विपणन-डिजिटल-साक्षरता-जीईएम तथा एमएसई-सीडीपी-विषयेषु जागरूकता-कार्यशाला आयोजिता
मण्डीनगरम्, ०९ जूनमासः (हि.स.)। मण्डी-जनपदस्य जनपद-उद्योग-केन्द्रेण नगवाय्यां विपणनम्, डिजिटल-साक्षरता, जीईएम, तथा एमएसई-सीडीपी इतृयादिषु विषयेषु एकस्या: जागरूकता-कार्यशालायाः आयोजनं कृतम्। अस्यां कार्यशालायां प्रायः षष्टिः प्रतिभागिनः उत्साहपूर्वक
कार्यशाला के दौरान मौजूद प्रतिभागी।


मण्डीनगरम्, ०९ जूनमासः (हि.स.)। मण्डी-जनपदस्य जनपद-उद्योग-केन्द्रेण नगवाय्यां विपणनम्, डिजिटल-साक्षरता, जीईएम, तथा एमएसई-सीडीपी इतृयादिषु विषयेषु एकस्या: जागरूकता-कार्यशालायाः आयोजनं कृतम्। अस्यां कार्यशालायां प्रायः षष्टिः प्रतिभागिनः उत्साहपूर्वकं सहभागित्वं कृतवन्तः, येषु हथकरघा-उद्यमिनः, कारीगराः तथा स्वरोजगार-सम्बद्धाः व्यक्तयः सम्मिलिताः आसन्।

कार्यक्रमस्य कालावधौ जनपद-उद्योग-केन्द्रस्य मण्डी-जनपदस्य प्रतिनिधयः प्रतिभागिनः डिजिटल-उपकरणानां प्रभावी-उपयोगम्, ऑनलाइन-विपणनस्य अवसरान्, जीईएम-पटल-मध्ये पञ्जीकरण-प्रक्रियां तथा विपणन-सम्भावनाः, एवं एमएसई-सीडीपी-योजनायाः विविध-लाभानां विषये विस्तृतां सूचनां प्रदत्तवन्तः। कार्यशालायाः उद्देश्यः आसीत्—स्थानीय-उद्यमिनः कारीगरांश्च डिजिटल-माध्यमैः संयोजयितुम्, तेषां उत्पादानां कृते नूतन-विपणन-अवसरान् उपलब्धान् कारयितुम् तथा सर्वकारी-योजनानां विषये जागरूकतां वर्धयितुम्। प्रतिभागिनः च कार्यक्रमे सक्रिय-सहभागित्वं कृत्वा विविध-विषयेषु सूचनां प्राप्तवन्तः, विशेषज्ञैः सह संवादं च कृतवन्तः।

Hindusthan Samachar / Divya Ranjan