गुवाहाट्यां बीबीसीआई-संस्थाने 292-शय्यायुक्तम् अत्याधुनिकं कर्करोगविभागं शीघ्रम् आरप्स्यते
- पूर्वोत्तरभारताय शीघ्रम् अस्थिमज्जारोपणम् अत्याधुनिकं कर्करोगचिकित्सा च प्राप्स्यते नवदेहली, 01 जुलाईमासः (हि.स.)।असमराज्यस्य गुवाहाट्यां देशस्य पूर्वोत्तरराज्यानां सर्वबृहत् चिकित्सालयः डॉ. भुवनेश्वर-बोरूआ-कर्करोगसंस्थाने (बीबीसीआई) शीघ्रमेव आर
गुवाहाटी स्थित डॉ. भुवनेश्वर बोरूआ कैंसर संस्थान (बीबीसीआई) परिसर में निर्माणाधीन 292 बेड की अत्याधुनिक बाल एवं वयस्क हीमेटोलिम्फॉयड कैंसर यूनिट की बहुमंजिला इमारत, जिसका काम अंतिम चरण में है।


गुवाहाटी स्थित डॉ. भुवनेश्वर बोरूआ कैंसर संस्थान (बीबीसीआई) परिसर में निर्माणाधीन 292 बेड की अत्याधुनिक बाल एवं वयस्क हीमेटोलिम्फॉयड कैंसर यूनिट की बहुमंजिला इमारत, जिसका काम अंतिम चरण में है।


- पूर्वोत्तरभारताय शीघ्रम् अस्थिमज्जारोपणम् अत्याधुनिकं कर्करोगचिकित्सा च प्राप्स्यते

नवदेहली, 01 जुलाईमासः (हि.स.)।असमराज्यस्य गुवाहाट्यां देशस्य पूर्वोत्तरराज्यानां सर्वबृहत् चिकित्सालयः डॉ. भुवनेश्वर-बोरूआ-कर्करोगसंस्थाने (बीबीसीआई) शीघ्रमेव आरभ्यमाणा 292-शय्यायुक्ता अत्याधुनिका बालवयस्कहीमेटोलिम्फॉयड्-कर्करोगविभागः पूर्वोत्तरस्य सहस्रशः परिवाराणां कृते जीवनपरिवर्तकः भविष्यति। इदानीं देहलीं मुम्बईं वा वेल्लोरं वा गन्तुं बाध्यता प्रायः समाप्ता भविष्यति। अस्थिमज्जारोपणं, उन्नता कीमोथेरेपी, विशेषा बालककर्करोगचिकित्सा, आधुनिकम् आईसीयू च इत्यादयः विश्वस्तरीयाः सुविधाः इदानीं गृहसमीपे उपलब्धाः भविष्यन्ति।पूर्वोत्तरे अधिकतमभारयुक्तैः रक्तकर्करोगेण, ल्यूकेमियारोगेण, लिम्फोमारोगेण च पीडितानां रोगिणां कृते इयं विभागः नूतनायाः आशायाः राहतेः च प्रतीकः भूत्वा उदयते।

प्रधानमन्त्रि-डिवेलपमेण्ट्-इनिशिएटिव्-फॉर्-नॉर्थ्-ईस्ट् (पीएम-डिवाइन) योजनायाः अन्तर्गतं पूर्वोत्तरक्षेत्रविकासमन्त्रालयस्य सहयोगेन विकस्यमानायाः अस्याः परियोजनायाः कार्यम् इदानीम् अन्तिमे चरणे वर्तते। निर्माणकार्यस्य भौतिकी प्रगतिः 78.90 प्रतिशतं यावत् प्रापिता, फिनिशिंग-कार्यं च प्रचलति। परियोजनायाः कृते कार्यादेशः 31 मई 2023 तमे दिने प्रदत्तः आसीत्। जूनमासं यावत् 33.91 कोटिरूप्यकाणां राशिः प्रदत्ता आसीत्। संस्थानप्रबन्धस्य लक्ष्यम् अस्ति यत् इयं सुविधा निर्धारितसमयसीमायाः अन्तः रोगिभ्यः उपलब्धा कार्या।

बीबीसीआई-संस्थानस्य प्रोफेसर्-सर्जिकल्-ऑन्कोलॉजी निदेशकः (प्रशासनम्) डॉ. बिभूति-भूषण-बोरठाकुरः हिन्दुस्थानसमाचारेण सह वार्तालापे अकथयत् यत् इयं परियोजना पूर्वोत्तरे कर्करोगचिकित्सायाः दिशि महत् परिवर्तनं आनयिष्यति। नूतनायां विभागायां बालकानां वयस्कानां च उभयोः रक्तकर्करोगचिकित्सायाः समर्पिताः सुविधाः उपलब्धाः भविष्यन्ति।

अस्थिमज्जारोपणसुविधायाः आरम्भानन्तरं पूर्वोत्तरस्य रोगिभ्यः चिकित्सार्थम् अन्येषु राज्येषु गमनस्य आवश्यकता पर्याप्तं न्यूना भविष्यति। रोबोटिक्-शल्यचिकित्सा, मॉलिक्यूलर्-डायग्नोस्टिक्स्, अन्याः च आधुनिकाः तकनीकाः क्रमशः संस्थाने समाविश्यन्ते। इदं केन्द्रं सम्पूर्णस्य पूर्वोत्तरस्य पूर्वभारतस्य च कृते महत्त्वपूर्णं रेफरल्-केन्द्रं रूपेण विकसिष्यति।

अस्याः परियोजनायाः महत्तमं वैशिष्ट्यम् अस्थिमज्जारोपणसुविधा अस्ति। वर्तमाने रक्तकर्करोगेण केषाञ्चन गम्भीराणां रक्तसम्बद्धरोगाणां च पीडिताः रोगिणः एतादृश्याः चिकित्सायाः कृते देशस्य चयनितकेन्द्रेषु गन्तुं बाध्यन्ते। पूर्वोत्तरे अस्याः सुविधायाः उपलब्धत्वेन रोगिभ्यः समये चिकित्सा प्राप्स्यते, चिकित्सायाः सफलतादरः अपि सुधरिष्यति।

बीबीसीआई-संस्थानं पूर्वमपि बहूनि महत्त्वपूर्णानि उपलब्धीः प्राप्तवत्। देशे प्रथमवारं सामुदायिकस्तरे उदरकर्करोगस्य स्क्रीनिंग-कार्यक्रमस्य आरम्भस्य श्रेयः अस्मै संस्थानाय एव गच्छति। संस्थानं कर्करोगजागरूकता, अनुसन्धानं, प्रारम्भिकपरीक्षणक्षेत्रे च अग्रणी भूमिकां निर्वहति। अत्र लाइफ्-प्रोटॉन्-थेरेपी-सदृशाः उन्नताः तकनीकाः आधुनिकं कर्करोगानुसन्धानं च प्रोत्साह्यते। विशेषज्ञानां मतम् अस्ति यत् कर्करोगेण जायमानानां मृत्यूनां न्यूनीकरणाय प्रारम्भिकपरिचयः समयोचिता चिकित्सा च सर्वाधिकं प्रभावी उपायौ स्तः।

पूर्वोत्तरक्षेत्रविकासमन्त्रालयस्य सहयोगेन विकस्यमानायाः अस्याः परियोजनायाः आहत्य अनुमानितं लागतमूल्यं प्रायः 300.16 कोटिरूप्यकाणि अस्ति। अस्याः अन्तर्गतं 292-शय्यायुक्तः आधुनिकः चिकित्सालयखण्डः निर्मीयते। सप्ततलस्य अस्य भवनस्य निर्मितक्षेत्रं प्रायः 19,675 वर्गमीटरम् अस्ति। अत्र ओपीडी, आईपीडी, आईसीयू, स्टेप्-डाउन्-आईसीयू, अस्थिमज्जारोपणविभागः, आधुनिकः शल्यचिकित्सागृहसमूहः, उन्नताः प्रयोगशालाः, निदानसुविधाः च विकस्यन्ते। चिकित्सालये प्रविष्टानां रोगिणां तत्परिवारजनानां च आवश्यकताः दृष्ट्वा सहायकचिकित्सासुविधानां अपि विकासः क्रियते। परिसरे एकः आधुनिकः कौशलविकासकेन्द्रः अपि निर्मीयते। अस्य उद्देश्यम् अस्ति यत् ऑन्कोलॉजी-सम्बद्धक्षेत्रेषु चिकित्सकान्, परिचारिकाः, तकनीशियनान्, स्वास्थ्यकर्मिणः च प्रशिक्षितान् कर्तुम्।

गुवाहाटीस्थितं बीबीसीआई-संस्थानं वर्तमाने पूर्वोत्तरभारतस्य सर्वबृहत् कर्करोगचिकित्साकेन्द्रम् अस्ति। परमाणुऊर्जाविभागस्य सहायतां प्राप्तम् इदं संस्थानं मुम्बईस्थितस्य टाटा-मेमोरियल्-केन्द्रस्य इकाईरूपेण कार्यं करोति। वर्तमाने संस्थाने पूर्वोत्तरस्य प्रायः 40 तः 45 सहस्रं यावत् कर्करोगरोगिणां चिकित्सा भवति। प्रतिवर्षं प्रायः औसतेन 12 सहस्रं नूतनाः कर्करोगरोगिणः अत्र चिकित्सार्थम् आगच्छन्ति। अत एव कारणात् बीबीसीआई-संस्थानं पूर्वोत्तरे कर्करोगचिकित्सायाः रीढ़ा (मेरुदण्डः) मन्यते।

पूर्वोत्तरभारते कर्करोगस्य भारः देशस्य अन्येषां क्षेत्राणां तुलनायां अधिकः अस्ति। भारतीयायुर्विज्ञानानुसन्धानपरिषदः (आईसीएमआर) विवरणानुसारं देशे कर्करोगस्य वार्षिकी दरः प्रतिलक्षजनसंख्यायां प्रायः 90 तः 120 प्रकरणानां मध्ये अस्ति, यत्र पूर्वोत्तरराज्येषु एषः आँकड़ा 220 तः 270 प्रकरणानि प्रतिलक्षजनसंख्यां यावत् पहुंचति। प्रतिवर्षं पूर्वोत्तरक्षेत्रे 45 सहस्रात् अधिकानां नूतनानां कर्करोगरोगिणां पहचानः भवति। विशेषज्ञानां मतम् अस्ति यत् तम्बाकुसेवनेन, सुपारीप्रयोगेन, खानपानस्य आदतैः अन्यैः सामाजिक-भौगोलिकैः कारणैः च क्षेत्रे कर्करोगस्य भारः अधिकः अस्ति।

आईसीएमआर-विवरणानुसारम् अद्यावधि सिक्किमराज्यस्य प्रायः 95 प्रतिशतं, नागालैण्ड्राज्यस्य 58 प्रतिशतं, मणिपुरराज्यस्य 16 प्रतिशतं, मेघालयराज्यस्य 13 प्रतिशतं च रोगिणः विशेषकर्करोगचिकित्सार्थं पूर्वोत्तरक्षेत्रात् बहिः गच्छन्ति स्म। रक्तकर्करोगस्य बालककर्करोगस्य च प्रकरणेषु इयं निर्भरता अधिकतरं दृश्यते। बहुवारं रोगिभ्यः अपॉइण्ट्मेण्ट्-प्राप्तौ, यात्रायां, चिकित्सारम्भे च दीर्घः कालः लगति स्म। अत एव इदं चिकित्सालयं नूतना सुविधा च स्थानीयजनानां कृते वरदानात् न्यूनं नास्ति।

पूर्वोत्तरक्षेत्रविकासमन्त्रालयस्य इयं परियोजना पीएम्-डिवाइन्-योजनायाः अन्तर्गतं विकस्यते। केन्द्रीयबजटे 2022-23 तमे मोदीसर्वकारेण 'प्रधानमन्त्रि-विकासपहल-पूर्वोत्तर' (पीएम्-डिवाइन्) योजनायाः घोषणा कृता आसीत्। अस्याः कृते प्रारम्भिकचरणे 1,500 कोटिरूप्यकाणां प्रावधानं कृतम् आसीत्। इयं योजना पूर्वोत्तरक्षेत्रविकासमन्त्रालयेन नॉर्थ्-ईस्टर्न्-काउन्सिल्-माध्यमेन च कार्यान्विता भवति। अस्याः उद्देश्यम् अस्ति पूर्वोत्तरराज्येषु एतादृशानां आधारभूतपरियोजनानां प्रोत्साहनं यासां प्रत्यक्षः लाभः जनान् प्राप्नोति। बीबीसीआई-संस्थानस्य इयं परियोजना अस्याः एव योजनायाः महत्त्वपूर्णतमासु स्वास्थ्यपरियोजनासु अन्तर्भूता अस्ति।

---------------

Hindusthan Samachar / अंशु गुप्ता