Enter your Email Address to subscribe to our newsletters

जोधपुरम्, 09 जूनमासः (हि.स.)। अन्ताराष्ट्रिययोगदिवसस्य २०२६ तमे वर्षे आयोजनस्य सिद्धतासु अन्तर्गतं जिलाप्रशासनेन आयुर्वेदविभागेन च जिल्लायां समस्तायां ५० दिवसीयः काउंटडाउन योगाभ्यासकार्यक्रमः सञ्चाल्यते। कार्यक्रमस्य अन्तर्गतं प्रतिदिनं प्रातः ७ वादनतः ८ वादनपर्यन्तं राजकीय उम्मेद स्टेडियम सहितेषु विविधस्थानेषु अन्ताराष्ट्रियनिर्दिष्टयोगविधेर नुसारं सामूहिकयोगाभ्यासः कारय्यते।
अस्मिन् वर्षे अन्ताराष्ट्रिययोगदिवसः हेल्दी एजिंग इत्यस्य कृते योग इति विषयवस्तुनि आचरिष्यते। तदन्तर्गतं सामान्यजनानां मध्ये योगस्य प्रति जागरूकतावृद्धये स्वस्थजीवनशैल्याः प्रोत्साहनाय च व्यापकस्तरे योगगतिविधीनाम् आयोजनं क्रियते।
विभागीयाधिकारिणः कर्मचारीजनाः तथा च बहुसंख्यकाः नागरिकाः नियमितरूपेण योगाभ्यासे सहभागित्वं कुर्वन्ति। आयुर्वेदविभागेन सञ्चालितस्य ५० दिवसीयस्य काउंटडाउन कार्यक्रमस्य अन्तर्गतं गतैः ३९ दिवसैः राजकीय उम्मेद स्टेडियम, राजकीय कनीराम सालगराम टांक नर्स कंपाउंडर प्रशिक्षणकेन्द्रं पूंजला, राजकीय योगप्राकृतिकचिकित्सानुसन्धानकेन्द्रम्, आयुर्वेदौषधालयः बासनी तंबोलिया, बालसमन्दः तथा मण्डोरः सहितेषु विविधस्थानेषु योगाभ्याससत्राणि आयोजितानि सन्ति। एतेन सह ग्रामीणक्षेत्रेषु ग्राम पंचायतविकासखंडस्तरेषु अपि नियमितयोगाभ्यासः कार्य्यते।
राजकीय उम्मेदक्रीडांगणे योगप्राकृतिकचिकित्साधिकारी डॉ रामलालस्य तथा आयुर्वेदचिकित्साधिकारी डॉ देवेन्द्रसिंह राठौडस्य निर्देशनाधीने अन्ताराष्ट्रिययोगनिर्दिष्टयोगक्रमानुसारम् अभ्यासः कारितः। मुख्ययोगप्रदर्शिकाभिः प्रियंका विश्नोई, प्रीति खोखरः, प्रियदर्शनी कल्ला तथा किरण इत्येताभिः योगक्रियाणां प्रदर्शनं कृतम्।
योगाभ्याससत्रे डॉ अशोककुमार मित्तल, डॉ सुशीला चौधरी, डॉ जोगेन्द्र राव, डॉ प्रेमसुख, डॉ मुकेश प्रजापत, डॉ तेजक्ष मित्तल, डॉ मीनाक्षी, सहायकप्रशासनिकाधिकारी मदनलाल राजपुरोहित सहिताः अनेके अधिकारिणः कर्मचारीजनाः योगसाधकाः च सहभागिनः अभवन्।
Hindusthan Samachar / Dheeraj Maithani