काश्यां स्थापयिष्यते विश्वस्य सर्वतः उन्नतं शिवलिंगं, 100 कोटिरुप्यकाणां व्ययेन 20 एकड़मिते भूखंडे निर्मास्यते उद्यानम्
वाराणसी, 09 जूनमासः (हि. स.)। उत्तरप्रदेशसर्वकारस्य अनुमत्याः अनन्तरं वाराणस्यां भेलूपुरक्षेत्रस्थितायां जलकलविभागस्य विंशत्यधिकैकडपरिमितायां भूमौ विश्वस्तरीयनागरवाटिकानिर्माणस्य सिद्धताः आरब्धाः। नागरवाटिकायाः विन्यासचित्रं सिद्धं जातम् अस्ति,
पार्क के लेआउट में दिखता हुआ विशालकाय शिवलिंग


वाराणसी, 09 जूनमासः (हि. स.)।

उत्तरप्रदेशसर्वकारस्य अनुमत्याः अनन्तरं वाराणस्यां भेलूपुरक्षेत्रस्थितायां जलकलविभागस्य विंशत्यधिकैकडपरिमितायां भूमौ विश्वस्तरीयनागरवाटिकानिर्माणस्य सिद्धताः आरब्धाः। नागरवाटिकायाः विन्यासचित्रं सिद्धं जातम् अस्ति, यस्मिन् विश्वस्य उच्चतमस्य १३० पादोन्नतस्य शिवलिङ्गस्य स्थापना क्रियिष्यते।

वाराणस्याः नगरायुक्तः हिमांशु नागपालः मङ्गलवासरे अवदत् यत् शतकोटिरूप्यकव्ययेन वाराणस्यां भेलूपुरे विश्वस्तरीया नागरवाटिका स्थाप्यते। यस्याम् विश्वस्य बृहत्तमस्य शिवलिङ्गस्य स्थापनायाः अपि सिद्धता क्रियते। एतदर्थं निर्माणकार्यस्य स्थापनाकार्यस्य च विषये उपवेशनम् आयोजितम्। एतेन सह वाटिकां द्रष्टुमागच्छतां जनानाम् आकर्षणार्थं काश्याः विभूतीनां विषये सूचना शिलापट्टेषु स्थाप्यते। पद्मपुरस्कारैः सम्मानिताः विशिष्टजनाः अपि तत्र समाविष्टाः भविष्यन्ति।

नगरायुक्तेन उक्तं यत् विश्वस्तरीयवाटिकायाः निर्माणकार्यं सुचारुरूपेण सम्पन्ने सति तत् आगामीवर्षे २०२७ तमे वर्षे मार्चमासपर्यन्तं पूर्णं भविष्यति। वाटिकायाः विन्यासानुसारं लेजरप्रदर्शनम्, बालकेभ्यः उच्चप्रौद्योगिकीयदोलाः, मुक्तकलादीर्घा, खाद्यप्रकोष्ठः तथा मुक्तकलादीर्घा अपि निर्मीयते। उच्चतमस्य शिवलिङ्गस्य परितः श्रद्धालूनां परिभ्रमणार्थं वृत्ताकारमार्गः अपि निर्मास्यते।

अस्याः वाटिकायाः निर्माणानन्तरं तां द्रष्टुं देशविदेशेभ्यः सहस्रशः लक्षशश्च जनाः आगमिष्यन्ति।

--------------

Hindusthan Samachar / Dheeraj Maithani