राष्ट्रिय चिकित्सक दिवसः : संस्था “अनुपमप्रयत्नस्य” अंतर्गतं रुग्णेभ्यः कारितं जलपानं,नि:शुल्कं स्वास्थ्यपरिशीलनसुविधा
औरैया, 01 जुलाईमासः (हि. स.)। उत्तरप्रदेशस्य औरैयाजनपदे राष्ट्रियचिकित्सकदिवसस्य अवसरे बुधवासरे समाजसेवीसंस्था एक विचित्र पहल सेवा समिति रजि इत्यस्याः उपक्रमेण पञ्चाशत्शय्यायुक्ते जिलाचिकित्सालये अनोखी पहल कार्यक्रमस्य शुभारम्भः कृतः। अस्मिन् अवस
फ़ोटो। राष्ट्रीय चिकित्सक दिवस पर अनोखी पहल शुरू


औरैया, 01 जुलाईमासः (हि. स.)।

उत्तरप्रदेशस्य औरैयाजनपदे राष्ट्रियचिकित्सकदिवसस्य अवसरे बुधवासरे समाजसेवीसंस्था एक विचित्र पहल सेवा समिति रजि इत्यस्याः उपक्रमेण पञ्चाशत्शय्यायुक्ते जिलाचिकित्सालये अनोखी पहल कार्यक्रमस्य शुभारम्भः कृतः। अस्मिन् अवसरे चिकित्सालये प्रविष्टेभ्यः रोगिभ्यः महिलाभ्यः बालकेभ्यश्च फलानि खाद्यसामग्री च वितर्य मानवसेवायाः सन्देशः प्रदत्तः। कार्यक्रमे उपस्थितैः जनैः संस्थायाः अस्य जनहितकारीप्रयत्नस्य प्रशंसा कृता।

कार्यक्रमस्य समये राष्ट्रीयचिकित्सकदिवसस्य अवसरे चिकित्सालये सेवां कुर्वतां चिकित्सकानां परिचारिकाणाम् अम्बुलेन्सयानचालकानां सुरक्षाकर्मिणां स्वच्छताकर्मिणां समस्तस्वास्थ्यकर्मिणां च सम्मानः कृतः। संस्थायाः पदाधिकारिणः अवदन् यत् चिकित्सकाः स्वास्थ्यकर्मिणश्च समाजस्य अत्यन्तमहत्त्वपूर्णासु सेवासु एकां सेवां निर्वहन्ति तेषां सम्मानः प्रत्येकस्य नागरिकस्य कर्तव्यं वर्तते।

संस्थया प्रारब्धस्य अनोखी पहल कार्यक्रमस्य अन्तर्गतं अधुना प्रतिदिनं प्रातः सप्तवादने जिलाचिकित्सालये प्रविष्टेभ्यः रोगिभ्यः चाय दुग्धं ब्रेड बिस्किटादिभिः जलपानं प्रदास्यते। तेन सह औरैयानगरे अटल आश्रयगृहस्य पुरतः स्थिते डा सोनी निवासे प्रतिदिनं प्रातः अष्टवादनात् दशवादनपर्यन्तं रक्तचापस्य मधुमेहस्य रक्तशर्करायाः अन्येषां स्वास्थ्यसम्बद्धपरीक्षणानां चिकित्सापरामर्शस्य च निःशुल्कव्यवस्था भविष्यति।

कार्यक्रमस्य मुख्यसंयोजकः प्रभारीऔषधविभागाधिकारी उरई जिलाचिकित्सालयात् सेवानिवृत्तः डा शिवकुमार सोनी अवदत् यत् बहुवर्षेभ्यः रोगिणां आवश्यकतावतानां जनानां च सेवां कर्तुं यत् स्वप्नम् आसीत् तत् अधुना व्यवहाररूपेण साकारं क्रियते। तेन उक्तं यत् संस्थायाः उद्देश्यः आर्थिकदृष्ट्या दुर्बलेभ्यः जनाभ्यः स्वास्थ्यसेवां प्रदातुं मानवतायाः सेवां च कर्तुम् अस्ति।

संस्थायाः अध्यक्षः राजीव पोरवाल रानू अवदत् यत् एषा योजना पूर्णतया जनहितं मनसि निधाय सञ्चाल्यते। संस्थायाः संस्थापकः आनन्दनाथ गुप्त अधिवक्ता जनान् प्रति आवाहनं कृत्वा अवदत् यत् आवश्यकतावतः जनाः प्रतिदिनं द्विघण्टापर्यन्तं प्रचलन्त्याः निःशुल्कपरीक्षणपरामर्शसेवायाः अधिकाधिकं लाभं गृह्णन्तु।

कार्यक्रमस्य समये डा शिवकुमार सोनी डा आर्य प्रबुद्ध डा सीमा अग्रवाल डा अवधेश कटियार डा मञ्जू सचान डा विशाल अग्निहोत्री इत्यादयः अनेकाः चिकित्सकाः चिकित्सालयकर्मचारिणश्च फलैः खाद्यसामग्र्या च सम्मानिताः।

अस्मिन् अवसरे समितेः संरक्षकः भगवान पोरवाल किरन सोनी राम आसरे गुप्त सचिन कुमार पोरवाल हिमांशु दुबे हरिओम सतीश पोरवाल इत्यादयः अनेकाः समाजसेविनः गण्यमान्यजनाश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani