राँची-जनपदस्य ११ सेवानिवृत्त-शिक्षकाः उपायुक्तेन सम्मानिताः
राँचीनगरम्, ०१ जुलाईमासः (हि.स.)। जनपद-प्रशासनेन बुधवासरे समाहरणालयस्थिते ब्लॉक-ए-सभागारे पेन्शन-दरबार-सह-सेवानिवृत्ति-विदाय-सम्मान-समारोहः आयोजितः। अस्मिन् कार्यक्रमे जनपदस्य ११ सेवानिवृत्त-शिक्षकाः तथा द्वौ कर्मचारी दीर्घकालीन-निष्ठापूर्ण-अनुकरण
सेवानिवृत शिक्षक कर्मियों के साथ उपायुक्त मंजूनाथ भजन्त्री


राँचीनगरम्, ०१ जुलाईमासः (हि.स.)। जनपद-प्रशासनेन बुधवासरे समाहरणालयस्थिते ब्लॉक-ए-सभागारे पेन्शन-दरबार-सह-सेवानिवृत्ति-विदाय-सम्मान-समारोहः आयोजितः।

अस्मिन् कार्यक्रमे जनपदस्य ११ सेवानिवृत्त-शिक्षकाः तथा द्वौ कर्मचारी दीर्घकालीन-निष्ठापूर्ण-अनुकरणीय-सेवायोगदानाय सम्मानिताः। सेवानिवृत्तेषु शिक्षक-कर्मचारिषु मुख्यतया सुरेन्द्र-महतो, प्रभा-जयन्ती-बेक-मिन्ज:, पूनम-आइन्द:, जया-कुमारी-रजक:, आशा-शङ्खवार:, दिनेश-प्रसाद-केसरी, शाहीन-कहकशाँ, सरोजिनी-कुजूर:, ऐस्कर-टोपनो, अब्दुल-क्यूम:, बेञ्जामिन्-होरो, मीरा-कुमारी तथा कमला-भगत: इत्येषां नामानि समाविष्टानि सन्ति।

समारोहस्य अध्यक्षतां कुर्वन् उपायुक्तः सर्वेभ्यः स्मृति-चिह्नानि, शालाः, प्रशस्ति-पत्राणि, पुष्पगुच्छांश्च प्रदाय सम्मानितवान्। तेन सेवानिवृत्तेः दिने एव सर्वेभ्यः पेन्शन-सम्बद्ध-लाभाः अपि प्रदत्ताः। अस्मिन् अवसरे उपायुक्तः अवदत् यत् शिक्षकाः समाजस्य निर्मातारः राष्ट्रस्य भविष्यस्य शिल्पकाराश्च सन्ति। तेषां निष्ठया, समर्पणेन, ज्ञानेन च नवीन-वंशस्य भविष्यं निर्मीयते।

सः अवदत् यत् सेवानिवृत्तेः दिने एव सर्वेषां पेन्शन-सम्बद्ध-लाभानां प्रदानं जनपद-प्रशासनस्य शिक्षकान् प्रति प्रतिबद्धतायाः प्रतीकम् अस्ति। उपायुक्तः सेवानिवृत्त-शिक्षकान् समाजस्य तथा नवीन-वंशस्य मार्गदर्शने सक्रिय-भूमिकां निर्वोढुं प्रार्थयन् तेषां स्वस्थ-सुखमय-जीवनस्य शुभकामनाः अपि प्रदत्तवान्।

अपर-जनपद-दण्डाधिकारी धनञ्जयः तथा स्थापना-उप-समाहर्त्री ज्योति-वन्दना-कुजूर अपि शिक्षकाणां योगदानस्य प्रशंसां कृत्वा तान् सम्मानितवन्तौ।

अस्मिन् कार्यक्रमे जनपद-शिक्षा-अधीक्षकः बादल-राजेन सह शिक्षा-विभागस्य अधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan