Enter your Email Address to subscribe to our newsletters

नवादानगरम्, ०१ जुलाईमासः (हि.स.)। राष्ट्रीय-चिकित्सक-दिवसस्य अवसरे बुधवासरे गुलमोहर-यूनिक-विद्यालयस्य छात्रैः छात्राभिश्च नवादानगरस्य प्रतिष्ठित-चिकित्सकान् प्रति सम्मानं कृतज्ञता च प्रकटिता। अस्मिन् अवसरे नवादानगरस्य प्रख्यातः फिजिशियन-गैस्ट्रोलॉजिस्टः डॉ. ए.के.अरुणः, अस्थि-रोग-विशेषज्ञः डॉ. राघव-राजः, स्त्री-प्रसूति-रोग-विशेषज्ञा डॉ. अमिता-आजाद च पुष्पगुच्छैः अङ्गवस्त्रैश्च सम्मानिताः। चिकित्सक-दिवसस्य उपलक्ष्ये केक-कर्तनं कृत्वा हर्षः अपि समविभक्तः।
तदनन्तरं विद्यार्थिनः चिकित्सालयस्य शैक्षणिक-भ्रमणम् अकुर्वन्। तत्र तेभ्यः सीटी-स्कैन, एक्स-रे, अल्ट्रासाउण्ड तथा शल्य-चिकित्सा-कक्षे उपयुज्यमानानां आधुनिक-चिकित्सा-यन्त्राणां कार्यप्रणाल्याः महत्त्वस्य च विषये जानकारी प्रदत्ता। बालकैः चिकित्सकेभ्यः स्वास्थ्य-सम्बद्धाः अनेकाः प्रश्नाः अपि पृष्टाः, येषां सरल-रोचक-रीत्या उत्तराणि तैः प्रदत्तानि।
अस्मिन् अवसरे डॉ. ए.के. अरुणः अवदत् यत् चिकित्सकस्य कार्यं केवलं व्याधीनाम् उपचारः न, अपितु स्वस्थस्य जागरूकस्य सशक्तस्य च समाजस्य निर्माणे महत्त्वपूर्णां भूमिकां निर्वहणमपि अस्ति।
तेन उक्तं यत् रोगिणां विश्वासः एव कस्यापि चिकित्सकस्य महत्तमा सम्पत्तिः भवति, तस्य विश्वासस्य संरक्षणं च प्रत्येकं चिकित्सकस्य नैतिकं दायित्वम् अस्ति।
सः जनान् सम्यक्-आहारस्य, नियमित-व्यायामस्य, स्वच्छतायाः, पर्याप्त-निद्रायाः, समये समये स्वास्थ्य-परीक्षणस्य च पालनाय प्रार्थितवान्। तेन उक्तं यत् स्वस्थ-जीवनशैली एव अनेकाभ्यः गम्भीर-व्याधिभ्यः रक्षणस्य प्रभावितमः उपायः अस्ति। तेन विद्यार्थिनः अपि स्वपरिवारे समाजे च स्वास्थ्य-जागरूकतायाः सन्देशं प्रसारयितुम् आहूताः।
डॉ. राघव-राजः तथा डॉ.अमिता-आजाद: अवदताम् यत् बालकेषु चिकित्सा-विज्ञानस्य प्रति जिज्ञासायाः स्वास्थ्यस्य प्रति जागरूकतायाश्च विकासः अत्यावश्यकः अस्ति। विद्यालयेन आयोजितः अयं प्रयत्नः प्रशंसनीयः, यतः अनेन विद्यार्थिभ्यः चिकित्सा-क्षेत्रस्य समीपतः अवगमनस्य अवसरः लभ्यते, सेवाभावनायाश्च विकासः भवति।
अस्मिन् अवसरे विद्यालयस्य निदेशकः प्रमोद-कुमारः, प्राचार्या नेहा, शिक्षकः रौशन-कुमारः, खुशी-कुमारी, मुस्कान, मुरारी, अञ्जलिः इत्यादयः विद्यालय-परिवारस्य अन्ये सदस्याश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan