Enter your Email Address to subscribe to our newsletters


पश्चिमी सिंहभूमः, 01 जुलाईमासः (हि.स.)। एकं वृक्षं मातुः नाम्ना अभियानस्य अन्तर्गतं पश्चिमीसिंहभूमजनपदस्य सदरप्रखण्डान्तर्गतस्य रेङ्गाबासा ग्रामे बुधवासरे आम्रवृक्षस्य पौधारोपणं कृत्वा पर्यावरणसंरक्षणस्य सन्देशः प्रदत्तः।
कार्यक्रमे मुख्यरूपेण राज्यसभासांसदः डा प्रदीप वर्मा उपस्थितः आसीत्। तेन उक्तं यत् वृक्षाः केवलं पर्यावरणसन्तुलनस्य माध्यमं न सन्ति अपितु आगामिपीढीनां कृते स्वच्छस्य हरितस्य समृद्धस्य च भविष्यस्य अमूल्या धरोहराः अपि सन्ति। तेन जनान् अधिकाधिकवृक्षारोपणाय तेषां नियमितपालनाय च प्रेरयन् उक्तं यत् पर्यावरणसंरक्षणं जनान्दोलनरूपेण परिवर्तयितुं कालस्य आवश्यकता अस्ति।
डा प्रदीप वर्मा अवदत् यत् एकं वृक्षं मातुः नाम्ना अभियानं प्रकृतेः प्रति संवेदनशीलतायाः मातृत्वसम्मानस्य च प्रतीकम् अस्ति। तेन उक्तं यत् यदि प्रत्येकः जनः न्यूनातिन्यूनम् एकं पौधं रोपयित्वा तस्य संरक्षणस्य संकल्पं कुर्यात् तर्हि पर्यावरणसंरक्षणस्य दिशि महान् सकारात्मकः परिवर्तनः साधयितुं शक्यते।
अस्मिन् अवसरे भारतीयजनतापक्षस्य चाईबासा जिलायाः आयोजने सम्पन्ने पौधारोपणकार्यक्रमे मण्डलाध्यक्षः कुञ्ज बिहारी खण्डाईत अभियानसंयोजिका सह जिलामन्त्री रूपा दास इत्येतयोः नेतृत्वे आम्रवृक्षस्य पौधः रोपितः। कार्यक्रमे उपस्थितैः भारतीयजनतापक्षकार्यकर्तृभिः स्थानीयजनैश्च अधिकाधिकपौधारोपणस्य तेषां संरक्षणस्य च संकल्पः कृतः।---------------
Hindusthan Samachar / Dheeraj Maithani