श्रीराम जन्मभूमि तीर्थ क्षेत्रसमितेः अध्यक्षो महंत नृत्य गोपाल दासो लखनऊनगरस्य मेदांतायां नियुक्तौ, स्वास्थ्ये च सुधारः
अयोध्या,01 जुलाईमासः (हि. स.) ।अयोध्यायाः श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य अध्यक्षः श्रीमणिरामदासछावनीमठस्य महन्तः नृत्यगोपालदासमहाराजस्य स्वास्थ्यं अस्वस्थं जातम्। तस्मात् सोमवासरे तं लखनऊनगरस्थिते मेदांता चिकित्सालये प्रविष्टवन्तः। तस्य एकः शि
महंत नृत्य गोपाल दास


अयोध्या,01 जुलाईमासः (हि. स.) ।अयोध्यायाः श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य अध्यक्षः श्रीमणिरामदासछावनीमठस्य महन्तः नृत्यगोपालदासमहाराजस्य स्वास्थ्यं अस्वस्थं जातम्। तस्मात् सोमवासरे तं लखनऊनगरस्थिते मेदांता चिकित्सालये प्रविष्टवन्तः। तस्य एकः शिष्यः अवदत् यत् महाराजाय जन्मोत्सवकार्यक्रमे संक्रमणम् अभवत्। स्वास्थ्यसम्बद्धसमस्याभिः सः पीडितः आसीत्। मेदांता चिकित्सालये वैद्यानां दलं तस्य चिकित्सां कुर्वन्ति तथा तस्य स्वास्थ्ये निरन्तरं सुधारः भवति। तथापि सम्पूर्णस्वास्थ्यलाभाय किञ्चित्कालः अपेक्षितः भविष्यति।

-----

Hindusthan Samachar / Dheeraj Maithani