कार्यं खिन्नतायाः न ,अपितु आनंदस्य कारणं निर्मातव्यं यूना- मनन चतुर्वेदी
नव दिल्ली, 01 जुलाईमासः (हि.स.)। कला मातृत्वयोः अद्वितीयं उदाहरणं मनन चतुर्वेदी बुधवासरे अवदत् यत् अद्यतनस्य धावमानजीवनस्य मध्ये युवभिः स्वकार्यं तनावस्य कारणं न कर्तव्यम् अपि तु आनन्दस्य साधनं कर्तव्यम्। एतेन आनन्देन एव निरन्तरता सफलतायाः मार्गः
कलाकार मनन चतुर्वेदी


नव दिल्ली, 01 जुलाईमासः (हि.स.)।

कला मातृत्वयोः अद्वितीयं उदाहरणं मनन चतुर्वेदी बुधवासरे अवदत् यत् अद्यतनस्य धावमानजीवनस्य मध्ये युवभिः स्वकार्यं तनावस्य कारणं न कर्तव्यम् अपि तु आनन्दस्य साधनं कर्तव्यम्। एतेन आनन्देन एव निरन्तरता सफलतायाः मार्गः च प्रशस्तो भवति।

समग्रदेशे रंगरेजा इति नाम्ना प्रसिद्धा चित्रकारा मनन चतुर्वेदी दिल्लीनगरस्य पालिकाबाजारे चतुर्विंशतिघण्टापर्यन्तं निरन्तरं चित्रनिर्माणस्य अद्वितीयलक्ष्ये संलग्ना अस्ति। मङ्गलवासरात् आरब्धः अयं तस्याः प्रयत्नः तस्याः दृढसंकल्पं प्रकाशयति। उत्तरप्रदेशे जाता मनन इत्यस्याः कर्मभूमिः राजस्थानराज्यम् अभवत्।

मनन चतुर्वेदी हिन्दुस्थान समाचार संस्थायाः विशेषसाक्षात्कारे अवदत् यत् अद्यतनाः बालकाः कस्यापि प्रकारस्य दबावेन कार्यं न कुर्वन्तु। जीवने प्रसन्नता सर्वाधिकं महत्त्वपूर्णा अस्ति। यदा प्रसन्नचित्तेन कार्यं क्रियते तदा तस्य परिणामः सदा सुन्दरः भवति।

स्वकलायाः प्रमुखशक्तिरूपेण स्वच्छतां स्पष्टतां च मन्यमाना मनन अवदत् यत् सा अद्य अद्वितीये चुनौतीपूर्णे च अभियाने प्रवृत्ता अस्ति। यत्र सा आगामिचतुर्विंशतिघण्टेषु प्रायः पञ्चविंशतिः चित्राणि निर्मास्यति।

अन्यस्य प्रश्नस्य उत्तरे सा अवदत् यत् कला कदापि दबावस्य अपेक्षां न करोति। यथा हृदयं प्रेरयति तथा तथा चित्रं स्वयमेव पट्टिकायां प्रकटं भवति।

स्वस्य भावियोजनानां विषये भाषमाणा मनन उद्घाटितवती यत् तस्याः अग्रिमं लक्ष्यं देशस्य आर्थिकनगरी मायानगरी च मुम्बई अस्ति। तस्याः अयं प्रवासः केवलं कलायाः सीमायां नास्ति अपि तु येभ्यः बालकेभ्यः आश्रयस्य सहायस्य च परमावश्यकता अस्ति तेभ्यः छत्ररूपेण संरक्षणं दातुमेव तस्याः प्रमुखम् उद्देश्यं वर्तते।

अस्मात् पूर्वमपि सा द्विसप्ततिघण्टासु निरन्तरं पञ्चाधिकशतं चित्राणि निर्माय विश्वकीर्तिमानं स्वनाम्नि स्थापितवती। सा बालकानां अधिकाराणां विषये जनजागरूकतां प्रसारयितुं चित्राणि निर्माति। मनन निराश्रितबालकानां कृते आशायाः किरणरूपा अस्ति।

फैशन डिजाइनिङ्ग विषयस्य उच्चशिक्षां प्राप्त्वा सा कञ्चित् आडम्बरपूर्णं व्यवसायमार्गं न स्वीकृतवती। तस्याः स्थाने समाजेन तिरस्कृतानां बालकानां जीवननिर्माणमेव स्वस्य परमं लक्ष्यं कृतवती। मनन चतुर्वेद्या सञ्चालितं सुरमन संस्थानं निराश्रितबालकेभ्यः केवलम् आश्रयं न ददाति अपि तु तान् सशक्तान् स्वावलम्बिनः च करोति।

तस्याः एकः सहयोगी अवदत् यत् निधिसङ्ग्रहार्थं मनन मनन थिएटर्स इति नाम्ना नाटकानि विविधकार्यक्रमांश्च आयोजयति। तस्याः अस्य अद्वितीयमातृत्वभावस्य नेतृत्वक्षमतायाश्च सम्मानरूपेण राजस्थानसरकारेण तस्यै राज्यबालसंरक्षणआयोगस्य अध्यक्षपदस्य महती जिम्मेदारी प्रदत्ता आसीत्। स्वकार्यकाले तया बालसुधारस्य नवाचारस्य च क्षेत्रे अनेकानि प्रशंसनीयानि कार्याणि कृतानि।

---------------

Hindusthan Samachar / Dheeraj Maithani