(रामकथा अद्यतनीकृता) रामं स्वजीवनस्य आदर्शं निर्मातुः कल्याणम् : योगी आदित्यनाथः
येषां मनसि राष्ट्रस्य प्रति श्रद्धा निष्ठा च नास्ति तेषां कृते भारतस्य भूमिः धर्मशाला न भवितुमर्हति इति मुख्यमन्त्री नवदिवसीय रामकथामहोत्सवस्य समापनसमारोहे उपस्थितौ मुख्यमन्त्री गोरक्षपीठाधीश्वरश्च योगी आदित्यनाथः ये रामस्य प्रति द्रोहमाचरन्ति ते
रामभद्राचार्य


येषां मनसि राष्ट्रस्य प्रति श्रद्धा निष्ठा च नास्ति तेषां कृते भारतस्य भूमिः धर्मशाला न भवितुमर्हति इति मुख्यमन्त्री

नवदिवसीय रामकथामहोत्सवस्य समापनसमारोहे उपस्थितौ मुख्यमन्त्री गोरक्षपीठाधीश्वरश्च योगी आदित्यनाथः

ये रामस्य प्रति द्रोहमाचरन्ति तेभ्यः पृथिव्यां कुत्रापि स्थानं न प्राप्तम् इति मुख्यमन्त्री योगी

मुख्यमन्त्रिणा उक्तं यत् लव जिहाद लाण्ड जिहाद च विरुद्धं समाजः एकतया स्थित्वा संघर्षं कुर्यात्

रामनाम्नि जीवनस्य सर्वासां समस्याणां समाधानमस्ति इति गोरक्षपीठाधीश्वरः

लखनऊ, ०९ जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् येन प्रभुः श्रीरामः स्वजीवनस्य आदर्शत्वेन स्वीकृतः तस्य कल्याणमभवत्। येन च रामस्य प्रति द्रोहः कृतः तस्मै अस्यां पृथिव्यां कुत्रापि स्थानं न प्राप्तम्। मारीचस्य खरदूषणस्य रावणस्य च कीदृशः परिणामो जातः। स्त्रीणां गौरवस्य संरक्षणं कथं करणीयम्, लव जिहादस्य विरुद्धं कथं स्वरः उत्थापनीयः, एतत् सर्वं भवतां समक्षमेव दृश्यते।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः मङ्गलवासरे सीतापुरमार्गस्थिते सेवा चिकित्सालयपरिसरे प्रचलन्त्याः पद्मविभूषण तुलसीपीठाधीश्वर जगद्गुरु रामभद्राचार्यस्य रामकथायाः अन्तिमदिने उपस्थितः अभवत्। मुख्यमन्त्रिणा व्यासपीठे पुष्पाणि समर्प्य पूजनं कृतम्। रामभद्राचार्यस्य माल्यार्पणमपि कृतम्। तत्रैव जगद्गुरुणा रामभद्राचार्येण मुख्यमन्त्रिणे योगी आदित्यनाथाय अङ्गवस्त्रं समर्प्य आशीर्वादः प्रदत्तः।

अस्यां सन्धौ स्वसम्बोधने मुख्यमन्त्री योगी आदित्यनाथः लव जिहादस्य विषये जनान् सजगान् कर्तुमाह। सः अवदत् यत् केरल उच्चन्यायालयेन २००९ तमे वर्षे अस्य विषये चिन्ता व्यक्ता आसीत्। तदापि वयं तत्र पर्याप्तं ध्यानं न दत्तवन्तः। उत्तरप्रदेशे वयं २०२० तमे वर्षे अस्य विषये विधानं निर्मितवन्तः। तथापि अस्मिन् विषये व्यापकजनजागरणस्य आवश्यकता वर्तते। सः अवदत् यत् रामायणकालस्य उदाहरणानि भवतां समक्षं सन्ति। मारीचः अस्ति, रावणः अस्ति। उच्चकुले श्रेष्ठव्यवस्थायां च जाताः सन्तोऽपि ते पशुवद् निहताः। अस्माकं पवनसुतः हनुमान्, विभीषणश्च सन्ति। सामान्यजीवने जन्मसमये ततः परं च यद्यपि तादृशं सम्मानं न प्राप्तवन्तौ, तथापि रामस्य सङ्गतिं प्राप्य पूज्यौ अभवताम्। सर्वेषां कृते पूज्यौ अभवताम्। प्रातःकाले यान् सप्त नामानि स्मरामः तेषु विभीषणस्य नामापि वर्तते। अस्माकं परम्परायां सर्वासां समस्याणां समाधानम् अस्ति। वयं बाल्यकालात् पश्यामः यत् ग्रामस्य अशिक्षितः जनोऽपि हनुमच्चालीसां कण्ठस्थां करोति। सः तां स्मृतौ धारयति। एषा एव शक्तिः।

मुख्यमन्त्री योगी अवदत् यत् श्रीरामजन्मभूम्याः आन्दोलनं ४९१ वर्षपर्यन्तं प्रचलितम्। २०१९ तमे वर्षे सर्वोच्चन्यायालयस्य पूर्णपीठस्थैः न्यायमूर्तिभिः स्वनिर्णये उक्तं यत् यत्र रामलला विराजते तदेव रामजन्मभूमिः अस्ति। अस्य समर्थनार्थं साक्ष्याणि प्रमाणानि विदुषां वक्तव्यानि च प्रस्तुतानि आसन्। सर्वोच्चन्यायालयस्य एकेन न्यायमूर्तिना स्वामी रामभद्राचार्यस्य विषये उक्तं यत् तस्य वक्तव्यं श्रुत्वा मम मनसि एषा भावना जाता यत् सनातनधर्मानुयायिभिः सह शताधिकवर्षाणि यावत् अन्यायः कृतः आसीत्।

सः अवदत् यत् भवन्तः सर्वे सौभाग्यशालिनः सन्ति यत् तुलसीपीठाधीश्वरस्य श्रीमुखात् एतस्याः पावनायाः कथायाः श्रवणस्य सौभाग्यं प्राप्तवन्तः। एतदेव कारणं यत् वयं वदामः। मध्यकाले तुलसीदासमहाभागेन समाजस्य एकीभावस्य विदेश्याक्रान्तृभ्यः प्रति जागरूकतायाः च चेतना जनिता। प्रभोः श्रीरामस्य भक्तेः सन्देशं प्रदाय तेन समग्रं उत्तरभारतं एकतासूत्रे संयोजितम्। स एव कार्यमार्गः अद्य जगद्गुरुणा रामानन्दाचार्येण तुलसीपीठाधीश्वर रामभद्राचार्येण अनुगम्यते। तस्य श्रीमुखात् पावनकथाश्रवणस्य सौभाग्यं भवद्भ्यः प्राप्तं भवति। कथा केवलं श्रवणार्थं नास्ति। कथायाः मर्म अवगन्तव्यं जीवने च आचरितव्यं। रामस्य आदर्शः स्वजीवने अवश्यं धारयितव्यः।

एषा कथा भारतीयजनतापक्षस्य विधायकेन डा. नीरज बोरेण आयोजिता आसीत्। कथायाः आरम्भात् पूर्वमेव आयोजनसमित्याः सदस्याः मुख्यमन्त्रिणा सह मिलित्वा तं निमन्त्रितवन्तः। मुख्यमन्त्रिणा कथायाः आयोजनसम्बद्धः प्रचारपत्रमपि प्रकाशितम्।

---

Hindusthan Samachar / Dheeraj Maithani