Enter your Email Address to subscribe to our newsletters

-एसआईटीदलाय 15 जुलाईपर्यन्तं प्रतिवेदनं दातुं निर्देशः
लखनऊ, 01 जुलाईमासः (हि.स.)। मुख्यमन्त्रिणा योगिना आदित्यनाथेन अयोध्यातीर्थक्षेत्रस्य दानप्रकरणस्य अन्वेषणं कुर्वतः विशेषअन्वेषणदलस्य समयसीमा जुलैमासस्य पञ्चदशदिनाङ्कपर्यन्तं विस्तृता। प्रकरणस्य विभिन्नपक्षाणां सविस्तरपरीक्षणार्थं विशेषअन्वेषणदलेन मुख्यमन्त्रिणः अतिरिक्तसमयस्य अनुरोधः कृतः आसीत्। तम् अनुरोधं स्वीकृत्य मुख्यमन्त्री विशेषअन्वेषणदलाय आगामी पञ्चदशजुलैदिनाङ्कपर्यन्तं स्वप्रतिवेदनं समर्पयितुं निर्देशं दत्तवान्। एषा सूचना मुख्यमन्त्रीकार्यालयेन प्रदत्ता।
श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य अनुरोधेन विशेषअन्वेषणदलस्य गठनं कृतवान् मुख्यमन्त्री योगी आदित्यनाथः पूर्वमेव स्पष्टीकृतवान् यत् विशेषअन्वेषणदलम् अस्मिन् प्रकरणे प्रत्येकं पक्षं सघनतया निष्पक्षतया च परीक्षिष्यति तथा सत्यस्य पूर्णोद्घाटनं करिष्यति। दोषिणः कस्मिन्नपि परिस्थितौ न क्षमिष्यन्ते।
गत तेविंशतिदिनाङ्के जूनमासे विशेषअन्वेषणदलस्य प्रमुखसदस्यः लखनऊमण्डलायुक्तः विजय विश्वास पन्तः स्वस्य प्रारम्भिकप्रतिवेदनं गृहविभागाय समर्पितवान्। तस्मिन् प्रतिवेदने कठोराः संस्तुतयः कृताः आसन्। एतासां संस्तुतीनां आधारेण गत पञ्चविंशतिदिनाङ्के जूनमासे न्यासस्य सदस्येन कृष्णमोहननाम्ना प्रदत्तायाः लिखितपरिवादस्य आधारेण श्रीरामजन्मभूमिथानके प्रथमा प्राथमिकी अभिलेखिता। तस्यां अष्टौ नामनिर्दिष्टाः व्यक्तयः अन्ये च अज्ञातव्यक्तयः अभियुक्ततया निर्दिष्टाः। सर्वे नामनिर्दिष्टाः अभियुक्ताः गृहीताः सन्ति।-------------
Hindusthan Samachar / Dheeraj Maithani