ऑपरेशन-सद्भावना-इत्यन्तर्गतं भारतीय-सेनया एकमासात्मकं तक्षक-प्रशिक्षणं सम्पन्नम्, १५ युवभ्य: प्रमाणपत्राणि उपकरण-सञ्चिकाश्च प्रदत्ताः
जम्मूनगरम्, ०१ जुलाईमासः (हि.स.)। भारतीय-सेनया ऑपरेशन-सद्भावना-अन्तर्गतं डोडा-जनपदस्य ग्वारी-ग्रामे आयोजितस्य एकमासात्मकस्य तक्षक-प्रशिक्षण-कार्यक्रमस्य समापन-समारोहः आयोजितः। १ जूनमासात् आरब्धस्य अस्य प्रशिक्षणस्य उद्देश्यं दूरस्थ-क्षेत्राणां तथा
एक माह का बढ़ईगीरी प्रशिक्षण संपन्न, 15 युवाओं को मिले प्रमाणपत्र और टूल किट


जम्मूनगरम्, ०१ जुलाईमासः (हि.स.)। भारतीय-सेनया ऑपरेशन-सद्भावना-अन्तर्गतं डोडा-जनपदस्य ग्वारी-ग्रामे आयोजितस्य एकमासात्मकस्य तक्षक-प्रशिक्षण-कार्यक्रमस्य समापन-समारोहः आयोजितः। १ जूनमासात् आरब्धस्य अस्य प्रशिक्षणस्य उद्देश्यं दूरस्थ-क्षेत्राणां तथा आतङ्कवाद-प्रभावित-परिवाराणां युवभ्य: रोजगारोन्मुख-कौशल-प्रदानेन तान् आत्मनिर्भरान् कर्तुम् आसीत्। अस्मिन् प्रशिक्षण-कार्यक्रमे समग्रतः १५ युवान: सहभागिनः अभवन्।

योग्य-प्रशिक्षकस्य मार्गदर्शने प्रतिभागिभ्यः तक्षक-कर्मणः मूलभूत-कौशलानि, विविध-उपकरणानां सुरक्षित-प्रयोगः, कार्यदक्षता, सुरक्षा-मानकाः तथा उपवेशनादि-निर्माणस्य व्यावहारिक-प्रविधयः शिक्षिताः। प्रशिक्षण-अवधौ युवान: स्वैः अर्जित-कौशलैः त्रीणि सङ्गणक-उत्पीठिका: निर्मितवन्तः। ता: कौशल-विकासे सहयोगस्य सम्मान-कृतज्ञतयोः प्रतीकरूपेण बङ्गरू-औद्योगिक-प्रशिक्षण-संस्थायै समर्पिता:।

प्रशिक्षणस्य सफल-समापनानन्तरं सर्वेभ्यः प्रतिभागिभ्यः भारतीय-सेनया तथा आईटीआई-संस्थया प्रमाणीकृतानि प्रमाणपत्राणि तथा तक्षक-उपकरण-सञ्चिकाः प्रदत्ताः, येन ते अर्जित-कौशलस्य उपयोगेन स्वरोजगारम् आरब्धुं समर्थाः भवेयुः।

समापन-समारोहे प्रशिक्षित-युवानः भारतीय-सेनायै कृतज्ञतां प्रकटय्य अवदन् यत् अनेन प्रशिक्षणेन तै: रोजगार-प्राप्तेः आत्मनिर्भरतायाश्च नूतनम् अवसरं प्राप्तम्। तैः विश्वासः व्यक्तीकृतः यत् एतादृशैः प्रयासैः क्षेत्रे यूनां कृते सम्मानजनक-आजीविकायाः नवीन-अवसराः सृज्यन्ते तथा स्थानीय-स्तरे उद्यमितायाः अपि प्रोत्साहनं भविष्यति।

Hindusthan Samachar / Divya Ranjan