Enter your Email Address to subscribe to our newsletters

सहारनपुरनगरम्, ०१ जुलाईमासः (हि.स.)। मुख्यमन्त्री योगी-आदित्यनाथः बुधवासरे इस्माइलपुर-उच्च-प्राथमिक-समन्वित-विद्यालयात् राज्यव्यापिनः “विद्यालयं चल” अभियानस्य द्वितीय-चरणस्य (१–१५ जुलाई) शुभारम्भम् अकरोत्। तेन अभिभावकान् प्रति आह्वानं कृतं यत् ते स्वबालकान् अवश्यमेव विद्यालयं प्रेषयन्तु। तेन उक्तं यत् शिक्षा व्यक्तेः, समाजस्य, राष्ट्रस्य च सुदृढा आधारशिला अस्ति। उत्तमा शिक्षा एव सुसंस्कृतान् सभ्यान् च नागरिकान् निर्माति, सम्यग्मार्गं च प्रदर्शयति। अस्याः प्रभावेण समाजसेविनः, अध्यापकाः, प्रधानाचार्याः, जनप्रतिनिधयः, अधिकारिणः, उद्यमिनः, अभियन्तारः, चिकित्सकाः, न्यायिक-अधिकारिणश्च निर्मीयन्ते। देशस्य भावि-वंशं शिक्षया आत्मविश्वासेन परिपूर्णा भूत्वा समाजस्य राष्ट्रस्य च निर्माणे स्वकर्तव्यं सम्यक् निर्वहिष्यति।
नीयतिः शुद्धा आसीत्, अतः परिणामाः अपि श्रेष्ठाः अभवन्
मुख्यमन्त्री अवदत् यत् २०१७ तमे वर्षे प्रधानमन्त्री नरेन्द्र-मोदी-महोदयस्य मार्गदर्शनेन प्रेरणया च प्रदेश-सर्वकारेण “विद्यालयं चल” अभियानम् आरब्धम्। सर्वकारस्य नीयतिः शुद्धा आसीत्, अतः तस्य परिणामाः अपि श्रेष्ठाः अभवन्। शिक्षोन्नयनाय सर्वकारस्य नीति: स्पष्टा आसीत्। भेदभावं विना प्रत्येकं बालकं योजनानां लाभेन लाभान्वितुं सङ्कल्पः कृतः। २०१७ तमे वर्षे प्राथमिक-शिक्षा-परिषदः केवलं षट्त्रिंशत्-प्रतिशतम् विद्यालयानि एव आवश्यक-सुविधाभिः सम्पन्नानि आसन्। तस्मिन् काले शौचालयः, पेयजलम्, उपवेशन-सामग्री, ग्रन्थालयः, विद्युत्-व्यवस्था, मध्याह्न-भोजनम् इत्यादीनां समुचित-व्यवस्था नासीत्। ततः “ऑपरेशन-कायाकल्प” अभियानं सञ्चालयित्वा जनप्रतिनिधिभ्यः, उद्यमिभ्यः, अधिकारिभ्यश्च आह्वानं कृतं यत् परिषद्-विद्यालयेषु सर्वाः आवश्यक-सुविधाः उपलब्धाः क्रियन्ताम्।
पञ्च-वर्षेषु षण्णवतिः-प्रतिशताधिक-विद्यालयानां संतृप्तीकरणम् अभवत्
मुख्यमन्त्री अवदत् यत् प्रत्येकस्मिन् विद्यालये बालकानां बालिकानां च पृथक् शौचालयौ, पेयजल-व्यवस्था, नियमितं मध्याह्न-भोजनम्, स्मार्ट-कक्षा, डिजिटल-ग्रन्थालयः, वेशभूषा, विद्यालय-पुटकाः, पुस्तकानि इत्यादयः सर्वाः सुविधाः उपलब्धाः क्रियेरन्। विद्यार्थी-शिक्षकयोः अनुपातः अपि सम्यक् कृतः। अस्य अभियानस्य परिणामस्वरूपं परिषद्-विद्यालयानां संतृप्तीकरणं षट्त्रिंशत्-प्रतिशततः वर्धमानं पञ्च-वर्षेषु षण्णवतिः-प्रतिशताधिकम् अभवत्। प्रत्येकं बालकं विद्यालय-पुटकं, पुस्तकानि, उपानहौ, ऊर्णावस्त्रं, वेशभूषां च प्राप्तवान्। तेन नामाङ्कनस्य वृद्धिरभवत्। नव-वर्षेषु षष्टि-लक्षाधिकाः बालकाः परिषद्-विद्यालयेषु नामाङ्किताः, विद्यालय-त्याग-दरः अपि विंशति-प्रतिशततः न्यूनीभूय त्रि-चतुः-प्रतिशतम् अभवत्।
विद्यालयात् वञ्चितः बालकः समाजस्य राष्ट्रस्य च हानिः
मुख्यमन्त्री अवदत् यत् स्वस्थ-समाजस्य निर्माणाय आवश्यकम् अस्ति यत् कश्चिदपि बालकः शिक्षायाः अवसरात् वञ्चितः न भवेत्। यदि कश्चित् बालकः शिक्षां न प्राप्नोति तर्हि सा केवलं तस्य कुलस्य न, अपितु समाजं राष्ट्रं च क्षतिः अस्ति। एतेषामेव बालकानां भविष्ये समाजस्य विविध-क्षेत्रेषु नेतृत्वं भविष्यति। यदि बालकः अशिक्षितः भवति तर्हि सः दिग्भ्रान्तः भूत्वा समाजस्य राष्ट्रस्य च अपरिमेयां हानिं करिष्यति। अतः राष्ट्रस्य कर्तव्यनिष्ठ-नागरिकान् निर्मातुं सर्वैः प्रयत्नः करणीयः।
सर्वेषां दायित्वम्— कश्चिदपि बालकः विद्यालयात् वञ्चितः मा भवतु
मुख्यमन्त्री विकसित-भारतस्य संकल्पं सफलीकर्तुं समाजस्य सर्वान् जागरूक-नागरिकान् आहूतवान्। तेन उक्तं यत् एतत् दायित्वं केवलं तेषां परिवाराणां नास्ति येषां बालकाः सन्ति। राजनेतारः, सांसदाः, विधायकाः, पार्षदाः, खण्ड-प्रमुखाः, ग्राम-प्रधानाः, जनपद-पञ्चायत-अध्यक्षाः, अधिकारिणः, अध्यापकाः, अधिवक्तारः, वणिजः, चिकित्सकाः तथा समाजस्य प्रत्येकः वर्गः सुनिश्चितं कुर्यात् यत् कश्चिदपि बालकः विद्यालय-गमनात् वञ्चितः न भवेत्। प्रत्येकं बालकं विद्यालयं नेतुं सर्वेषां सामाजिकं दायित्वं राष्ट्रीयं कर्तव्यं च अस्ति।
“विद्यालयं चल” अभियानं जनान्दोलनस्य रूपेण विकसितं भवतु
मुख्यमन्त्री समाजस्य सर्वेभ्यः वर्गेभ्यः आह्वानं कृतवान् यत् “विद्यालयं चल” अभियानं जनान्दोलनस्य रूपेण स्वीकृत्य प्रत्येकं बालकं विद्यालयं प्रापयन्तु। परिषद्-विद्यालयानां प्रधानाचार्याणाम् अध्यापकानां च दायित्वम् अस्ति यत् नवप्रविष्ट-विद्यार्थिभ्यः समये वेशभूषा-धनराशिः, विद्यालय-पुटकाः, पुस्तकानि, उपानहौ तथा अन्याः आवश्यक-सुविधाः प्रदीयेरन्, उत्कृष्टः अध्ययन-अध्यापन-परिवेशश्च निर्मीयेत।
प्रत्येकस्मिन् विद्यालये आधुनिक-सुविधाः उपलब्धाः क्रियन्ते
मुख्यमन्त्री अवदत् यत् सर्वकारः प्रत्येकस्मिन् विद्यालये स्मार्ट-कक्षाः, डिजिटल-ग्रन्थालयान्, अध्यापकानां कृते टेबलेट्-यन्त्राणि तथा अन्याः आधुनिक-सुविधाः उपलब्धाः करोति। परिषद्-विद्यालयेषु लक्षाधिक-पञ्चाशत्-सहस्राधिकेभ्यः दिव्याङ्ग-बालकेभ्यः सहायक-उपकरणानि अपि प्रदत्तानि। गत-वर्षे त्रयोदश-सहस्राधिकेभ्यः गम्भीर-दिव्याङ्ग-बालकेभ्यः प्रतिवर्षं षट्सहस्र-रूप्यकाणां एस्कॉर्ट-भत्ता, त्रयोविंशति-सहस्राधिकाभ्यः दिव्याङ्ग-बालिकाभ्यश्च द्विसहस्र-रूप्यकाणां छात्रवृत्तिः प्रदत्ता।
शिक्षा-क्षेत्रे उत्तरप्रदेश-सर्वकारः निरन्तरं कार्यरतः
मुख्यमन्त्री अवदत् यत् प्रधानमन्त्री नरेन्द्र-मोदी-महोदयेन २०२० तमे वर्षे राष्ट्रीय-शिक्षा-नीतिः प्रवर्तिता। षड्विंशति-वर्षाणाम् अनन्तरं भारतेन एषा नीतिः घोषिताभवत्। “लर्निङ्ग-बाय-डूइङ्ग” कार्यक्रमस्य माध्यमेन प्रारम्भिक-स्तरे एव कौशल-आधारित-शिक्षा प्रदीयते। प्रदेश-सर्वकारेण शिक्षामित्राणां मानदेयं दश-सहस्र-रूप्यकेभ्यः अष्टादश-सहस्र-रूप्यकाणि, अनुदेशकानां मानदेयं नव-सहस्र-रूप्यकेभ्यः सप्तदश-सहस्र-रूप्यकाणि वर्धितानि। शिक्षामित्रेभ्यः, अध्यापकेभ्यः, प्रधानाचार्येभ्यः, पाचकेभ्यः, अनुदेशकेभ्यश्च प्रतिवर्षं पञ्च-लक्ष-रूप्यकाणां नगदरहित-चिकित्सा-सुविधा अपि प्रदत्ता।
मुख्यमन्त्री अध्यापकेभ्यः— अग्रिमानि पञ्चदश-दिनानि परिश्रमेण कार्यं कुर्वन्तु
मुख्यमन्त्री अध्यापकान् प्रति आह्वानं कृतवान् यत् आगामिनः पञ्चदश-दिनानि परिश्रमेण कार्यं कुर्वन्तु। ग्राम-पञ्चायतिषु, वार्डेषु च गत्वा प्रत्येकं परिवारं सम्पर्कयन्तु, स्वस्थ-स्पर्धया अधिकाधिकान् बालकान् विद्यालयम् आनयन्तु। विद्यालयेषु उत्कृष्टं वातावरणं निर्मीयताम्। बालकाः स्नेहेन कविताभिः, गीतैः, लोकोक्तिभिः, मुहावरैश्च शिक्ष्यन्ताम्, यत् एषा शिक्षा तेषां जीवने चिरकालं स्मरणीया भविष्यति।
मातु: शाकम्भर्याः विशेषा कृपा वर्तते
मुख्यमन्त्री अवदत् यत् “विद्यालयं चल” अभियानस्य द्वितीय-चरणस्य शुभारम्भः माता शाकम्भरी-देव्याः पवित्र-भूमौ भवति। एषा दैवी-कृपैव यत् गत-रात्रेः आरभ्य सम्यक् वर्षा अभवत्। एषा वर्षा कृषकाणां कृते हितकरा, उष्णतायाः शमनकारिणी च अस्ति। माता शाकम्भर्याः विशेषा कृपा सर्वेषु वर्तते।
अस्मिन् अवसरे प्राथमिक-शिक्षा-मन्त्री सन्दीप-सिंहः, राज्यमन्त्री जसवन्त-सिंह-सैनी, कुँवर-बृजेश-सिंहः, विधायकाः मुकेश-चौधरी, राजीव-गुम्बरः, देवेन्द्र-कुमार-नीमः, पूर्व-सांसदः राघव-लखनपालः, प्रदीप-चौधरी, सिडको-संस्थायाः अध्यक्षः वाईपी-सिंहः, भाजपायाः जनपदाध्यक्षः अजीत-राणा इत्यादयः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan