Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, ०१ जुलाईमासः (हि.स.)। राष्ट्रीय-चिकित्सक-दिवसस्य अवसरे आयोजिते कार्यक्रमे मुख्यमन्त्री शुभेन्दु-अधिकारी महत्त्वपूर्णां घोषणां कृत्वा विधाननगर-उपमण्डलीय-चिकित्सालयस्य नाम परिवर्तनस्य घोषणाम् अकरोत्। अधुना अयं चिकित्सालयः “डॉ.बिधानचन्द्र-राय-बहुविशेषता-चिकित्सालयः” इति नाम्ना ज्ञास्यते। तेन उक्तं यत् एषः निर्णयः राज्यस्य विख्यातस्य चिकित्सकस्य पूर्वमुख्यमन्त्रिणः च डॉ.बिधानचन्द्र-रायस्य सम्मानार्थं गृहीतः।
बुधवासरे सॉल्टलेक-स्थिते मयुख-भवने आयोजितस्य कार्यक्रमस्य प्रारम्भः मुख्यमन्त्रिणा डॉ.बिधानचन्द्र-रायस्य जयन्त्याः अवसरे तस्य प्रतिमायां माल्यार्पणं कृत्वा श्रद्धाञ्जलि-समर्पणेन कृतः। अस्मिन् अवसरे राज्यस्य स्वास्थ्य-मन्त्री शारद्वत-मुखर्जी, मन्त्रिणी अग्निमित्रा-पाल, स्वास्थ्य-विभागस्य अधिकारिणः, चिकित्सकाः तथा स्वास्थ्यकर्मिणः उपस्थिताः आसन्।
कार्यक्रमम् उद्दिश्य सम्बोधयन् मुख्यमन्त्री अवदत् यत् डॉ.बिधानचन्द्र-रायस्य आधुनिक-पश्चिमबङ्गस्य स्वास्थ्य-क्षेत्रे नगरीय-विकासे च महत्त्वपूर्णं योगदानम् आसीत्। तेन उक्तं यत् सः विगत-विंशतिवर्षेभ्यः डॉ.रायस्य कार्याणि पठन् अवगच्छन् च अस्ति।
मुख्यमन्त्री पूर्ववर्तिनः तृणमूल-सर्वकारस्य आलोचनां कुर्वन् अवदत् यत् अद्य राज्यस्य अनेकेषु व्यवस्थासु गम्भीरा अव्यवस्था दृश्यते। तेन उक्तं यत् यत्र यत्र दृष्टिः पतति तत्र तत्र स्वास्थ्य-व्यवस्थायाः दयनीया स्थितिः दृश्यते।
तेन राज्यस्य चिकित्सालय-व्यवस्थां प्रति प्रश्नाः उत्थापिताः। सः अपृच्छत्— किं चिकित्सालयानाम् ईदृशी स्थितिः स्वीकर्तुं शक्या? तस्य आरोपः आसीत् यत् दीर्घकालं यावत् स्वास्थ्य-संरचनायाः सुदृढीकरणस्य स्थाने राजनैतिक-विभाजनस्य प्रोत्साहनमेव कृतम्।
मुख्यमन्त्री अवदत् यत् पश्चिमबङ्गस्य जनानां प्रतिभायाः क्षमतायाश्च काचिदपि न्यूनता नास्ति, अत्रत्याः चिकित्सकाः विश्वस्य प्रमुख-चिकित्सालयेषु स्वसेवां प्रददति। किन्तु पूर्ववर्तिनः सर्वकारस्य काले स्वास्थ्य-क्षेत्रे अनावश्यकः विभेदः उत्पादितः। चिकित्सा-सेवायां “वयम्–ते” इति भावना, रुचि-अरुचि-भेदः अथवा साम्प्रदायिक-भेदभावः न भवितुमर्हति। स्वास्थ्य-विभागस्य सम्यग्दिशि सञ्चालनम् अत्यावश्यकम् इति तेन प्रतिपादितम्।
अनन्तरं मुख्यमन्त्री अवदत् यत् राज्यस्य चिकित्सा-महाविद्यालयानां, चिकित्सालयानां स्वास्थ्य-भवनानां च स्थितिः चिन्ताजनका आसीत्। तेन कथनं कृतं यत् पूर्वं चिकित्सालयेषु रोगिभिः सह अस्वास्थ्यकरम् अव्यवस्थितं च वातावरणं दृश्यते स्म। चिकित्सकेषु भयस्य असुरक्षायाश्च वातावरणमपि विद्यमानम् आसीत्, यत् अधुना विधि-व्यवस्थया सुरक्षोपायैश्च दूरं कृतम्।
Hindusthan Samachar / Divya Ranjan