हरिद्वारे ‘वेज बिरयानी’ अथ ‘वेज पुलाव’इत्येतयोर्विवादः प्राप्नोत् कलहापन्नतां, फलकपरिवर्तनाभियानं शुभारब्धम्
हरिद्वारम्, 09 जूनमासः (हि.स.)। धर्मनगऱ्यां हरिद्वारे ‘वेज बिरयानी’ तथा ‘वेज पुलाव’ इत्यनयोः विषये प्रचलितः विवादः अधुना सामाजिकाभियानरूपं धारयन् दृश्यते। अखण्डपरशुरामअखाडस्य पहलया सन्तसमाजस्य, ब्राह्मणसमाजस्य, मुस्लिमसमुदायस्य च प्रतिनिधयः संयुक
वेज पुलाव के पोस्टर चस्पा करते हुए


हरिद्वारम्, 09 जूनमासः (हि.स.)।

धर्मनगऱ्यां हरिद्वारे ‘वेज बिरयानी’ तथा ‘वेज पुलाव’ इत्यनयोः विषये प्रचलितः विवादः अधुना सामाजिकाभियानरूपं धारयन् दृश्यते। अखण्डपरशुरामअखाडस्य पहलया सन्तसमाजस्य, ब्राह्मणसमाजस्य, मुस्लिमसमुदायस्य च प्रतिनिधयः संयुक्तरूपेण हरिद्वारकनखलक्षेत्रयोः आपणेषु, ठेलिकासु तथा रेहडीपटरिषु स्थापितान् ‘वेज बिरयानी’ इति पोस्टरान् अपसार्य तेषां स्थाने ‘वेज पुलाव’ इति पोस्टरान् स्टिकरांश्च स्थापितवन्तः।

अभियानस्य नेतृत्वं श्रीहिन्दूतख्तस्य प्रदेशाध्यक्षः यशदेवकौशिकः कृतवान्। अस्मिन् अवसरे जूना अखाडायाः साधुसन्ताः, ब्राह्मणसमाजस्य प्रतिनिधयः, मुस्लिमसमुदायस्य जनाश्च बहुसंख्यया सहभागीभूताः। अभियानेन सम्बद्धानां जनानां कथनानुसारम् अस्य उद्देश्यं हरिद्वारस्य धार्मिकसांस्कृतिकपरिचयस्य संरक्षणम् अस्ति।

यशदेवकौशिकः उक्तवान् यत् धर्मनगर्याः मन्दिराणां धार्मिकस्थलानां च समीपे बहुसंख्यया ‘वेज बिरयानी’ इति नाम्ना खाद्यसामग्री विक्रियमाणा आसीत्, यस्मिन् विषये समाजस्य विविधवर्गैः आपत्तिः प्रकटिता आसीत्। तेन स्पष्टतया उक्तं यत् एतदभियानं कस्यचित् व्यापरिणः व्यवसायस्य विरोधार्थं न, अपितु स्थानीयसांस्कृतिकभावनानां परम्पराणां च सम्मानार्थं प्रवर्त्यते।

तेन उक्तं यत् हरिद्वारः कोटिशः श्रद्धालूनाम् आस्थाकेन्द्रम् अस्ति, अत्रत्यस्य धार्मिकसांस्कृतिकपरिचयस्य संरक्षणं सर्वेषां सामूहिका जिम्मेदारी अस्ति। अस्मिन् अवसरे जूना अखाडायाः सन्तः तथा मायादेवीमन्दिरस्य पूजारी भास्करपुरीमहाराजः जनान् प्रति आवाहनं कृत्वा उक्तवान् यत् यत्र यत्र ‘वेज बिरयानी’ इति शब्दस्य प्रयोगः क्रियते, तत्र तत्र तस्य स्थाने ‘वेज पुलाव’ इति पदस्य प्रयोगः करणीयः।

अभियानस्य प्रमुखम् आकर्षणं मुस्लिमसमुदायस्य समर्थनम् आसीत्। मुस्लिमसमाजस्य प्रतिनिधिः नौशादअली सन्तैः ब्राह्मणसमाजस्य प्रतिनिधिभिः सह अभियानस्य सहभागित्वं कृत्वा उक्तवान् यत् सामाजिकसौहार्दं परस्परसम्मानश्च कस्यापि नाम्नः अथवा शब्दस्य अपेक्षया अधिकौ महत्त्वपूर्णौ स्तः। तेन उक्तं यत् यदि कस्यचित् समुदायस्य भावनाः केनचित् शब्देन आहताः भवन्ति, तर्हि संवादेन सहमत्या च समाधाननिर्गमनं श्रेष्ठः विकल्पः अस्ति।

नौशादअली उक्तवान् यत् देशस्य गङ्गायमुनासंस्कृतेः भ्रातृत्वभावस्य च सुदृढीकरणं सर्वेषां समुदायानां दायित्वम् अस्ति तथा च मुस्लिमसमाजः सर्वदा सामाजिकसद्भावस्य पारस्परिकसम्मानस्य च पक्षे स्थितवान् अस्ति।

अभियाने कुलदीपकृष्णचौहानः, संजयकृष्णशास्त्री, चन्द्रसागरभागवताचार्यः, राहुलपैनुली, कार्तिकभट्टः, सूरजशर्मा, देवेन्द्रबिष्टः, हर्षशर्मा, विक्कीशर्मा, बिट्टूचौहानः इत्यादयः अनेके जनाः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani