Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ०१ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य उपमुख्यमन्त्री राजेन्द्र-शुक्लः अवदत् यत् चिकित्सा-सेवा केवलं व्यवसायः न, अपितु मानवतायाः सर्वोच्चा सेवा अस्ति। सः अवदत् यत् चिकित्सकस्य स्नेहपूर्णाः वाचः, मधुरं स्मितम्, आत्मीयः व्यवहारश्च रोगिणः अर्धं व्याधिं दूरं करोति।
उपमुख्यमन्त्री शुक्लः बुधवासरे रीवानगरे ब्रह्माकुमारी-ईश्वरीय-विश्वविद्यालयेन राष्ट्रिय-चिकित्सक-दिवसस्य अवसरे आयोजितं चिकित्सक-सम्मान-समारोहम् सम्बोधयन् आसीत्। सः महान् चिकित्सकं भारतस्य द्वितीयं राष्ट्रपतिं डॉ.बिधान-चन्द्र-राय-महोदयम् श्रद्धया स्मृत्वा सर्वेभ्यः चिकित्सकेभ्यः राष्ट्रिय-चिकित्सक-दिवसस्य शुभकामनाः अददात्।
उपमुख्यमन्त्री शुक्लः अवदत् यत् समाजः चिकित्सकान् पृथिव्याः भगवान् इव मन्यते तथा तान् सम्मानयति। प्रत्येकं चिकित्सकः प्रत्येकस्मिन् रोगिणि ईश्वरस्य स्वरूपं दृष्ट्वा करुणया, संवेदनशीलतया, समर्पणभावेन च उपचारं कुर्यात्। सः अवदत् यत् चिकित्सा-विज्ञानेन सह मानवीय-संवेदनानां आध्यात्मिक-मूल्यानां च समन्वयेन उपचारः अधिकः प्रभावी भवति। प्रदेशे स्वास्थ्य-सेवानां अधिक-सुदृढीकरणाय जनहितैषिणी-करणाय च राज्य-सर्वकारः निरन्तरं कार्यं करोति।
उपमुख्यमन्त्री शुक्लः वरिष्ठ-चिकित्सकानाम् तथा चिकित्सा-क्षेत्रे उत्कृष्ट-सेवाः प्रदत्तवतां चिकित्सकानां सम्मानम् अकरोत्। तेन डॉ. बी.डी. त्रिपाठी तथा डॉ. नेहा-त्रिपाठी-इत्याभ्यां विरचितस्य दिल की आवाज़ : बच्चों में बढ़ता दृष्टि दोष इति पुस्तकस्य लोकार्पणम् अपि कृतम्।
अस्मिन् कार्यक्रमे ब्रह्माकुमारी-रीवा-केन्द्रस्य क्षेत्रीय-सञ्चालिका बी.के. लता-भगिनी, माउण्ट-आबूतः आगतः बी.के. राजू-भ्राता, चिकित्सा-विद्यालयस्य अधिष्ठाता डॉ.सुनील-अग्रवालः तथा मुख्य-अधीक्षकः डॉ.राहुल-मिश्रः अपि चिकित्सकानां सेवाभावस्य मानवीय-मूल्यानां च महत्त्वविषये स्वविचारान् प्रकटितवन्तः।
Hindusthan Samachar / Divya Ranjan