चिकित्सकानाम् आत्मत्याग: एव समाजस्य स्वास्थ्यस्य कल्याणस्य च मूलाधारशिला - शुभेन्दु-अधिकारी
कोलकातानगरम्, ०१ जुलाईमासः (हि.स.)। राष्ट्रीय-चिकित्सक-दिवसस्य अवसरे मुख्यमन्त्री शुभेन्दु-अधिकारी चिकित्सकेभ्यः, परिचारिकाभ्यः, स्वास्थ्यकर्मिभ्यश्च शुभकामनाः प्रदत्त्वा तेषां योगदानं प्रति कृतज्ञताम् अव्यक्तयत्। सामाजिक-माध्यमेषु प्रकाशिते स्वसन
मुख्यमंत्री शुभेंदु अधिकारी


कोलकातानगरम्, ०१ जुलाईमासः (हि.स.)। राष्ट्रीय-चिकित्सक-दिवसस्य अवसरे मुख्यमन्त्री शुभेन्दु-अधिकारी चिकित्सकेभ्यः, परिचारिकाभ्यः, स्वास्थ्यकर्मिभ्यश्च शुभकामनाः प्रदत्त्वा तेषां योगदानं प्रति कृतज्ञताम् अव्यक्तयत्।

सामाजिक-माध्यमेषु प्रकाशिते स्वसन्देशे तेन उक्तं यत् पश्चिमबङ्गे समग्रे देशे च कार्यरतानां समर्पितानां सर्वेषां चिकित्सकानां, परिचारिकाणां स्वास्थ्य-सेवा-कर्मिणां च अटला निष्ठा, सहानुभूतिः, आत्मत्यागश्च समाजस्य स्वास्थ्यस्य कल्याणस्य च मूलाधारशिला अस्ति।

तेन उक्तं यत् स्वास्थ्यकर्मिणः समाजस्य अग्रिम-पङ्क्तेः योद्धारः सन्ति, ये कठिनासु सङ्कटपूर्णासु च परिस्थितिषु जनानां कृते आशायाः किरणं भवन्ति। तेषां निरन्तर-समर्पणस्य सेवा-भावनायाश्च प्रशंसां कुर्वन् सः अवदत् यत् राज्य-सर्वकारः चिकित्सकानां स्वास्थ्यकर्मिणां च सहयोगाय तथा स्वास्थ्य-अवसंरचनायाः निरन्तर-विकासाय प्रतिबद्धः अस्ति।

स्वसन्देशे तेन पुनरुक्तं यत् यथा स्वास्थ्यकर्मिणः प्रतिदिनं जनानां पार्श्वे तिष्ठन्ति तथा एव सर्वकारोऽपि तेषां पार्श्वे तिष्ठति। सहैव ‘आयुष्मान्-भारत’-अभियानस्य उद्देश्यानाम् अग्रे सरणाय तेषां निरन्तर-प्रयत्नेभ्यः धन्यवादोऽपि ज्ञापितः।

Hindusthan Samachar / Divya Ranjan