Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ०१ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः अवदत् यत् बडवानी-जनपदस्य निमाड-प्रदेशस्य च भूमिः सन्तैः, संस्कृत्या, लोकपरम्पराभिश्च समृद्धा वर्तते। भारतस्य सन्त-परम्परा सर्वदा समाजाय सम्यग्दिशं प्रदर्शितवती। तेषां मार्गदर्शनेन समाजे सद्भावः, संयमः, सेवाभावश्च विकसितः भवति। दरिद्राणां, आवश्यकतायुक्तानां, पीडितानां च सेवा एव सत्यभक्तिः अस्ति। समाजः तदैव प्रगतिं करोति यदा धर्मः सेवा च सह गच्छतः। एष एव भारतीय-संस्कृतेः मूलसन्देशः इति तेन उक्तम्।
मुख्यमन्त्री डॉ. मोहन-यादवः बुधवासरे बडवानी-जनपदस्य तलून-ग्रामे खाटू-श्याम-मन्दिरस्य प्राण-प्रतिष्ठा-समारोहे एकविंशति-कुण्डीय-महायज्ञ-कार्यक्रमे च मुख्यमन्त्री-निवासात् आभासीय-माध्यमेन सम्बोधनम् अकरोत्। तेन उक्तं यत् तलून-ग्रामे निर्मीयमाणं खाटू-श्याम-मन्दिरं बडवानी-जनपदस्य निमाड-प्रदेशस्य च गौरवशालिनीं विरासतं सुदृढां करिष्यति तथा आगामि-पीढ्यः अपि अनेन धरोहरेण सह सम्बद्धाः भविष्यन्ति।
बाबा श्री-खाटू-श्यामेन धर्म-रक्षणाय लोक-कल्याणाय च त्यागः कृतः
मुख्यमन्त्री डॉ. मोहन-यादवः अवदत् यत् अद्यतनः अयं अवसरः केवलं मन्दिरस्य प्राण-प्रतिष्ठायाः न, अपितु श्रद्धायाः, विश्वासस्य, सनातन-संस्कृतेः पुनर्जागरणस्य च उत्सवः अस्ति। बाबा श्री-खाटू-श्यामस्य कृपा सर्वेषां भक्तानां उपरि सदा वर्तताम्। बाबा-खाटू-श्यामः हारितानां आश्रयः इति कथ्यते, यतः सः भक्तानां दुःख-निवारक-देवता इति मन्यते। बाबा-खाटू-श्यामः बर्बरीकस्य स्वरूपं मन्यते। महाभारते धर्म-रक्षणाय लोक-कल्याणाय च सः स्वशीर्षं भगवान्तं श्रीकृष्णम् अर्पितवान्। तस्य अयं अनुपमः त्यागः भारतीय-संस्कृतौ वीरतायाः, विनयस्य, समर्पणस्य च सर्वोच्चम् उदाहरणम् अस्ति। माता-नर्मदायाः परिक्रमायाः अनन्तरं महन्तस्य शशि-गिरि-महाराजस्य मनसि खाटू-श्याम-मन्दिर-निर्माणस्य विचारः समजायत, नगरस्य भक्तानां सहयोगेन च मन्दिर-निर्माणस्य स्वप्नं साकारम् अभवत्।
प्राचीन-धरोहराणां संरक्षणाय विकासाय च कार्याणि प्रचलन्ति
मुख्यमन्त्री डॉ. मोहन-यादवः अवदत् यत् मध्यप्रदेशः आध्यात्मिक-सांस्कृतिक-धार्मिक-दृष्ट्या देशस्य अग्रणी राज्यः अस्ति। राज्य-सर्वकारः प्राचीन-धरोहराणां संरक्षणाय विकासाय च निरन्तरं कार्यं करोति। धार्मिक-पर्यटनस्य सांस्कृतिक-विकासस्य च माध्यमेन स्थानीयार्थ-व्यवस्थाऽपि सुदृढा भवति। एतन्मन्दिरमपि अस्याः यात्रायाः महत्त्वपूर्णः सोपानः भविष्यति। अन्ते मुख्यमन्त्री डॉ. मोहन-यादवः बाबा श्री-खाटू-श्यामं प्रति सर्वेषां जीवने सुख-समृद्धि-स्वास्थ्यस्य, प्रदेशस्य विकासस्य, प्रदेशवासिनां कल्याणस्य च प्रार्थनाम् अकरोत्।
अस्मिन् कार्यक्रमे सांसदः गजेन्द्र-पटेलः, बडवानी-जिला-पञ्चायत-अध्यक्षः बलवन्त-पटेलः, महन्त-महामण्डलेश्वरः हरि-सुरेन्द्र-गिरि-महाराजः, खाटू-श्याम-मन्दिरस्य अध्यक्षः शशि-गिरि-महाराजः, अन्ये सन्तः, जनप्रतिनिधयः तथा बहुसंख्यकाः श्रद्धालवः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan