Enter your Email Address to subscribe to our newsletters

- उप मुख्यमंत्री राष्ट्रिय चिकित्सक दिवसे चिकित्सकेभ्यः दत्ताः शुभकामनाः
भोपालम्, 01 जुलाईमासः (हि.स.) ।
मध्यप्रदेशस्य उपमुख्यमन्त्री राजेन्द्र शुक्लः बुधवासरे राष्ट्रियचिकित्सकदिवसस्य अवसरे प्रदेशस्य देशस्य च समस्तेभ्यः चिकित्सकेभ्यः हार्दिकाः शुभकामनाः अभिनन्दनं च प्रदत्तवान्।
उपमुख्यमन्त्री शुक्लः अवदत् यत् चिकित्सकाः केवलं रोगाणां उपचारमेव न कुर्वन्ति अपितु स्वज्ञानेन सेवया समर्पणेन संवेदनशीलतया च समाजं स्वस्थं सुरक्षितं च कर्तुम् अमूल्यं योगदानं ददति। मानवजीवनस्य रक्षणं पीडितेभ्यः नवजीवनप्रदानं च तेषां कार्यम् अत्यन्तं प्रेरणादायकं सम्माननीयम् च अस्ति। तेन उक्तं यत् राष्ट्रीयचिकित्सकदिवसः महान् चिकित्सकस्य भारतरत्नसम्मानितस्य डा बिधानचन्द्ररायस्य स्मृतये समर्पितः अस्ति यस्य आदर्शाः अद्यापि चिकित्साजगतः प्रेरणास्रोतः सन्ति। अयं दिवसः चिकित्सकानां निष्ठायाः सेवाभावस्य समाजस्य प्रति तेषाम् अमूल्ययोगदानस्य च प्रति कृतज्ञतां प्रकटयितुं अवसरः अस्ति।
उपमुख्यमन्त्री शुक्लः अवदत् यत् मध्यप्रदेशसर्वकारः गुणवत्तायुक्तानां सुलभानां जनकेन्द्रितानां स्वास्थ्यसेवानां विस्तारार्थं निरन्तरं कार्यं करोति। प्रदेशस्य चिकित्सकानां समर्पणं विशेषज्ञता सेवाभावश्च अस्य अभियानस्य महान्तमः बलम् अस्ति। तेन विश्वासः व्यक्तः यत् समस्ते चिकित्सकाः एतयैव निष्ठया जनसेवां कुर्वन्तः स्वस्थस्य समृद्धस्य विकसितस्य च मध्यप्रदेशस्य निर्माणे स्वमहत्त्वपूर्णां भूमिकां निरन्तरं निर्वक्ष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani