Enter your Email Address to subscribe to our newsletters

रायपुरम्, 9 जूनमासः (हि.स.)।केन्द्रीयकृषिमन्त्रिणः शिवराजसिंहचौहानस्य अध्यक्षतायां मङ्गलवासरे विडियोसम्मेलनमाध्यमेन आयोजिते राज्यकेन्द्रशासितप्रदेशानां मन्त्रिणाम् उच्चस्तरीयोपवेशने छत्तीसगढराज्यस्य ग्रामीणाधारसंरचनायाःजीविकासृजनस्य च कृते महान् लाभः प्राप्तः।
केन्द्रीयसर्वकारेण सम्पूर्णदेशे १ जुलै २०२६ तः प्रवर्त्यमानस्य नूतनस्य ऐतिहासिकस्य उपक्रमस्य विकसितभारतरोजगारआजीविकागारण्टीमिशन अन्तर्गतं छत्तीसगढराज्याय ३,३५४.८५ कोटिरूप्यकाणाम् अन्तरिमविनियोजनस्य घोषणा कृता। एतया महत्या वित्तीयसहायतया राज्यस्य ग्रामपञ्चायतेभ्यः प्रत्यक्षं निधिः प्रदास्यते, येन स्थानीयस्तरे रोजगारगारण्टी अधिकं सुदृढा भविष्यति तथा च ग्रामीणविकासकार्याणि अभूतपूर्ववेगेन सम्पादितानि भविष्यन्ति।
केन्द्रीयमन्त्री शिवराजसिंहचौहानः उपवेशने उक्तवान् यत् एतत् केवलं योजनायाः परिवर्तनं नास्ति, अपितु कोटिशः श्रमिकाणां जीवनस्य आजीविकायाश्च सम्बद्धः विषयः अस्ति। तेन स्पष्टतया उक्तं यत् एकमपि दिनं कश्चन श्रमिकः कर्मविना न तिष्ठेत् तथा च रोजगारस्य, पारिश्रमिकभुक्तेः, वैधानिकाधिकाराणां गारण्टेश्च विषये कापि बाधा ग्राह्या न भविष्यति।
डिजिटलप्रशासकीयतयारीविषये भाषमाणः केन्द्रीयमन्त्री शिवराजसिंहचौहानः उक्तवान् यत् डीबीटी, एसएमएस आधारितसूचनाप्रणाली, ईकेवायसी तथा फेसऑथेन्टिकेशन इत्यादिषु प्रक्रियासु अनेकैः राज्यैः उल्लेखनीया प्रगतिः कृता अस्ति, या नूतनव्यवस्थायाः सफलक्रियान्वयनस्य शुभसूचना अस्ति।
केन्द्रीयग्रामीणविकासमन्त्री अवदत् यत् ग्रामपञ्चायतैः ग्रामसभाभिश्च माध्यमीकृत्य एव कार्याणां चयनं भविष्यति तथा च तेषामेव प्रस्तावानाम् आधारेण कार्याणि अन्तिमरूपेण निर्धारितानि भविष्यन्ति। तेन एतदपि सुनिश्चितं कर्तुम् उक्तं यत् १ जुलैपर्यन्तं मनरेगायाः अन्तर्गतं रोजगारप्रदाने पारिश्रमिकभुक्तौ च कस्यापि प्रकारस्य न्यूनता व्यवधानं वा न भवेत्।
---------------
Hindusthan Samachar / Dheeraj Maithani