Enter your Email Address to subscribe to our newsletters



हिमाचल,जम्मू,राजस्थान उत्तर प्रदेश इत्येषां विधानसभाध्यक्षाः उपास्थापयन् विचारान्
चंडीगढम्, 09 जूनमासः (हि.स.)।
हरियाणा विधानसभया चण्डीगढ़े आयोजितायां कॉमनवेल्थ पार्लियामेंट्री एसोसिएशन इण्डिया रीजन जोन टू नॉर्थ जोन कॉन्फ्रेन्स इत्यस्याः तकनीकीसत्रे अनेकेषां राज्यानां विधानसभानाम् अध्यक्षाः उपाध्यक्षाः राज्यसभायाः उपसभापतिः पर्यन्तं च सहभागिताम् अकुर्वन्। सर्वे वक्तारः भाविचुनौत्याः विकसितभारत २०४७ लक्ष्यस्य च सम्यगवगमने जागरूकसमाजस्य विधायकानां च भूमिकाविषये विस्तरेण चर्चाम् अकुर्वन् स्वस्वविचारान् च प्रस्तुतवन्तः।
विधानसभाध्यक्षः हरविंद्र कल्याणः सर्वान् डेलीगेट्स सदस्यान् स्वागतम् कुर्वन् उक्तवान् यत् तेषां प्रत्याशा अस्ति यत् सर्वे अस्मात् तकनीकीसत्रात् किञ्चित् नूतनम् अनुभवम् अर्जयिष्यन्ति तथा च संकल्पबद्धाः भूत्वा राष्ट्रस्य विकासे स्वां महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति। मध्यप्रदेश विधानसभाध्यक्षः नरेंद्र तोमरः उक्तवान् यत् अस्यां कॉन्फ्रेन्सायां विचारविमर्शात् कश्चन निष्कर्षः निष्पत्स्यते यः विकसितभारत २०४७ इत्यस्य दृष्टिकोणे मीलस्तम्भः भविष्यति। तोमरः उक्तवान् यत् अस्माकं कर्तव्यं भवति यत् वयं भाविसंततये समृद्धं सशक्तं च भारतम् उपनयेम।
राजस्थान विधानसभाध्यक्षः वासुदेव देवनानी उक्तवान् यत् राष्ट्रस्य सम्पूर्णविकासः तदैव भविष्यति यदा समाजे सामाजिकसमरसता पर्यावरणं प्रौद्योगिकी संसदीयलोकतन्त्रं च उन्नतं भविष्यति। जम्मू कश्मीर विधानसभाध्यक्षः अब्दुल रहीम राथरः उक्तवान् यत् अद्य भारतं विकासस्य क्षेत्रे वैश्विकनेतृवत् अग्रे प्रगच्छति। अस्माभिः एषा गतिः अधिकतरेण वर्धनीया यतः राष्ट्रस्य नागरिकाः समृद्धाः सशक्ताश्च भवितुं शक्नुयुः।
उत्तरप्रदेश विधानसभाध्यक्षः सतीश महाना उक्तवान् यत् ते निर्वाचनेन पञ्चवर्षाणां कृते निर्वाचिताः अभवन् किन्तु पुनः कथं विधायकाः भविष्यन्ति इति चिन्तयित्वा जनकल्याणकार्याणि करणीयानि। हिमाचलप्रदेश विधानसभाध्यक्षः कुलदीप सिंह पठानिया उक्तवान् यत् यदा सर्वेषां राज्यानां समरूपेण विकासः भविष्यति तदैव सम्पूर्णं राष्ट्रं विकसितं भविष्यति। तेन उक्तं यत् उपवेशनस्य विषयस्य सार्थकता तदैव भविष्यति यदा सर्वे विधायकाः स्वकर्तव्यस्य निर्वहनम् ईमानदारितया करिष्यन्ति। अस्मिन् अवसरे अनेकैः विधायकैः सह नॉर्थ जोन राज्यानां विधानसभानां डेलीगेट्स सदस्याः अपि उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani