Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 01 जुलाईमासः (हि.स.)l
देशे डिजिटल इण्डिया कार्यक्रमस्य स्थापनायाः एकादश वर्षाणि पूर्णानि अभवन्। अस्मिन् अवसरे भारतीयजनतापक्षस्य अध्यक्षः नितिन नवीन अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे डिजिटल इण्डिया कार्यक्रमः प्रौद्योगिकीं केवलं सुविधायाः साधनं न कृत्वा सुशासनस्य पारदर्शितायाः जनसशक्तीकरणस्य च सुदृढमाधाररूपेण स्थापितवान्। तेन उक्तं यत् डिजिटलक्रान्त्या देशस्य शासनव्यवस्था अधिका प्रभावशालिनी पारदर्शिनी नागरिककेन्द्रिता च जाता।
नवीन महोदयः अवदत् यत् यूपीआई माध्यमेन डिजिटलभुगताने क्रान्तिकारी परिवर्तनम् अभवत्। डिजिलॉकर व्यवस्थया कागदरहितसेवानां संवर्धनं कृतम्। डायरेक्ट बेनिफिट ट्रान्सफर व्यवस्थया तु शासकीययोजनानां लाभः पारदर्शिरूपेण प्रत्यक्षं लाभार्थिभ्यः प्राप्यते। तेन उक्तं यत् डिजिटल पब्लिक इन्फ्रास्ट्रक्चर डीपीआई माध्यमेन भारतेन विश्वस्य समक्षं समावेशी प्रौद्योगिकी आधारितविकासस्य सफलः आदर्शः प्रस्तुतः।
भाजपाध्यक्षः अवदत् यत् अद्य ग्रामेभ्यः आरभ्य वैश्विकमञ्चपर्यन्तं भारतस्य डिजिटलसामर्थ्यम् अभिनवप्रयत्नानां डिजिटलपरिवर्तनस्य च नूतना परिचायकता जाता अस्ति। तस्य मते डिजिटल इण्डिया अभियानं विकसितभारतसंकल्पस्य सिद्धये नूतनां गतिं ददाति तथा च भारतं वैश्विकडिजिटलनेतृत्वस्य दिशि अग्रे नयति।
उल्लेखनीयं यत् डिजिटल इण्डिया कार्यक्रमः २०१५ तमस्य वर्षस्य जुलाईमासस्य प्रथमदिने प्रारब्धः आसीत्। अद्य अस्य कार्यक्रमस्य एकादश वर्षाणि पूर्णानि अभवन्।
डिजिटल इण्डिया कार्यक्रमेण अन्तर्जालस्य व्यापकतां वर्धयित्वा सेवाः अन्तर्जालमाध्यमेन उपलब्धाः कृत्वा डिजिटलविषमतायाः न्यूनता कृता। अनेन डिजिटलप्रशासनं सुदृढीकृतम् तथा च सेवाः अधिकवेगेन पारदर्शिरूपेण सुलभरूपेण च प्रदातुं शक्यन्ते। अधुना लक्षशः जनाः स्वास्थ्यसेवायाः शिक्षायाः बैंकसेवायाः कल्याणयोजनानां च लाभार्थं डिजिटलमञ्चानां उपयोगं कुर्वन्ति।
डिजिटलमूलसंरचनायां शासकीयनिवेशेन ग्रामीणनगरीयभारतयोः संयोजकता उन्नता अभवत्। एषः कार्यक्रमः सुलभमूल्ये अन्तर्जालसेवां व्यापकडिजिटलप्रवेशं च प्रदाय डिजिटलप्रौद्योगिक्याः लोकतन्त्रीकरणमपि प्रोत्साहितवान्।
अतीते दशके डिजिटल इण्डिया भारतस्य डिजिटलार्थव्यवस्थायाः डिजिटलसार्वजनिकमूलसंरचनायाश्च दृढा आधारशिला अभवत्। अधुना भारतः वैश्विकतात्कालिकडिजिटलभुगतानेषु अग्रणी राष्ट्रम् अस्ति। यूपीआई माध्यमेन विश्वस्य समग्रडिजिटलव्यवहाराणां प्रायः एकोनपञ्चाशत्प्रतिशतम् व्यवहाराः सम्पाद्यन्ते। डिजिटलार्थव्यवस्था भारतस्य सकलघरेलूउत्पादस्य प्रायः द्वादशतः चतुर्दशप्रतिशतपर्यन्तं योगदानं करोति। आगामिदशके अस्य योगदानं सकलघरेलूउत्पादस्य प्रायः पञ्चमभागपर्यन्तं भविष्यति।
डिजिटल इण्डिया कार्यक्रमेण विविधेषु क्षेत्रेषु नवाचारः स्टार्टअपविकासः प्रौद्योगिक्याः स्वीकृतिः च तीव्रगत्या वर्धिता। अनेन कृत्रिमबुद्धिमत्तायाः क्लाउडकम्प्यूटिङ्गस्य साइबरसुरक्षायाश्च क्षेत्रेषु भारतस्य सामर्थ्यमपि सुदृढीकृतम्। यथा यथा भारतं विकसितभारत २०४७ इति लक्ष्यस्य दिशि प्रगच्छति तथा तथा डिजिटल इण्डिया कार्यक्रमः देशव्यापिनं समावेशिविकासं प्रौद्योगिक्यां आत्मनिर्भरतां नागरिकाणां सशक्तीकरणं च निरन्तरं प्रोत्साहयति।
---------------
Hindusthan Samachar / Dheeraj Maithani