Enter your Email Address to subscribe to our newsletters


कोलकाता, 09 जूनमासः (हि.स.)।आसनसोलनगरस्य पूर्वसांसदः वर्तमानविधायकः च बाबुल सुप्रियो महोदयः स्वस्य आधिकारिकफेसबुकलेखे दीर्घां व्यङ्ग्यात्मकां संसूचनां प्रकाशितवान्, यस्यां पश्चिमबङ्गालस्य परिवर्तमानराजनैतिकपरिस्थितीनां विषये कटाक्षः कृतः। अस्यां संसूचनायां तेन दलपरिवर्तनम्, नेतॄणां राजनैतिकनिष्ठायाः परिवर्तनम् तथा विविधदलानां मध्ये वर्धमानसमीपता इत्यादीन् विषयान् अधिकृत्य तीक्ष्णा किन्तु हास्यपूर्णा टिप्पणी कृता।
बाबुल सुप्रियो महोदयः स्वस्य संसूचनायां भाजपा प्रदेशाध्यक्षस्य शमिक भट्टाचार्य महोदयस्य तस्य वक्तव्यस्य उल्लेखं कृतवान्, यस्मिन् तेन उक्तं यत् भाजपायाः तृणमूलीकरणं न भवितुम् अनुमन्यते। एतेन सह तेन प्रश्नः अपि उत्थापितः यत् किम् बङ्गालस्य राजनीतौ तृणमूलस्य भाजपाकरणं भवति वा।
संसूचनायां बाबुलेन राजनैतिकदलेषु निरन्तरं भवतां नेतॄणाम् आवागमनस्य विषये अपि व्यङ्ग्यः कृतः। तेन लिखितं यत् कदाचित् तृणमूलस्य नेतारः भाजपां गच्छन्ति, कदाचित् भाजपायाः नेतारः तृणमूलं गच्छन्ति, येन सामान्यजनानां कृते एतत् ज्ञातुं कठिनं भवति यत् कः कस्मिन् दले वर्तते। अस्मिन् प्रसङ्गे तेन अनेकानां प्रमुखनेतॄणां नामानि उल्लिख्य राजनैतिकसमीकरणेषु कटाक्षः कृतः।
तेन एतदपि उक्तं यत् यदि कस्यचित् व्यक्तेः विरुद्धं भ्रष्टाचारस्य, सिण्डिकेटसम्बद्धक्रियाकलापानाम् अथवा अत्याचारस्य आरोपाः सन्ति, तर्हि तस्मै विधानानुसारं दण्डः दातव्यः, किन्तु केवलं दलपरिवर्तनेन तस्य प्रतिमा धौततुलसीपत्रवत् निर्मला न भवेत्। बाबुलेन अस्मिन् विषये सर्वेषां राजनैतिकदलानां कृते समानमानदण्डस्य आवश्यकता प्रतिपादिता।
स्वस्य संसूचनायाः अन्ते तेन बङ्गालस्य राजनीतेः वर्तमानस्थितिं बीजेमूल इति संज्ञां दत्त्वा लिखितं यत् एवं प्रतीयते यथा दीर्घकालात् तृतीयराजनैतिकविकल्पस्य स्वप्नं पश्यतां जनानाम् इच्छा सम्पूर्यते।
बाबुल सुप्रियो महोदयस्य एषा संसूचना सामाजिकमाध्यमेषु शीघ्रतया प्रसारं गच्छति तथा राजनैतिकवृत्तेषु अस्याः विषये चर्चाक्रमः आरब्धः अस्ति। समर्थकाः विरोधिनः च उभयपक्षीयाः जनाः एतां संसूचनां स्वस्वदृष्टिकोणेन पश्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani