस्ति। दुर्घटनानां न्यूनीकरणाय मार्ग-अभियांत्रिकी, प्रभावी-प्रवर्तनं तथा जन-जागरूकता इत्येषां समन्वित-प्रयत्नाः आवश्यकाः सन्ति। तेन दुर्घटना-सम्भावित-स्थलानां नियमित-समीक्षां कृत्वा आवश्यक-सुधारात्मक-उपायानां सुनिश्चितीकरणे तथा जागरूकता-अभियानानां अधिक-प्रभावीकरणे बलं दत्तम्।
उपमुख्यमन्त्री विजय-शर्मा-महोदयः उक्तवान् यत् मार्ग-दुर्घटनाभिः जनहानि-निवारणं सर्वकारस्य सर्वोच्च-प्राथमिकतासु अन्तर्भवति। तेन उक्तं यत् आधुनिक-प्रौद्योगिक्याः उपयोगेन यातायात-नियमानां पालनं अधिकं प्रभावी कर्तुं शक्यते। तेन प्रवर्तन-अभिकरणानां मध्ये उत्तम-समन्वयस्य तथा नियम-उल्लङ्घनेषु त्वरित-कार्यवाह्याः सुनिश्चितीकरणाय निर्देशाः प्रदत्ताः। सहैव यूनां विद्यार्थिनां च मध्ये यातायात-नियमानां प्रति जागरूकता-वृद्धौ विशेषं बलं दत्तम्।
परिवहनमन्त्री केदार-कश्यप-महोदयः अवदत् यत् मार्ग-दुर्घटनानां न्यूनीकरणाय प्रौद्योगिकी, प्रशिक्षणं, जन-जागरूकता तथा प्रभावी-प्रवर्तन-व्यवस्था अधिकं सुदृढा क्रियिष्यते। तेन उक्तं यत् मुख्यमन्त्रिणः विष्णुदेव-साय-महोदयस्य नेतृत्वे राज्य-सर्वकारः सुरक्षित-यातायात-व्यवस्थायाः विकासाय तथा मार्ग-सुरक्षां जन-सहभागिता-अभियानरूपेण स्थापयितुं निरन्तरं कार्यं करोति। तेन अधिकारिभ्यः मार्ग-सुरक्षा-कार्यक्रमाणां नियमित-समीक्षायाः तथा प्रभावी-क्रियान्वयनस्य सुनिश्चितीकरणाय निर्देशाः प्रदत्ताः।
सभायां ज्ञापितं यत् रायपुर, बिलासपुर, अम्बिकापुर, जगदलपुर, दुर्ग, राजनांदगांव, कोरबा, जांजगीर-चाम्पा तथा रायगढ़ इत्यादिषु जनपदेषु सञ्चालितेषु आधुनिक-योग्यता-परीक्षण-केन्द्रेषु जनवरी-मासात् मे-मासपर्यन्तं २०२६ वर्षे ३१,६०४ वाहनानां योग्यता-परीक्षणं कृतम्।
सुरक्षित-कुशल-चालनस्य प्रोत्साहनाय अनेकेषु जनपदेषु ई-चालक-परीक्षण-पथाः सञ्चालिताः सन्ति, यदा च वित्तीय-वर्षे २०२६-२७ अष्टसु नूतन-जनपदेषु तेषां निर्माण-प्रक्रिया प्रचलति। बिलासपुरे जगदलपुरे च क्षेत्रीय-चालक-प्रशिक्षण-केन्द्रे, तथा १४ जनपदेषु चालक-प्रशिक्षण-केन्द्राणि सञ्चालितानि सन्ति।
देशे यातायात-नियमानां प्रभावी-पालनाय १७४ एएनपीआर-कैमरा-यन्त्राणि तथा सप्त लिडार-आधारित-वेग-चित्रकर्षक-यन्त्राणि स्थापितानि सन्ति। एतेषां माध्यमेन जनवरी-मासात् मे-मासपर्यन्तं २०२६ वर्षे ६१ सहस्राधिकानि चालानपत्राणि निर्गतानि। अपरञ्च मार्ग-सुरक्षायाः सुनिश्चितीकरणाय अधुना यावत् २,६८,३१६ वाहनेषु वेग-नियन्त्रक-यन्त्राणि स्थापितानि सन्ति।
नवा-रायपुर-स्थिते आईडीटीआर-संस्थाने वाहन-चालकेभ्यः आधुनिक-प्रशिक्षणं प्रदीयते। वर्षे २०२५ मध्ये १५,७७९ तथा वर्षे २०२६ मध्ये अप्रैल-मासपर्यन्तं ४,०६४ वाहन-चालकाः प्रशिक्षिताः।
यातायात-नियम-उल्लङ्घनस्य प्रकरणेषु जनवरी-मासात् अप्रैल-मासपर्यन्तं २०२६ वर्षे २.८६ लक्ष-वाहनेभ्यः ६२.२१ कोटि-रूप्यकाणां शमन-शुल्कं संगृहीतम्। गम्भीर-उल्लङ्घन-प्रकरणेषु वर्षे २०२५-२६ मध्ये ७,४३४ चालक-अनुज्ञापत्राणि निलम्बितानि अथवा निरस्तानि च।
Hindusthan Samachar / Divya Ranjan