माता-शारदा-मेलापक-परिसरे पॉलिथीन-उपयोगः पूर्णतया निषिद्धः, निषिद्ध-प्लास्टिक-प्रयोगे ५००-रूप्यकाणां दण्डः भविष्यति
मैहरनगरम्, ०१ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मैहर-जनपद-प्रशासनेन पर्यावरण-संरक्षणस्य स्वच्छतायाः च संवर्धनार्थं माता-शारदा-देव्याः मेलापक-परिसरे एकवार-उपयोगी-प्लास्टिक-इत्यस्य तथा पॉलिथीन-इत्यस्य उपयोगे पूर्ण-प्रतिबन्धः प्रवर्तितः। बुधवासरात् आरभ
फोटो मां के मंदिर की


मैहरनगरम्, ०१ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मैहर-जनपद-प्रशासनेन पर्यावरण-संरक्षणस्य स्वच्छतायाः च संवर्धनार्थं माता-शारदा-देव्याः मेलापक-परिसरे एकवार-उपयोगी-प्लास्टिक-इत्यस्य तथा पॉलिथीन-इत्यस्य उपयोगे पूर्ण-प्रतिबन्धः प्रवर्तितः। बुधवासरात् आरभ्य अस्य नियमस्य प्रवर्तनं जातम्। तेन सह ‘प्लास्टिकं पराजेतव्यम्, मैहरं विजेतव्यम्’ इति अभियानस्य अपि शुभारम्भः अभवत्।

मैहर-जनपदाधिकारिण्या विदिशा-मुखर्जी-महोदयया पूर्वमेव निर्गत-निर्देशानुसारम् अधुना मेलापक-परिसरे १२० माइक्रोनात् न्यून-मोटत्वयुक्तानां पॉलिथीन-वाहक-कोषाणां, एकवार-उपयोगी-प्लास्टिकस्य उपयोगः, विक्रयः, सञ्चयनं वितरणं च पूर्णतया निषिद्धम् अस्ति। प्रशासनेन विक्रेतृभ्यः व्यापारीभ्यश्च प्लास्टिकस्य स्थाने वस्त्र-जूट-कर्गद- अथवा अन्य-पर्यावरण-अनुकूल-द्रव्यैः निर्मितानां कोषाणां उपयोगस्य निर्देशाः दत्ताः।

जनपदाधिकारिणी जनान् अभियाने सक्रिय-सहयोगाय आहूय अवदत् यत् पर्यावरण-संरक्षणं केवलं प्रशासनस्य उत्तरदायित्वं नास्ति, अपितु समाजस्य प्रत्येकस्य जनस्य सहभागिता अपि अनिवार्या अस्ति।

प्रशासनेन चेतावनी प्रदत्ता यत् निषिद्ध-पॉलिथीन-इत्यस्य उपयोगं कुर्वन् यदि कश्चित् दृश्यते, तर्हि तस्मै ५००-रूप्यकाणाम् अर्थदण्डः विधास्यते। तथा निषिद्ध-पॉलिथीन-इत्यस्य विक्रयं सञ्चयनं वा कुर्वतां विक्रेतॄणां विरुद्धं नियमानुसारं कठोर-कार्यवाही करिष्यते।

अधिकारिभिः स्वयमेव प्लास्टिक-इति अपाकृत्य स्वच्छतायाः सन्देशः प्रदत्तः

पॉलिथीन-प्रतिबन्धस्य प्रवर्तनानन्तरं माता-शारदा-देव्याः मेलापक-परिसरे विशेष-स्वच्छता-अभियानम् अपि सञ्चालितम्। अस्मिन् अवसरे प्रशासनिक-अधिकारिभिः स्वयमेव मार्गेषु पतितं प्लास्टिकं पॉलिथीन च सङ्गृह्य जनेभ्यः स्वच्छतायाः पर्यावरण-संरक्षणस्य च सन्देशः प्रदत्तः।

अस्मिन् अभियाने उपजनपदाधिकारिणी दिव्या-पटेल:, तहसीलदारः जितेन्द्र-पटेलः, मुख्य-नगरपालिका-अधिकारी प्रिन्स-अग्रवालः तथा नगरपालिका-जनपद-प्रशासनयोः अधिकारिणः कर्मचारीणश्च उपस्थिताः आसन्। प्रशासनेन उक्तं यत् मेलापक-परिसरं स्वच्छं प्लास्टिक-मुक्तं च कर्तुम् एतत् अभियानं निरन्तरं प्रवर्तिष्यते।

Hindusthan Samachar / Divya Ranjan