Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ०१ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवः अद्य बुधवासरे सिवनी-जनपदे आयोजिते राज्यस्तरीये धान-महोत्सव-कार्यक्रमे सहभागं करिष्यति। अस्मिन् कार्यक्रमे मुख्यमन्त्री डॉ.यादवः जनपदाय विकासस्य कृषक-कल्याणस्य च योजनाः समर्पयिष्यति।
जनसम्पर्क-अधिकारी राजेश-परते इत्यनेन सूचितं यत् महोत्सवे कोदो-कुटकी-उत्पादक-कृषकेभ्यः प्रोत्साहन-राशेः अन्तरणं, ४९४.१६१ कोटि-रूप्यक-मूल्यानां ६२९ विकास-कार्याणां लोकार्पणं भूमिपूजनं च, हितग्राहिभ्यः हितलाभ-वितरणं च भविष्यति। अस्मिन्नवसरे राजस्वमन्त्री करणसिंह-वर्मा, कृषिमन्त्री ऐदलसिंह-कंशाना, सांसदः फग्गनसिंह-कुलस्ते, भारती-पारधी च अन्ये जनप्रतिनिधयश्च उपस्थिताः भविष्यन्ति।
सः अवदत् यत् मुख्यमन्त्री डॉ.यादवः महोत्सवे राज्यस्य कोदो-कुटकी-उत्पादकेभ्यः ३,९४१ कृषकेभ्यः धनागार-लेखेषु २ कोटि: ८२ लक्षं ९९ सहस्रं ३०० रूप्यकाणां प्रोत्साहन-राशिं एकस्मिन् क्लिक-माध्यमेन अन्तरयिष्यति। एषा राशि: प्रति कुन्तलं १००० रूप्यकाणां-दरेण प्रदीयते, येन श्रीअन्न-उत्पादनस्य संवर्धनं कृषकाणाम् आयवृद्धिश्च भविष्यति।
जनसम्पर्क-अधिकारिणः अनुसारं महोत्सवे विभिन्न-विभागैः विषयाधारित-विकास-प्रदर्शिनी आयोजिता भविष्यति। प्रदर्शिन्यां धान्य-वपनस्य आधुनिक-कृषि-यन्त्राणि, प्राकृतिक-कृषिः, प्राकृतिक-उद्यानानि, कस्टम्-हायरिङ्ग-केन्द्राणि, जीआई-टैग-प्राप्त-उत्पादाः, मिलेट्-उत्पादाः, पीएमएफएमई-उत्पादाः, आम्रस्य विभिन्न-प्रकाराः, स्व-सहायता-समूहैः निर्मितानि हस्तशिल्प-मृत्तिका-कला-उत्पादानि, लघु-वनोपजाः, स्थानीय-उद्यमिनां उत्पादाः, पोषण-आहार-प्रदर्शिनी, डिजिटल-भूमि, कृषिका-अनुप्रयोगः तथा कृषक-ऋण-पत्रेण सम्बन्धिनी सूचना प्रदर्शिता भविष्यति। प्रदर्शिनी-परिसरे आकर्षकः सेल्फी-बिन्दुः अपि सामान्यजनानां कृते विशेषाकर्षणं भविष्यति।
Hindusthan Samachar / Divya Ranjan