जल-संरक्षणे मध्यप्रदेशेन कीर्तिमानः स्थापितः, ३.६३-लक्षाधिक-जलसंरचनाभिः देशे अग्रणी-राज्यम् अभवत्
भोपालनगरम्, ०१ जुलाईमासः (हि.स.)। मध्यप्रदेशे सञ्चालितं ‘जल-गङ्गा-संवर्धन-अभियानम्’ ३० जून-दिने सम्पन्नम्। अस्मिन् अभियाने जनसहभागितया ३ लक्ष ६३ सहस्राधिक-जलसंरचनानां निर्माणं जीर्णोद्धारश्च कृतः। सामाजिक-माध्यमानां माध्यमेन प्रायः ७-कोटि-परिवारपर्
मुख्यमंत्री डॉ. मोहन यादव (फाइल फोटो)


मुख्यमंत्री डॉ. मोहन यादव (फाइल फोटो)


भोपालनगरम्, ०१ जुलाईमासः (हि.स.)। मध्यप्रदेशे सञ्चालितं ‘जल-गङ्गा-संवर्धन-अभियानम्’ ३० जून-दिने सम्पन्नम्। अस्मिन् अभियाने जनसहभागितया ३ लक्ष ६३ सहस्राधिक-जलसंरचनानां निर्माणं जीर्णोद्धारश्च कृतः। सामाजिक-माध्यमानां माध्यमेन प्रायः ७-कोटि-परिवारपर्यन्तं सम्पर्कः स्थापितः, जल-संरक्षणे जनसहभागितायाः नूतनः कीर्तिमानश्च स्थापितः।

जनसम्पर्क-अधिकारी अनुराग-उइके बुधवासरे अवदत् यत् मुख्यमन्त्रिणः डॉ. मोहन-यादवस्य कुशल-नेतृत्वे परम्परागत-जलस्रोतसां पुनर्जीवनं भावि-वंशानां कृते जल-सुरक्षायाः सुनिश्चितीकरणं च मुख्य-उद्देश्यं कृत्वा सञ्चालितम् ‘जल-गङ्गा-संवर्धन-अभियानम्’ सामाजिक-माध्यमानां साहाय्येन प्रदेशस्य सह देशस्य विदेशस्य च प्रायः ७-कोटि-परिवारपर्यन्तं स्वस्य सन्देशं प्रापयित्वा जनसहभागितायाः नूतनम् इतिहासम् अलिखत्। आगामि-वर्षाकाले अल्प-वृष्टेः सम्भावनां दृष्ट्वा जलस्य प्रत्येक-बिन्दोः संरक्षणाय आरब्धम् एतत् महदभियानं ३० जून २०२६ दिनाङ्के भव्यतया सम्पन्नम्। प्रधानमन्त्री नरेन्द्र-मोदिनः मार्गदर्शनेन मुख्यमन्त्रिणः डॉ.मोहन-यादवस्य दृढ-सङ्कल्पेन च एतदभियानं केवलं सर्वकारीय-कार्यक्रमः न भूत्वा वैश्विक-जनान्दोलनरूपेण प्रतिष्ठितम्।

सः अवदत् यत् अस्मै महाभियानाय सामाजिक-माध्यमेषु विविध-डिजिटल-मञ्चेषु च जनानाम् अभूतपूर्वं समर्थनम् अलभत। एक्स, फेसबुक, इन्स्टाग्राम तथा यूट्यूब इत्यादिषु मञ्चेषु सर्वकारस्य आधिकारिक-माध्यमैः प्रतिदिनं जागरूकता-पत्राणि, लघु-चलच्चित्राणि, सूचना-चित्राणि च प्रसारितानि। #जल_गङ्गा_संवर्धन_अभियान, #जल_अस्ति_चेत्_भविष्यत्_अस्ति, #WaterConservation तथा #SaveWater इत्यादि-हैशटैग-माध्यमेन जल-संरक्षणस्य सन्देशः प्रदेशे देशे च सर्वत्र प्रसारितः, येन समग्रतः ६,९५,७४,८२० अधिक-जनान् प्रति अस्य अभियानस्य डिजिटल-सम्पर्कः सुनिश्चितः अभवत् तथा जनाः प्रत्यक्षतया जलस्रोतः-संरक्षण-अभियाने सम्बद्धाः अभवन्।

जनसम्पर्क-अधिकारी अवदत् यत् मुख्यमन्त्रिणः डॉ.मोहन-यादवस्य सतत-अनुश्रवणेन विशेष-डिजिटल-डैशबोर्ड-इत्यस्य माध्यमेन च समग्रे राज्ये अभिलेख-स्तरे कार्याणि सम्पन्नानि। समग्रे प्रदेशे १०,५१४-कोटि-रूप्यक-व्ययेन ३.६३-लक्षाधिक-जलसंरचनानां निर्माणं जीर्णोद्धारश्च सम्पन्नः। भूजल-संवर्धनस्य प्रोत्साहनाय अभिलेख-समये ६७,७०८ क्षेत्र-तडागाः, २२५ अमृत-सरोवराणि तथा ९७,६१४ कूप-पुनर्भरण-संरचनाः निर्मिताः। एतदतिरिक्तं १०,००० अधिक-कूपानां, नदीनां, प्राचीन-बावडीनां च शोधनं सौन्दर्यीकरणं च कृत्वा ताः अतिक्रमणात् मुक्ताः कृताः। एतेषां प्रामाणिक-कार्याणां फलतः मध्यप्रदेशः जल-संरक्षणे देशस्य अग्रणी-राज्यम् अभवत्।

सः अवदत् यत् मुख्यमन्त्री डॉ. मोहन-यादवः स्वयं विविध-जनपदान् भ्रमित्वा श्रमदानम् अकरोत् तथा समाजस्य सर्वान् वर्गान् प्रेरितवान्। १९ मार्च २०२६ दिनाङ्के इन्दौरनगरात् अभियानस्य तृतीय-चरणस्य शुभारम्भात् आरभ्य धार-जनपदे देवी-सागर-तडागस्य गभीरीकरणम्, उज्जयिन्यां शिप्रा-तीर्थ-परिक्रमायाः आयोजनम्, भोपाले ‘सदानीरा-समागमः’, राजगढ-जनपदे समापन-समारोहः च यावत् सः सक्रिय-सहभागितां कृतवान्। मुख्यमन्त्री पुनः सङ्कल्पम् अकरोत् यत् ‘जलम् अस्ति चेत् भविष्यत् अस्ति’, अतः जल-संरक्षणस्य कार्याणि भविष्येऽपि निरन्तरं प्रवर्तिष्यन्ते। अभियानस्य समापनानन्तरम् पर्यावरण-संरक्षणाय ‘एकः पादपः मातुः नाम्ना’ इति वृक्षारोपण-अभियानस्य तथा १ जुलाईमासात् ‘विकसित-भारत–ग्रामीण-रोजगार-आजीविका-अभियानस्य’ अपि भव्य-शुभारम्भः कृतः।

जल-संरक्षणस्य जनसहभागितायाश्च एतेन अभियानेन मध्यप्रदेशः देशस्य अग्रणी-राज्यानां श्रेण्यां प्रतिष्ठितः। खण्डवा-जनपदः जल-सञ्चयन-क्षेत्रे देशस्य प्रथम-जनपदरूपेण प्रदेशस्य गौरवं वर्धितवान्। ‘जल-गङ्गा-संवर्धन-अभियानेन’ एतत् सिद्धं कृतं यत् यदा सर्वकारः समाजश्च सहकार्यं कुर्वन्ति, तदा जल-संरक्षणं केवलं योजना न भवति, अपितु जनसहभागितया सशक्तं जनान्दोलनं भवति।

Hindusthan Samachar / Divya Ranjan