Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 09 जूनमासः (हि.स.)।
उपराष्ट्रपतिः सी. पी. राधाकृष्णन मङ्गलवासरे उक्तवान् यत् देशे जलसुरक्षायाः सुनिश्चितीकरणार्थं नदीनां संयोजनाय तथा भूजलस्तरस्य वर्धनाय प्रयत्नाः त्वरिताः करणीयाः। तेन उक्तं यत् नदीसंयोजनपरियोजनानां कार्यान्वयने वित्ताभावः महती बाधा नास्ति, अपितु जनानां मनोवृत्तिः तथा राजनैतिककारणानि अधिकं चुनौतीपूर्णानि सन्ति।
उपराष्ट्रपतिभवने जलशक्तिमन्त्रालयस्य अधिकारिभिः सह आयोजितायां उपवेशने राधाकृष्णनः उक्तवान् यत् राष्ट्रहिताय जलस्य उत्तमप्रबन्धनार्थं दूरदर्शिना सहकारपूर्णेन च दृष्टिकोणेन कार्यं करणीयम्। अस्यां उपवेशने तस्मै जलसम्पदां, नदिविकासस्य, गङ्गासंरक्षणस्य च विभागस्य विविधयोजनानां परियोजनानां च विषये सूचना प्रदत्ता।
उपराष्ट्रपतिः ‘जलसञ्चय-जनभागीदारी’ अभियाने प्रशंसां व्यक्तवान्। तेन उक्तं यत् अस्मिन् अभियाने शासनस्य, समाजस्य, उद्योगक्षेत्रस्य, विविधसंस्थानां च सहभागितया जलसंरक्षणस्य भूजलस्तरवर्धनस्य च प्रशंसनीयः प्रयासः क्रियते। तस्मै सूचितं यत् अस्य अभियानस्य द्वितीयचरणे जलसंरक्षणेन भूजलस्तरवर्धनेन च सम्बद्धाः १.५५ कोट्यधिकाः संरचनाः निर्मिताः अथवा अभिलेखिताः सन्ति, यत् निर्धारितलक्ष्यात् बहुधा अधिकम् अस्ति।
उपवेशनकाले उपराष्ट्रपतये केन-बेतवा संयोजनपरियोजना, पार्वती-कालीसिन्ध-चम्बल संयोजनपरियोजना तथा गोदावरी-कावेरी संयोजनपरियोजना इत्यादीनां प्रमुखनदीसंयोजनपरियोजनानां प्रगतिविषये सूचना प्रदत्ता। तेन उक्तं यत् नदीसंयोजनेन जलसंकटस्य न्यूनीकरणे, अनावृष्टेः प्रभावनियन्त्रणे, सिंचनक्षेत्रविस्तारे, विभिन्नप्रदेशानां सन्तुलितविकासे च महती सहायता भवितुमर्हति।
उपराष्ट्रपतिना सुझावः दत्तः यत् केन-बेतवा इव विशालासु राष्ट्रियजलपरियोजनासु वृत्तचित्राणि स्थाय्यभिलेखाश्च निर्मातव्याः, येन आगामिसंततयः एतानि ऐतिहासिकानि राष्ट्रनिर्माणकार्याणि ज्ञातुं तेषु च गौरवं अनुभोक्तुं शक्नुयुः।
उपराष्ट्रपतिः उक्तवान् यत् सः पूर्वमपि नदीसंयोजनाभियानस्य समर्थनार्थं पदयात्रां कृतवान्। तेन पुनरुक्तं यत् एतादृशपरियोजनानां कृते वित्तसङ्ग्रहः मुख्यसमस्या नास्ति, अपितु मनोवृत्तेः परिवर्तनं राजनैतिकसंकल्पशक्तिश्च अधिकमहत्त्वपूर्णे स्तः।
अस्यां उपवेशने केन्द्रीयजलशक्तिमन्त्री सी. आर. पाटिल तथा राज्यमन्त्री राज भूषण चौधरी उपराष्ट्रपतिं सेप्टेम्बरमासे २०२६ तमे वर्षे आयोज्यमाने India International Water Week 2026 इत्यस्मिन् कार्यक्रमे सहभागितायै निमन्त्रितवन्तौ।
---------------
Hindusthan Samachar / Dheeraj Maithani