पश्चिमबङ्गे दुर्गापूजायाः नाम्ना इन्द्रनीलसेन-महोदयस्य तथा तस्य पत्न्या: मधुचन्दा-महोदयायाः विरुद्धं कोटि-रूप्यकाणां अर्जनस्य आरोपः
कोलकातानगरम्, ०९ जूनमासः (हि.स.)। पश्चिमबङ्गराज्ये पूर्वमन्त्री गायकश्च इन्द्रनीलसेन-महोदयस्य तथा तस्य पत्न्या: मधुचन्दा सेन-महोदयाया: च विरुद्धं दुर्गापूजासम्बद्धस्य कथितस्य महावित्तीय-लुंठनस्य आरोपाः समुत्थिताः सन्ति। आरोपः अस्ति यत् २०२२ वर्षात्
इंद्रनील सेन


कोलकातानगरम्, ०९ जूनमासः (हि.स.)। पश्चिमबङ्गराज्ये पूर्वमन्त्री गायकश्च इन्द्रनीलसेन-महोदयस्य तथा तस्य पत्न्या: मधुचन्दा सेन-महोदयाया: च विरुद्धं दुर्गापूजासम्बद्धस्य कथितस्य महावित्तीय-लुंठनस्य आरोपाः समुत्थिताः सन्ति। आरोपः अस्ति यत् २०२२ वर्षात् आरभ्य कोलकातानगरस्य प्रमुखेषु दुर्गापूजा-आयोजनेषु प्रीव्यू-शो तथा पूर्वप्रवेश-पत्रविक्रयणस्य नाम्ना कोटि-रूप्यकाणां अवैधार्जनं कृतम्।

अस्मिन् प्रकरणे बउबाजार-थानायां जयदीप-मुखोपाध्यायेन सूचना दत्ता अस्ति।

सूत्राणां अनुसारम्, सूचना-पत्रे आरोपः कृतः यत् इन्द्रनीलसेन-महोदयः मधुचन्दा सेन-महोदया च ‘मास आर्ट’ इति संस्थामाध्यमेन एतत् कथितं जालकं सञ्चालितवन्तौ। आरोपः अस्ति यत् अस्याः संस्थायाः माध्यमेन प्रीव्यू-शो तथा विशेष-पूर्वपूजा-प्रवेशपत्राणि अतिमूल्येन विक्रीतवन्तः, येषु केषाञ्चन पत्राणां मूल्यं चतुःसहस्र-रूप्यकपर्यन्तम् आसीत्।

अपरश्च आरोपः अस्ति यत् चिटिका-विक्रयणकाले यूनेस्को-संस्थायाः नाम तथा चिह्नस्य प्रयोगः कृतः, यद्यपि यूनेस्को पक्षतः एतादृशस्य कस्यापि वाणिज्यिक-सन्धे: वा अनुमतेः स्पष्टतया अस्वीकारः कृतः अस्ति। सूचना-पत्रे इदमपि उक्तम् यत् अस्य कथित-व्यवस्थायाः माध्यमेन न केवलं देशे, अपितु विदेशेषु अपि चिटिका-विक्रयणं कृतम्।

अस्मिन् प्रकरणे इन्द्रनीलसेन-महोदयस्य मधुचन्दा सेन-महोदयायाः च अतिरिक्तं ध्रुवज्योतिबसु: (शुभ), सायन्तन-मैत्र:, राजन चट्टोपाध्याय: इत्येतेषां नामानि अपि समुत्थितानि सन्ति। आरोपः अस्ति यत् एते जनाः अस्य कथितस्य चिटिका-विक्रयण-जालस्य सञ्चालन-विस्तारणयोः भूमिकां निर्वहितवन्तः।

सङ्गीतजगति अपि इन्द्रनीलसेन-महोदयस्य विरुद्धं पूर्वमेव विविधाः आरोपाः प्रवर्तन्ते। केचन कलाकाराः वदन्ति यत् सर्वकारी-आयोजनेषु अवसर-प्रदानस्य विनिमयेन कथितं कमीशन-ग्रहणं क्रियते स्म। गायकः चिकित्सकश्च उत्सवदासः आरोपं कृतवान् यत् केचन चयनित-कलाकाराः एव सर्वकारी-सांस्कृतिक-कार्यक्रमेषु प्राथमिकतां प्राप्नुवन्ति, अन्ये योग्याः कलाकाराः उपेक्षिताः आसन्।

अद्यतनस्थितौ अस्मिन् सर्वस्मिन् प्रकरणे आरक्षक-अनुसन्धानं प्रचलति, आरोपाणां च आधिकारिक-प्रमाणीकरणं न कृतम् अस्ति।

Hindusthan Samachar / Divya Ranjan