महोबा-जनपदे सञ्चारी-रोग-नियन्त्रण-अभियानस्य शुभारम्भः, गृहं गृहं गत्वा दलानि जनान् जागरूकान् करिष्यन्ति
महोबानगरम्, ०१ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य महोबा-जनपदे सञ्चारी-रोग-नियन्त्रण-अभियानस्य शुभारम्भस्य अवसरे बुधवासरे मुख्य-चिकित्साधिकारी डॉ.विनय-कुमारः तथा जनपद-योजना-समिति-सदस्या साधना-गुप्ता संयुक्तरूपेण हरित-ध्वजं प्रदर्श्य जनजागरूकतायै प्रच
प्रचार वाहन को हरी झंडी दिखाते सीएमओ


महोबानगरम्, ०१ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य महोबा-जनपदे सञ्चारी-रोग-नियन्त्रण-अभियानस्य शुभारम्भस्य अवसरे बुधवासरे मुख्य-चिकित्साधिकारी डॉ.विनय-कुमारः तथा जनपद-योजना-समिति-सदस्या साधना-गुप्ता संयुक्तरूपेण हरित-ध्वजं प्रदर्श्य जनजागरूकतायै प्रचार-यानं प्रेषितवन्तौ। सहैव गृहं गृहं गत्वा कार्यं कुर्वन्तीनां दलानां सहयोगाय जनानाम् अपि आह्वानं कृतम्।

मुख्य-चिकित्साधिकारी डॉ.विनय-कुमारः कार्यक्रमे अवदत् यत् अद्य एक-जुलाई-दिनाङ्कात् एकत्रिंशत्-जुलाई-दिनाङ्कपर्यन्तं “सञ्चारी-रोग-नियन्त्रण-अभियानम्”, तथा एकादश-जुलाई-दिनाङ्कात् एकत्रिंशत्-जुलाई-दिनाङ्कपर्यन्तं “दस्तक-अभियानम्” समकालमेव सञ्चाल्यते। अस्य उद्देश्यम् डेंगू, मलेरिया, चिकुनगुनिया, फाइलेरिया, जापानी-मस्तिष्कशोथः तथा कालाजारः इत्यादीनां सञ्चारी-रोगाणां निवारणं जनजागरूकतायाश्च अभिवृद्धिः अस्ति। सीएमओ महोदयेन उक्तं यत् आशा-कार्यकर्त्रियः एएनएम-कर्मचारिण्यश्च गृहे गृहे गत्वा ज्वर-पीडितानां परीक्षणं, लार्वा-सर्वेक्षणं, स्रोत-नियन्त्रणं, औषध-वितरणं च करिष्यन्ति।

सञ्चारी-रोग-नियन्त्रण-अभियाने स्वास्थ्य-विभागस्य, नगर-विकास-विभागस्य, पञ्चायती-राज-विभागस्य, शिक्षा-विभागस्य, कृषि-विभागस्य, पशुपालन-विभागस्य तथा सूचना-विभागस्य संयुक्त-सहभागिता भविष्यति। अस्मिन् अवसरे महिला-चिकित्सालयस्य सीएमएस डॉ.आर.के.चौरिहा, जनपद-मलेरिया-अधिकारी अन्ये अधिकारिणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan