धमतरी जनपदाय अमिलत् नूतनशैक्षणिकसुविधा, उद्घटिष्यति द्वितीय एकलव्यः आदर्शः आवासीयो विद्यालयः
आदिवासी अंचलस्य विद्यार्थिभ्यो मेलिष्यति आधुनिकी, गुणवत्तापूर्णा पूर्णतया नि:शुल्कं आवासीयशिक्षा धमतरी, 01 जुलाईमासः (हि.स.)। अनुसूचितजनजातिबहुलप्रदेशेषु गुणवत्तायुक्तशिक्षायाः संवर्धनदिशि धमतरीजनपदाय महती सुविधा प्राप्ता। छत्तीसगढसरकारस्य आदिमज
एकलव्य आदर्श आवासीय विद्यालय पथ्थरीडीह। फाइल फोटो


आदिवासी अंचलस्य विद्यार्थिभ्यो मेलिष्यति आधुनिकी, गुणवत्तापूर्णा पूर्णतया नि:शुल्कं आवासीयशिक्षा

धमतरी, 01 जुलाईमासः (हि.स.)। अनुसूचितजनजातिबहुलप्रदेशेषु गुणवत्तायुक्तशिक्षायाः संवर्धनदिशि धमतरीजनपदाय महती सुविधा प्राप्ता। छत्तीसगढसरकारस्य आदिमजाति अनुसूचितजाति विकासविभागेन जनपदे नूतनस्य एकलव्य आदर्श आवासीयविद्यालयस्य ईएमआरएस स्थापनाय अनुमतिः प्रदत्ता।

अस्य विद्यालयस्य प्रारम्भेण दूरस्थवनप्रदेशेषु दुर्गमक्षेत्रेषु च निवसतां प्रतिभाशालिनां जनजातीयविद्यार्थिनां कृते आधुनिकसुविधायुक्ता पूर्णतया निःशुल्का आवासीयशिक्षा उपलब्धा भविष्यति। जनपदस्य नगरीविकासखण्डस्य पथररीडीह ग्रामे सञ्चालितः एकलव्य आदर्श आवासीयविद्यालयः पूर्वमेव स्वस्य उत्कृष्टशैक्षणिकसफलताभिः अनुशासितशिक्षणव्यवस्थया अत्याधुनिकाधारसंरचनया क्रीडासहशैक्षणिकक्रियाकलापेषु उल्लेखनीयप्रदर्शनेन च प्रदेशस्य उत्कृष्टप्रारूपविद्यालयेषु गणितः अस्ति। अस्य सफलतायाः क्षेत्रीयावश्यकतायाश्च दृष्ट्या राज्यसरकारेण जनपदे द्वितीयविद्यालयस्य स्थापनाय निर्णयः कृतः।

नूतनविद्यालये विद्यार्थिभ्यः डिजिटलकक्षाः विज्ञानसङ्गणकप्रयोगशालाः समृद्धः ग्रन्थालयः क्रीडासुविधाः व्यक्तित्वविकासस्य विविधाः अवसराश्च प्रदास्यन्ते। चयनितेभ्यः छात्रेभ्यः छात्राभ्यश्च निःशुल्कावासः पौष्टिकभोजनं गणवेशः अध्ययनसामग्री स्वास्थ्यसुविधाः अन्ये आवश्यकसंसाधनाश्च प्रदास्यन्ते। अनेन आर्थिकदृष्ट्या दुर्बलपरिवाराणां बालकानामपि गुणवत्तायुक्तशिक्षायाः समानावसरः भविष्यति।

विद्यालये नियमितपाठ्यक्रमेण सह नीट जेईई क्लैट इत्यादीनां राष्ट्रियस्तरीयस्पर्धापरीक्षाणां सिद्ध्यर्थं विशेषशैक्षणिकमार्गदर्शनम् अनुभवीनाम् अध्यापकानां सहयोगः व्यवसायमार्गदर्शनव्यवस्था च भविष्यति। एतदतिरिक्तं क्रीडा कला संस्कृति नेतृत्वक्षमता जीवनकौशलविकासेषु विशेषं ध्यानं दत्त्वा विद्यार्थिनां सर्वाङ्गीणविकासः सुनिश्चितः भविष्यति।

विद्यालयस्य स्थापनया स्थानीयस्तरे अध्यापनं छात्रावासनिर्वहणं सुरक्षा परिपालनं अन्यासु सहायकसेवासु च रोजगारस्य नूतनाः अवसराः सृज्यन्ते। अनेन क्षेत्रस्य सामाजिकार्थिकविकासः अपि त्वरितः भविष्यति।

जिलाधीशः अबिनाश मिश्र उक्तवान् यत् एकलव्य आदर्श आवासीयविद्यालयः केवलं शैक्षणिकसंस्था नास्ति अपि तु जनजातीयप्रदेशेषु निवसतां बालकानां स्वप्नानां नूतनायाः उड्डयनाय सशक्तं माध्यमम् अस्ति। एषा योजना दूरस्थप्रदेशीयविद्यार्थिभ्यः महानगरेषु उपलब्धवत् गुणवत्तायुक्तशिक्षां आधुनिकसंसाधनानि स्पर्धात्मकपरिवेशं च प्रदास्यति। तेन सम्बन्धिताधिकारिभ्यः विद्यालयभवननिर्माणार्थं उपयुक्तभूमेः शीघ्रचिह्नीकरणं कृत्वा सर्वाः आवश्यकप्रक्रियाः निर्धारितसमयसीमायां सम्पन्नाः कर्तुम् निर्देशाः प्रदत्ताः।

जनपदाय प्राप्तायाः अस्याः महत्त्वपूर्णायाः शैक्षणिकसुविधायाः विषये जनप्रतिनिधयः ग्रामवासिनः शिक्षाविदः आदिवासीसमाजस्य प्रबुद्धनागरिकाश्च हर्षं व्यक्तवन्तः। तैः एषः निर्णयः जनजातीयविद्यार्थिनां उज्ज्वलभविष्यस्य जनपदस्य शैक्षणिकविकासस्य च दिशि महत्त्वपूर्णः पदक्षेपः इति अभिहितः।

Hindusthan Samachar / Dheeraj Maithani