Enter your Email Address to subscribe to our newsletters

बिलासपुरम् 01 जुलाईमासः (हि.स.)।
जनपदे नवीनशैक्षणिकसत्रस्य शुभारम्भावसरे जिलास्तरीयशालाप्रवेशोत्सवस्य आयोजनम् अद्य बुधवासरे जुलाईमासस्य प्रथमदिने प्रातः एकादशवादनात् सेजेस लालबहादुरशास्त्री उच्चतरमाध्यमिकविद्यालयस्थिते पण्डितदेवकीनन्दनदीक्षितसभाभवने भविष्यति। कार्यक्रमस्य मुख्यातिथिः केन्द्रीयराज्यमन्त्री तोखन साहू भविष्यति तथा कार्यक्रमस्य अध्यक्षतां उपमुख्यमन्त्री अरुण साव करिष्यति।
कार्यक्रमे विशिष्टातिथिरूपेण विधायकाः अमर अग्रवाल धरमलाल कौशिक धर्मजीत सिंह सुशान्त शुक्ल अटल श्रीवास्तव दिलीप लहरिया च उपस्थिताः भविष्यन्ति। एतदतिरिक्तं महापौरा पूजा विधानी जिलापञ्चायताध्यक्षः राजेश सूर्यवंशी जिलापञ्चायतोपाध्यक्षा ललिता सन्तोष कश्यप च कार्यक्रमे सहभागिनः भविष्यन्ति। शालाप्रवेशोत्सवस्य अवसरे विद्यार्थिनां तिलकं कृत्वा पुष्पाणि समर्प्य आत्मीयस्वागतं क्रियते। विद्यार्थिनः शिक्षायाः प्रति प्रेरिताः भविष्यन्ति तथा नियमिताध्ययनस्य अनुशासनस्य च सन्देशः प्रदास्यते।
Hindusthan Samachar / Dheeraj Maithani