वीरपुर-उपमण्डल-चिकित्सालये सुरक्षितमातृत्व-अभियानस्य अन्तर्गतं सप्ताशीति-गर्भवती-स्त्रीणां परीक्षणं कृतम्
सुपौलनगरम्, ०९ जूनमासः (हि.स.)। प्रधानमन्त्री-सुरक्षित-मातृत्व-अभियानस्य अन्तर्गतं मङ्गलवासरे वीरपुर-उपमण्डल-चिकित्सालये विशेष-स्वास्थ्य-परीक्षण-शिविरस्य आयोजनं कृतम्। शिविरे समाचारप्रेषणसमयपर्यन्तं सप्ताशीति-गर्भवती-स्त्रीणां स्वास्थ्य-परीक्षणं कृ
Checkup


सुपौलनगरम्, ०९ जूनमासः (हि.स.)। प्रधानमन्त्री-सुरक्षित-मातृत्व-अभियानस्य अन्तर्गतं मङ्गलवासरे वीरपुर-उपमण्डल-चिकित्सालये विशेष-स्वास्थ्य-परीक्षण-शिविरस्य आयोजनं कृतम्। शिविरे समाचारप्रेषणसमयपर्यन्तं सप्ताशीति-गर्भवती-स्त्रीणां स्वास्थ्य-परीक्षणं कृत्वा तासां कृते आवश्यकं चिकित्सकीय-निर्देशं, औषधानि तथा स्वास्थ्यसम्बद्धां सूचनां च अयच्छत्।

परिसरे गर्भवती-स्त्रीणां सुविधार्थं विविध-परीक्षण-केन्द्राणि स्थापितानि आसन्। प्रशिक्षित-ए.एन.एम.-कर्मचारिणः तथा स्वास्थ्यकर्मिणः स्वास्थ्य-कार्ड-इत्यस्य परीक्षणं कृत्वा आवश्यकानि चिकित्सकीय-परीक्षणानि सम्पन्नवन्तः।

शिविरे महिलानां दीर्घा पङ्क्तयः दृश्यन्ते स्म, स्वास्थ्यकर्मिणः च व्यवस्थितरूपेण सर्वा: परीक्षण-प्रक्रियाः सम्पादितवन्तः।

अनुमण्डल-चिकित्सालयस्य उपाधीक्षकः डॉ.सुशीलकुमारः अवदत् यत् केन्द्र-राज्य-सर्वकारयोः निर्देशानुसारं प्रत्येकं मासस्य नवम-दिने प्रधानमन्त्री-सुरक्षित-मातृत्व-अभियानस्य अन्तर्गतं विशेष-परीक्षण-शिविरम् आयोजितं भवति। अस्य उद्देश्यं गर्भवती-स्त्रीणां गर्भस्थ-शिशोः च स्वास्थ्यस्य नियमित-निरीक्षणं कृत्वा सुरक्षित-मातृत्वं सुनिश्चितं कर्तुम् अस्ति।

शिविरकाले रक्तचाप-परीक्षणं, रक्तशर्करा-परीक्षणं, हीमोग्लोबिन-परीक्षणं, एच.आइ.वी., हेपेटाइटिस्, मूत्र-परीक्षणं तथा रक्तसमूह-परीक्षणेन सह सर्वाः आवश्यकाः गर्भावस्था-संबद्धाः परीक्षणाः निःशुल्कं कृताः। परीक्षणानन्तरं स्त्रीणां कृते आवश्यकानि औषधानि अपि प्रदत्तानि।

चिकित्सकाः गर्भवती-स्त्रीणां कृते नियमित-स्वास्थ्य-परीक्षणं, पौष्टिक-सन्तुलित-आहार-सेवनं, लौह-तथा-कैल्शियम-औषधसेवनं, तथा कस्यापि स्वास्थ्यसमस्यायाः उद्भवे तत्क्षणं चिकित्सकीय-सलाहग्रहणं कर्तुं निर्देशं दत्तवन्तः।

ते अवदन् यत् नियमित-परीक्षणेन गर्भावस्थायां सम्भाव्य-जोखिमानां समये एव परिचयं कृत्वा सुरक्षित-प्रसवः सुनिश्चितः कर्तुं शक्यते।

कार्यक्रमस्य समये परीक्षणानन्तरं स्त्रीणां कृते लघु-आहारः तथा स्वच्छ-पीयजलस्य व्यवस्थापि कृता आसीत्।

शिविरे डॉ. शैलेन्द्रदीपकः, डॉ. एस. रहमानः, ए.एन.एम.-कर्मचारिणः, प्रयोगशाला-तकनीशियन-इत्येतै: सह अन्ये स्वास्थ्यकर्मिणः सक्रियां भूमिकां निर्वुढवन्तः। स्वास्थ्य-विभागेन इमम् अभियानं मातृ-शिशु-स्वास्थ्याय महत्त्वपूर्ण-प्रयत्नरूपेण वर्णयित्वा अधिकाधिकानां गर्भवती-स्त्रीणां लाभग्रहणाय आह्वानं कृतम्।

Hindusthan Samachar / Divya Ranjan