Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ०९ जूनमासः (हि.स.)। प्रदेशे आउटसोर्स-कर्मचारिणां नियुक्तिः, सेवा-शर्ताः तथा पारिश्रमिक-व्यवस्था इत्यादीनि अधिकानि पारदर्शीनि, सुव्यवस्थितानि एकरूपाणि च कर्तुं उत्तरप्रदेश-आउटसोर्स-सेवा-निगमस्य भूमिका अधिकं प्रभाविनी कारयिष्यते। मुख्यमन्त्री योगी-आदित्यनाथ-महोदयः मङ्गलवासरे यूपीकॉस-संस्थायाः कार्यप्रणाल्याः प्रगतेश्च समीक्षां कृत्वा तस्य माध्यमेन आउटसोर्स-व्यवस्थां प्रौद्योगिकी-आधारितां, उत्तरदायित्वयुक्तां कर्मचारी-हितैषिणीं च कर्तुं निर्देशान् अयच्छत्।
सभायां सूचितं यत् उत्तरप्रदेश-आउटसोर्स-सेवा-निगमस्य गठनं विविधेषु सर्वकारीय-विभागेषु कार्यरतानां आउटसोर्स-कर्मचारिणां नियुक्तौ, सेवा-शर्तेषु, प्रक्रियासु तथा मानदेय-व्यवस्थायां एकरूपता-पारदर्शितयोः स्थापनार्थं कृतम्। मुख्यमन्त्री उक्तवान् यत् आउटसोर्स-व्यवस्थायां दक्षता, पारदर्शिता तथा उत्तरदायित्वं सुनिश्चितं करणीयम्, येन कर्मचारिणां हितानां संरक्षणं भवेत् तथा विभागेभ्यः अपि सुव्यवस्थिताः मानव-संसाधनाः उपलब्धाः भवेयुः।
मुख्यमन्त्रिणा आउटसोर्स-कर्मचारिभिः सम्बद्धस्य एकीकृत-ऑनलाइन-पटलस्य विकास-कार्यस्य समीक्षा कृता तथा तत् समयबद्ध-रीत्या सम्पादयितुं निर्देशाः प्रदत्ताः। तेन उक्तं यत् पटलस्य माध्यमेन नियुक्तिः, सत्यापनम्, अनुश्रवणं तथा अन्याः प्रक्रियाः केन्द्रीकृत-रूपेण सञ्चालिताः भवेयुः, येन व्यवस्था अधिका सरला, पारदर्शिनी प्रभाविनी च भविष्यति।
सभायाम् आउटसोर्स-अभिकरणानां सूचीकरण-प्रक्रियायाः विषयेऽपि चर्चा अभवत्। मुख्यमन्त्री उक्तवान् यत् अभिकरणानां चयन-सञ्चालनयोः सम्बद्धाः सर्वे मानदण्डाः प्रक्रियाश्च स्पष्टाः, मानकीकृताः पारदर्शिनश्च भवितुमर्हन्ति। एतदर्थं निर्मीयमाणायाः व्यवस्थायाः शीघ्रमेव अन्तिमरूपं दातव्यं, येन सर्वेभ्यः विभागेभ्यः समाना सुव्यवस्थिता च प्रणाली उपलब्धा भवेत्।
Hindusthan Samachar / Divya Ranjan