जीएसटी : एतादृशं परिवर्तितं देशस्य परिदृश्यं, तीव्रं विकासः प्रत्येकस्मिन् क्षेत्रे भारतमग्रे अकरोत्
- नववर्षेषु ''एक राष्ट्रम्, एकः करः इत्यनेन'' विकसित भारतस्य दृढःआधारः - डॉ. मयंक चतुर्वेदी नव दिल्ली, 01 जुलाईमासः (हि.स.)। सुधाराः तदैव सफलाः भवन्ति यदा तेषां लाभः समाजस्य अन्तिमव्यक्तेः पर्यन्तं प्राप्नोति। एतत् चिन्तनं कदाचित् अन्त्योदय
जीएसटी, सांकेतिक फोटो


- नववर्षेषु 'एक राष्ट्रम्, एकः करः इत्यनेन' विकसित भारतस्य दृढःआधारः

- डॉ. मयंक चतुर्वेदी

नव दिल्ली, 01 जुलाईमासः (हि.स.)।

सुधाराः तदैव सफलाः भवन्ति यदा तेषां लाभः समाजस्य अन्तिमव्यक्तेः पर्यन्तं प्राप्नोति। एतत् चिन्तनं कदाचित् अन्त्योदय विषयकस्य एकात्ममानवदर्शनस्य व्याख्यानमालायां भारतीयज्ञानपरम्परायाः राजनीतिशास्त्रस्य च प्रख्यातविद्वान् पण्डित दीनदयाल उपाध्यायेन व्यक्तम् आसीत्। अनन्तरं कालः अग्रे गतः किन्तु देशः दीर्घकालपर्यन्तं तादृशीम् आर्थिककरव्यवस्थां निर्मातुं न अशकत् या एकेन एव करेण सम्पूर्णं राष्ट्रं संयोजयेत्। अन्ततः प्रथमजुलै मासस्य द्विसहस्रसप्तदशवर्षे प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे वस्तुसेवाकरव्यवस्था प्रवर्तिता या आर्थिकक्षेत्रे ऐतिहासिकसुधाररूपेण सिद्धा अभवत् तथा विपण्याः विषये जनानां दृष्टिकोणमेव परिवर्तितवती।

वस्तुतः भारते वस्तुसेवाकरस्य नववर्षीययात्रा पण्डितदीनदयाल उपाध्यायस्य एतत् चिन्तनं सार्थकं सिद्धयति। एषा व्यवस्था दशकानां पुरातनां जटिलाम् अप्रत्यक्षकरव्यवस्थां समाप्त्य सम्पूर्णं राष्ट्रम् एकसमानकरव्यवस्थया संयोजितवती। अतः यदा वयं अस्याः नववर्षीययात्रायाः समीक्षां कुर्मः तदा एतदेव ज्ञायते यत् अद्य वस्तुसेवाकरव्यवस्था भारतस्य आर्थिकदृढता डिजिटलप्रशासनम् सहकारीसंघवादः तीव्रविकासश्च एतेषां सुदृढाधारः अभवत्।

अस्याः करव्यवस्थायाः विषये अद्य विपण्यां विशेषः उत्साहः दृश्यते। देशव्यापिनः मुद्रणकागदउद्योगस्य प्रमुखसंघटनस्य एआईएफएमपी इत्यस्य पूर्वमहासचिवः नागपुरनगरे ए डी ग्राफिक्स इति संस्थायाः सञ्चालकः हिन्दुस्थानसमाचारवार्तासंस्थायाः अध्यक्षः अरविन्द भालचन्द्र मार्डीकरः वदति यत् अद्यतः नववर्षपूर्वम् ऐतिहासिकं पादक्षेपम् उपात्तम्। सम्पूर्णे भारते विक्रयकरव्यवस्था वस्तुसेवाकरव्यवस्थया परिवर्तिता। व्यापारीणः व्यवसायिनः उद्योगसमूहाश्च सर्वे अस्याः परिधौ समायाताः। अल्पकाले एव सर्वैः सम्बद्धैः एषा व्यवस्था स्वीकृता। आरम्भे उत्सुकता शङ्काः अल्पा चिन्ता च अवश्यम् आसीत् किन्तु शीघ्रमेव उद्योगजगता एषा व्यवस्था सानन्दं स्वीकृता।

भारतीयार्थव्यवस्थायाः कृते वस्तुसेवाकरः परिवर्तनकारी व्यवस्थारूपेण सिद्धः इति प्रतिपादयन् अरविन्द मार्डीकरः अवदत् यत् यदा केन्द्रसर्वकारेण वस्तुसेवाकरस्य प्रवर्तनस्य निर्णयः क्रियमाणः आसीत् तदा संयोगवशात् अहम् अखिलभारतीयमुद्रकसंघस्य मानदसचिवः आसम्। एषा संस्था द्विलक्षाधिकपञ्चाशत्सहस्राणि मुद्रणव्यवसायिनः प्रतिनिधित्वेन धारयति। तत्कालीनेन अर्थमन्त्रिणा स्वर्गीयेन अरुण जेटलिना तत्कालीनेन अर्थराज्यमन्त्रिणा मेघवाल महोदयेण अन्यैः उच्चाधिकारिभिः विशेषज्ञैश्च सह चर्चां कर्तुं सौभाग्यं प्राप्तम्। मानदसचिवरूपेण मया सम्पूर्णे भारते प्रवासः कृतः तथा वस्तुसेवाकरव्यवस्थायाः सूक्ष्मतत्त्वानि जनेभ्यः बोधितानि स्वयम् अपि ज्ञातानि। अद्य अस्माकं देशे अस्याः विषये सर्वतः सकारात्मकं वातावरणं दृश्यते। नूनं भारतीयार्थव्यवस्थायाः कृते वस्तुसेवाकरः परिवर्तनकारीव्यवस्थारूपेण प्रतिष्ठितः।

अरविन्द मार्डीकरः वदति यत् गतनववर्षेषु वस्तुसेवाकरव्यवस्थया एतत् सिद्धीकृतं यत् यदा नीतिगतदृढसंकल्पः आधुनिकप्रौद्योगिकी पारदर्शिशासनं च समन्वितरूपेण कार्यं कुर्वन्ति तदा राष्ट्रस्य आर्थिकचित्रं परिवर्तनं प्राप्नोति। एतदेव कारणं यत् अद्य भारतं विश्वस्य अतिशीघ्रवर्धमानासु प्रमुखार्थव्यवस्थासु गण्यते तथा वस्तुसेवाकरः अस्याः उपलब्धेः सुदृढस्तम्भरूपेण उदितः अस्ति।

सः पुनः अवदत् यत् वस्तुसेवाकरस्य महान् प्रभावः भारतस्य आर्थिकैक्यरूपेण दृश्यते। अद्य देशस्य कश्चन व्यापारी उद्योगपति वा अपेक्षया सरलनियमाधारेण राष्ट्रस्य कस्मिन्नपि भागे व्यापारं कर्तुं समर्थः अस्ति। अनेन स्पर्धा वर्धिता निवेशः प्रोत्साहितः घरेलुविपणिः च पूर्वापेक्षया अधिकं सुदृढः अभवत्।

विखण्डितकरव्यवस्थातः एकीकृतराष्ट्रीयविपण्याः निर्माणम्

अपरतः लघुउद्योगभारती इति संस्थायाः मध्यभारतप्रदेशस्य पदाधिकारिणी उमा शर्मा वदति यत् वस्तुसेवाकरव्यवस्थायाः प्रवर्तनात् पूर्वं भारतस्य अप्रत्यक्षकरव्यवस्था अत्यन्तं जटिला आसीत्। केन्द्रराज्यसर्वकाराभ्यां उत्पादशुल्कं सेवाकरः मूल्यवर्धितकरः आक्ट्रायः प्रवेशकरः मनोरञ्जनकरः विलासकरः इत्यादयः सप्तदश विभिन्नाः कराः त्रयोदश उपकराश्च व्यापारीणां उद्योगानां च कृते महान् आव्हानम् आसन्। एकस्मिन् एव उत्पादे बहुषु स्तरषु करारोपणेन करस्य उपरि करः इति स्थितिः जायमाना आसीत् येन वस्तूनां मूल्यं वर्धते स्म उद्योगानां स्पर्धाक्षमता च प्रभाविताभवत्। किन्तु वस्तुसेवाकरव्यवस्थया एषा सम्पूर्णा व्यवस्था परिवर्तिता।

उमा शर्मायाः मते एकं राष्ट्रम् एकः करः एकः विपणिः इति अवधारणां व्यवहाररूपेण स्थापयित्वा सम्पूर्णे देशे समानाप्रत्यक्षकरव्यवस्था प्रवर्तिता। अस्य परिणामस्वरूपं राज्यसीमाः व्यापारदृष्ट्या प्रायः अप्रासङ्गिकाः अभवन्। मालपरिवहनं शीघ्रतरम् अभवत्। वहनव्ययः न्यूनः जातः। सम्पूर्णे भारते व्यापारः पूर्वापेक्षया बहु सुलभः अभवत्। विश्वबैङ्कसहितैः अनेकैः वैश्विकसंस्थाभिः अपि भारतस्य व्यापारसुगमतायाः वृद्धेः उल्लेखः कृतः यस्मिन् वस्तुसेवाकरस्य महत्त्वपूर्णा भूमिका स्वीकृता। करव्यवस्थायाः पारदर्शितया निवेशकानाम् विश्वासः अपि वर्धितः।

डिजिटल भारत अभियानाय नूतना गतिः

स्वावलम्बीभारताभियानस्य अखिलभारतीयसहसंयोजकः लघुउद्योगभारत्याः राष्ट्रियपदाधिकारी जितेन्द्र गुप्तः वस्तुसेवाकरव्यवस्थां प्रधानमन्त्री नरेन्द्रमोदिनः डिजिटलभारताभियानस्य अत्यधिकं सुदृढीकरणं कृतवतीनां व्यवस्थासु अन्यतमाम् मन्यते। सः अवदत् यत् वस्तुसेवाकरजालव्यवस्थया करप्रशासनं पूर्णतया डिजिटलरूपेण परिवर्तितम्। अद्य पञ्जीकरणं विवरणपत्रसमर्पणं करभुगतानम् आदानकरश्रेयः ई इन्वायस व्यवस्था ई वे बिल व्यवस्था च प्रायः सर्वाः प्रक्रियाः अन्तर्जालमाध्यमेन सञ्चाल्यन्ते। अनेन पारदर्शिता वर्धिता मानवीयहस्तक्षेपः न्यूनीकृतः भ्रष्टाचारस्य सम्भावनाश्च उल्लेखनीयतया ह्रासं गताः। करदातॄणां समयः व्ययश्च उभौ रक्षितौ। सर्वकाराय अपि वास्तविकसमये आर्थिकक्रियाकलापानां यथार्थसूचनाः सहजतया उपलब्धाः अभवन्।

मध्यवर्गीयव्यापारिणां कृते मार्गः सरलः अभवत्

जितेन्द्र गुप्तः वदति यत् मोदीसर्वकारेण वस्तुसेवाकरः केवलं राजस्वसंग्रहस्य माध्यमरूपेण न स्थाप्य मध्यवर्गीयव्यापारिणां नवप्रारम्भिकउद्यमानां सूक्ष्मलघुमध्यमउद्योगानां च विकासस्य साधनरूपेण विकसितः। वस्तुसेवाकरपञ्जीकरणस्य सीमा विंशतिलक्षरूप्यकेभ्यः चत्वारिंशल्लक्षरूप्यकपर्यन्तं वर्धिता। कम्पोजिशनयोजनायाः सीमा डेढकोटिरूप्यकपर्यन्तं विस्तृता। पञ्चकोटिरूप्यकपर्यन्तव्यवसायिनां कृते त्रैमासिकविवरणपत्रसमर्पणस्य सुविधा प्रदत्ता। एतेन लघुव्यापारिणां महान् लाभः अभवत्। तथैव लघुसन्देशमाध्यमेन शून्यविवरणपत्रसमर्पणम् त्रिदिनेषु पञ्जीकरणम् ई वाणिज्यविक्रेतॄणां कृते सरलनियमाश्च लक्षशः लघुउद्यमिनः औपचारिकार्थव्यवस्थया संयोजयितुं महत्त्वपूर्णां भूमिकां निर्वहितवन्तः।

यद्यपि सः वस्तुसेवाकरव्यवस्थायाः केषाञ्चन आव्हानानाम् अपि उल्लेखं करोति। जितेन्द्र गुप्तः अवदत् यत् अस्याः व्यवस्थायाः अधिकः प्रतिकूलप्रभावः अतीव लघुउद्योगेषु दृश्यते। उदाहरणतया यदि कश्चित् पत्रपात्रनिर्माणकार्यं करोति तर्हि तस्य सर्वः व्यवहारः नगदरूपेण भवति। सः कच्चामालं नगदरूपेण क्रीणाति तथा विक्रयमपि नगदरूपेण करोति। यस्य वार्षिकव्यवहारः चत्वारिंशल्लक्षरूप्यकपर्यन्तः अस्ति तस्मै वस्तुसेवाकरात् मुक्तिः अस्ति। अतः सः वस्तुसेवाकरपञ्जीकरणसंख्यां न गृह्णाति। बहुषु प्रसङ्गेषु सः विपण्यां वस्तूनि वस्तुसेवाकरपञ्जीकृतदुकानात् अपि क्रीणाति किन्तु तस्य पञ्जीकरणसंख्या नास्ति इति कारणेन तस्मै करलाभः न प्राप्यते। तथापि नियमानुसारं तेन वस्तूनां मूल्यानुसारं अष्टादशप्रतिशतं वस्तुसेवाकरः दातव्यः एव भवति।

सः स्मारयति यत् पूर्वं लघुउद्योगिनां हितार्थं सर्वकारेण एका समितिः गठिता आसीत्। तया समित्या स्वपरामर्शेषु उक्तं यत् त्रिको्टिरूप्यकपर्यन्तव्यवहारयुक्तानां संस्थानां कृते दत्तकरस्य पञ्चविंशतिप्रतिशतं प्रतिदेयतया प्रत्यर्पणीयम्। तथैव अतीवलघुउद्योगानां कृते कश्चन करः न भवेत् अपितु तेषां पूर्णकरमुक्तिः भवेत्। अनेन स्थानीयस्तरे अधिकरोजगारसृजनं भविष्यति। अर्थात् ये उद्योगाः मुख्यतया मानवीयपरिश्रमेण सञ्चाल्यन्ते तेषु करमुक्तिः भवेत् यन्त्राधारितेषु उद्योगेषु तु सर्वकारः करं गृह्णीयात्। किन्तु अद्यापि अस्मिन् विषये सर्वकारेण कश्चन निर्णयः न कृतः। यदि केन्द्रसर्वकारः एतादृशं निर्णयं कुर्यात् तर्हि देशस्य कोटिशः जनाः अस्य लाभं प्राप्नुयुः।

वस्तुसेवाकरः २ दशमलव ० सुधाराणां नूतना उड्डयनयात्रा

अस्मिन् विषये करव्यवस्थानां क्षेत्रे कार्यरतः नितिन यादव वदति यत् द्विसहस्रपञ्चविंशतिवर्षे प्रवर्तितेन वस्तुसेवाकरः २ दशमलव ० इत्यनेन करसुधाराणां नूतना दिशा प्रदत्ता। करदराः अधिकसरलाः कृताः तथा अधिकांशवस्तूनि द्वयोः प्रमुखकरश्रेण्योः पञ्चप्रतिशतं अष्टादशप्रतिशतं च अन्तर्भावितानि। अपरतः तम्बाकुः अन्तर्जालक्रीडाः कार्बोनेटयुक्तपेयपदार्थाः अत्यधिकमूल्ययुक्ताः मोटरयानानि निजीविमानानि च यथा विलासवस्तूनि स्वास्थ्याय हानिकारकवस्तूनि च तेषु चत्वारिंशत्प्रतिशतकरः विधाय सामाजिकं राजस्वसन्तुलनं च सुनिश्चितम्। धनप्रत्यर्पणप्रक्रिया शीघ्रा कृता। अनुपालनं सरलम् अभवत्। करविवादानां न्यूनीकरणार्थं प्रक्रियाः अधिकपारदर्शिन्यः कृताः। एतैः सुधारैः उद्योगजगतः निर्यातकानां नवप्रारम्भिकउद्यमानां सूक्ष्मलघुमध्यमउद्योगानां च नूतना प्रेरणा प्राप्ता।

सामान्यनागरिकेभ्यः प्रत्यक्षलाभः

नितिन यादवस्य मते वस्तुसेवाकरसुधाराणां लाभः उद्योगजगतः सह आवश्यकवस्तुषु युक्तियुक्तकरदराणां कारणेन सामान्योपभोक्तृभ्यः अपि प्राप्तः। स्वास्थ्यसेवायाः आवश्यकौषधानां च कररियायत्या परिवाराणाम् आर्थिकभारः न्यूनीकृतः। बीमासेवाः अधिकसुलभाः कर्तुं दिशि अपि महत्त्वपूर्णानि पादक्षेपाणि कृतानि। अल्पमूल्यवस्तूनि उत्तमा उपलब्धिः पारदर्शीकरव्यवस्था च उपभोक्तॄणां विश्वासं सुदृढीकृतवती।

वर्धमानाः सङ्ख्याः वर्धमानः विश्वासः

वस्तुसेवाकरस्य सफलतायाः महान् प्रमाणम् अस्याङ्केषु स्पष्टतया दृश्यते। अस्मिन् विषये केन्द्रसर्वकारेण प्रकाशिताङ्कानुसारं द्विसहस्रसप्तदशवर्षे यत्र प्रायः षट्षष्टिलक्षपञ्चाशत्सहस्राणि पञ्जीकृतकरदातारः आसन् तत्र द्विसहस्रषड्विंशतिवर्षस्य मईमासपर्यन्तं एषा संख्या वर्धमाना प्रायः एककोटिपञ्चषष्टिलक्षपर्यन्तं प्राप्ता। एतेन स्पष्टं भवति यत् देशस्य अर्थव्यवस्था शीघ्रतया औपचारिकार्थव्यवस्थायां परिवर्तमाना अस्ति।

सकलवस्तुसेवाकरसंग्रहः अपि निरन्तरं नूतनकीर्तिमानानि स्थापयति। द्विसहस्रसप्तदश अष्टादशवित्तवर्षे यत्र प्रायः सप्तलक्षचत्वारिंशत्सहस्रकोटिरूप्यकाणां संग्रहः अभवत् तत्र द्विसहस्रपञ्चविंशति षड्विंशतिवित्तवर्षे सः प्रायः द्वाविंशतिलक्षसप्तविंशतिसहस्रकोटिरूप्यकपर्यन्तं प्राप्तः। द्विसहस्रषड्विंशतिवर्षस्य एप्रिल मई मासयोः प्रायः चतुर् लक्षसप्तत्रिंशत्सहस्रकोटिरूप्यकाणां संग्रहः भारतीयार्थव्यवस्थायाः दृढतायाः उत्तमकरानुपालनस्य च स्पष्टः संकेतः अस्ति।

विकसितभारतस्य दिशि निर्णायकः पादक्षेपः

अद्य यदा भारतम् द्विसहस्रसप्तचत्वारिंशतिवर्षपर्यन्तं विकसितराष्ट्रं भवितुम् लक्ष्यं स्वीकृत्य अग्रे गच्छति तदा वस्तुसेवाकरव्यवस्था तस्य लक्ष्यस्य आधारशिलारूपेण दृश्यते। अस्याः व्यवस्थायाः माध्यमेन करव्यवस्था सरला कृता। व्यापारः गतिमान् अभवत्। उद्योगाः अधिकस्पर्धाक्षमाः अभवन्। राज्यकेन्द्रसर्वकारयोः सहयोगः वर्धितः। डिजिटलार्थव्यवस्थायै नूतना दृढता प्रदत्ता।

एवं वस्तुसेवाकरस्य नववर्षीययात्रा एतत् प्रमाणयति यत् दूरदर्शिनः नेतृत्वस्य निरन्तरसुधाराणाम् आधुनिकप्रौद्योगिक्याः च समन्वयेन देशस्य आर्थिकसंरचनायां ऐतिहासिकपरिवर्तनं साधयितुं शक्यते। एतदेव कारणम् यत् एषः सुधारः नूतनभारतस्य आत्मनिर्भरभारतस्य डिजिटलभारतस्य विकसितभारतस्य च संकल्पसिद्धेः सुदृढमाध्यमरूपेण प्रतिष्ठितः अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani