Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 09 जूनमासः (हि.स.)।
आगामिनः कुम्भमेलायाः २०२७ सुरक्षितं सुव्यवस्थितं च आपदासहिष्णुं निर्माणं कर्तुं मङ्गलवासरे राष्ट्रियआपदाप्रबन्धनप्राधिकरणस्य, मेलाप्रशासनस्य, पुलिसविभागस्य तथा विविधविभागानाम् अधिकारिणां उच्चस्तरीया उपवेशनसभा आयोजिता। उपवेशनसभायां जनसमूहनियन्त्रणम्, आपदासंकटन्यूनीकरणम्, निर्गमनयोजना, अग्निसुरक्षा, स्वास्थ्यसुविधाः तथा विविधसंस्थानां मध्ये समन्वयविषये विस्तृता चर्चा अभवत्।
उपवेशनसभायाः अध्यक्षतां कुर्वती मेलाधिकारिणी श्रीमती सोनिका अवदत् यत् कुम्भमेला २०२७ इत्यस्य सिद्धतासु सुरक्षा तथा आपदाप्रबन्धनं सर्वोच्चप्राथमिकता अस्ति। तया सूचितं यत् प्रत्येकस्मिन् क्षेत्रे आपदाप्रबन्धनसंसाधनानाम् उपलब्धता, आपत्कालीननिर्गमनमार्गाणां विकासः, संवेदनशीलस्थानानां परिचयः, दृढसञ्चारतन्त्रस्य स्थापना तथा त्वरितप्रतिक्रियाक्षमतायाः सुनिश्चितीकरणार्थं व्यापककार्ययोजना निर्मीयते। सहैव समये समये अभ्यासप्रदर्शनानि संयुक्ताभ्यासाश्च आयोज्य सर्वासां संस्थानां सिद्धताः परीक्षिष्यन्ते।
अधिकारिभिः सूचितं यत् विश्वस्य महत्तमेषु धार्मिकसमारोहेषु गण्यमाने कुम्भमेले कोटिशः श्रद्धालूनां समागमस्य सम्भावना वर्तते। तादृशे सति जनसञ्चयजनितव्यग्रता, अग्निदुर्घटना, गङ्गातटेषु जलदुर्घटनाः, प्रतिकूलवातावरणम्, यातायातदबावः, अस्थायिसंरचनानां सुरक्षा तथा स्वास्थ्यसम्बद्धाः चुनौतयः प्रमुखजोखिमरूपेण चिह्निताः।
राष्ट्रिय-आपदाप्रबन्धनप्राधिकरणस्य संचालनसञ्चारविषयकः परामर्शदाता कर्नल कीर्तिप्रतापसिंहः अवदत् यत् एतादृशस्य विशालस्य आयोजनस्य कृते बहुस्तरीयाः व्यापकाः च सिद्धताः आवश्यकाः सन्ति। तेन उक्तं यत् राष्ट्रिय-आपदाप्रबन्धनप्राधिकरणं तान्त्रिकमार्गदर्शनम्, जोखिममूल्याङ्कनम्, प्रशिक्षणम्, क्षमताविकासम् तथा अभ्यासप्रदर्शनानां माध्यमेन राज्यसर्वकाराय मेलाप्रशासनाय च सर्वथा सहयोगं प्रदास्यति। तेन विश्रामगृहाणाम्, चिकित्सालयानाम् तथा जनसङ्कुलस्थानानाम् अग्निसुरक्षालेखापरीक्षणस्य आयोजनम् तथा हरिद्वाररेलस्थानकस्य आपदाप्रतिक्रियाव्यवस्थायाः अधिकदृढीकरणम् अपि बलपूर्वकं प्रतिपादितम्।
उपवेशनसभायां राष्ट्रियआपदाप्रतिक्रियाबलस्य, राज्यआपदाप्रतिक्रियाबलस्य, अग्निशमनविभागस्य, स्वास्थ्यविभागस्य तथा रेलविभागस्य सिद्धतानां समीक्षा कृता। निर्णयः च अभवत् यत् कुम्भमेलातः पूर्वं विविधान् सम्भावितान् आपदापरिदृश्यान् दृष्ट्वा बृहदस्तरे अभ्यासप्रदर्शनानि आयोज्यन्ते।
जनसमूहनियन्त्रणं महती चुनौती इति मत्वा आधुनिकतन्त्रज्ञानाधारितनिगराणीतन्त्रस्य, सीसीटीवी जालस्य, ड्रोननिगराण्याः, यथार्थकालपर्यवेक्षणस्य तथा अत्याधुनिकसमन्वितआदेशनियन्त्रणकेन्द्रस्य प्रभाविसञ्चालनस्य विषये विशेषबलं दत्तम्। प्रमुखस्नानपर्वेषु श्रद्धालूनां सुरक्षितगमनागमनार्थं विस्तृता यातायातपदयात्रिनियन्त्रणयोजना अपि निर्मास्यते।
वरिष्ठपुलिसअधीक्षकः कुम्भमेला आयुष अग्रवालः सुरक्षा तथा यातायातप्रबन्धनस्य प्रस्तावितव्यवस्थायाः प्रस्तुतीकरणं कुर्वन् अवदत् यत् प्रमुखस्नानपर्वेषु क्षेत्राधारितप्रबन्धनप्रणाली प्रवर्तिता भविष्यति।
उपवेशनसभायाम् आपत्कालीननिर्गमनयोजनां सुरक्षाव्यवस्थायाः महत्त्वपूर्णाङ्गं मन्यमानैः जनसङ्कुलक्षेत्रेषु निर्गमनमार्गाणां चिह्नीकरणं तेषां परीक्षणं च कर्तुं निर्णयः कृतः। एतदतिरिक्तं कुम्भमेला २०२७ कृते पृथक् घटना प्रतिसाद प्रणाली इत्यस्य गठनस्य विषये अपि सम्मतिः अभवत्।
स्वास्थ्यव्यवस्थानां विषये सूचना दत्त्वा मेला स्वास्थ्याधिकारी डॉ मनोज वर्मा अवदत् यत् कुम्भक्षेत्रे ७१ स्वास्थ्यएककानां माध्यमेन ३४५६ शय्याः उपलब्धाः भविष्यन्ति। एतदर्थं ३४३ चिकित्साधिकारिणः तथा ४८१ सहायकचिकित्साकर्मिणः नियुक्ताः भविष्यन्ति। अपरतः जिला आपदाप्रबन्धनाधिकारिणी श्रीमती मीरा रावत अवदत् यत् २०० प्रशिक्षिताः आपदामित्राः मेले सेवां प्रदास्यन्ति तथा आवश्यकतायां सति अतिरिक्तस्वयंसेवकानाम् अपि प्रशिक्षणं कारयिष्यते।
उपवेशनसभायां नगरायुक्तः नन्दनकुमारः, राष्ट्रियआपदाप्रबन्धनप्राधिकरणस्य सहायकपरामर्शदाता मेजर अशोक शुक्लः, उपमेलाधिकारी मनजीतसिंहः सहिताः विविधविभागानां वरिष्ठाधिकारिणः सहभागिनः अभवन्।
Hindusthan Samachar / Dheeraj Maithani