राष्ट्रिय चिकित्सक दिवसे मुख्यमंत्री शुभेंदु अधिकारी डॉ. बिधान चंद्र रायाय अददात् श्रद्धांजलिं, चिकित्सा कर्मिणां योगदानं प्रशंसितम्
कोलकाता, 01 जुलाईमासः (हि.स.)।राष्ट्रियचिकित्सकदिवसस्य अवसरे पश्चिमबङ्गराज्यस्य मुख्यमन्त्री शुभेन्दु अधिकारी राज्यस्य पूर्वमुख्यमन्त्रिणं विख्यातचिकित्सकं डा बिधानचन्द्र राय इत्येतस्य जयन्त्यां पुण्यतिथौ च विनम्रां श्रद्धाञ्जलिम् अर्पितवान्। तेन उ
शुभेंदु अधिकारी


कोलकाता, 01 जुलाईमासः (हि.स.)।राष्ट्रियचिकित्सकदिवसस्य अवसरे पश्चिमबङ्गराज्यस्य मुख्यमन्त्री शुभेन्दु अधिकारी राज्यस्य पूर्वमुख्यमन्त्रिणं विख्यातचिकित्सकं डा बिधानचन्द्र राय इत्येतस्य जयन्त्यां पुण्यतिथौ च विनम्रां श्रद्धाञ्जलिम् अर्पितवान्। तेन उक्तं यत् डा राय महोदयस्य निःस्वार्थजनसेवा चिकित्साक्षेत्रे उत्कृष्टयोगदानं च इति द्विविधसंपद् अद्यापि संततिः प्रेरयति।

मुख्यमन्त्री स्वस्य एक्स सन्देशे राज्यस्य देशस्य च सर्वेभ्यः चिकित्सकेभ्यः परिचारिकाभ्यः चिकित्साव्यवसायसम्बद्धेभ्यः सर्वेभ्यः राष्ट्रीयचिकित्सकदिवसस्य शुभकामनाः प्रदाय तेषां प्रति गाढां कृतज्ञतां व्यक्तवान्। तेन उक्तं यत् चिकित्सासमुदायस्य अटुटप्रतिबद्धता करुणा प्रतिदिनं कृतः त्यागश्च समाजस्य स्वास्थ्यस्य कल्याणस्य च दृढाधारशिला अस्ति। कठिनतमासु परिस्थितिष्वपि चिकित्सकाः परिचारिकाः स्वास्थ्यकर्मिणश्च अग्रपङ्क्तेः योद्धारः उपचारस्य प्रतीकाः आशायाः किरणाश्च भूत्वा जनसेवां कुर्वन्ति।

मुख्यमन्त्री उक्तवान् यत् पश्चिमबङ्गसरकारः चिकित्सासमुदायस्य सह दृढतया तिष्ठति तथा राज्यस्य स्वास्थ्यमूलसंरचनां निरन्तरं सुदृढीकर्तुं प्रतिबद्धा अस्ति। तेन उक्तं यत् सरकारः चिकित्साक्षेत्रसम्बद्धेभ्यः सर्वेभ्यः व्यावसायिकेभ्यः सर्वेषु स्तरेषु सहयोगं निरन्तरं करिष्यति यथा ते प्रतिदिनं जनसेवायां समर्पिताः भवन्ति।

तेन चिकित्सासमुदायस्य अथकप्रयत्नानां प्रशंसां कृत्वा उक्तं यत् सर्वे स्वास्थ्यकर्मिणः श्रेष्ठस्य स्वस्थस्य च भारतस्य निर्माणे महत्त्वपूर्णां भूमिकां निर्वहन्ति। मुख्यमन्त्री तेषां समर्पणस्य सेवाभावस्य च कृते सर्वेभ्यः चिकित्सकेभ्यः परिचारिकाभ्यः चिकित्साकर्मिभ्यश्च आभारं व्यक्तवान्।

Hindusthan Samachar / Dheeraj Maithani