पीएम-सीएम-आवास-योजनयोः लम्बित-प्रकरणानां शीघ्रं निस्तारणं क्रियताम् - जनपदाधिकारिणी
महोबानगरम्, ०१ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य महोबा-जनपदस्य जनपदाधिकारिण्याः गजल-भारद्वाज-इत्यस्याः अध्यक्षतायां बुधवासरे क्षेत्र-पञ्चायत-निधेः, विगत-वित्तीय-वर्षस्य व्ययस्य, प्रचलित-वित्तीय-वर्षस्य कार्ययोजनायाः तथा विविध-विकास-योजनानां समीक्षो
समीक्षा बैठक में निर्देशित करतीं डीएम गजल भारद्वाज


महोबानगरम्, ०१ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य महोबा-जनपदस्य जनपदाधिकारिण्याः गजल-भारद्वाज-इत्यस्याः अध्यक्षतायां बुधवासरे क्षेत्र-पञ्चायत-निधेः, विगत-वित्तीय-वर्षस्य व्ययस्य, प्रचलित-वित्तीय-वर्षस्य कार्ययोजनायाः तथा विविध-विकास-योजनानां समीक्षोपवेशनम् आयोजितम्। उपवेशने सम्बन्धित-विभागानाम् अधिकारिणः योजनानां प्रगतिविषये अवगतिम् अददुः। जनपदाधिकारिण्या प्रधानमन्त्री-आवास-योजना तथा मुख्यमन्त्री-आवास-योजना-सम्बद्धानां लम्बित-प्रकरणानां शीघ्रं निस्तारणं फैमिली-आईडी-सम्बद्ध-कार्येषु च त्वरित-प्रगतिं सुनिश्चितीकर्तुं निर्देशाः प्रदत्ताः।

बुधवासरे जनपदाधिकारिणी गजल-भारद्वाजः समीक्षायाः समये क्षेत्र-पञ्चायत-निधेः अन्तर्गतं विगत-वर्षे कृतस्य व्ययस्य तथा प्रचलित-वर्षस्य कार्ययोजनायाः विस्तृतम् परीक्षणम् अकरोत्। तया राष्ट्रीय-ग्रामीण-आजीविका-अभियानस्य, ग्राम-निधेः, सांसद-निधेः, विधायक-निधेः, प्रधानमन्त्री-आवास-योजना, मुख्यमन्त्री-आवास-योजना तथा बुन्देलखण्ड-विकास-निधेः अन्तर्गतं सञ्चाल्यमान-कार्याणां प्रगतिः समीक्षिता। सर्वासां योजनानां समयबद्धं गुणात्मकं च क्रियान्वयनं सुनिश्चितीकर्तुं सम्बन्धित-अधिकारिभ्यः निर्देशाः अपि प्रदत्ताः।

अस्मिन् उपवेशने मुख्य-विकास-अधिकारी बलराम-कुमारः, डीडीओ पङ्कज-यादवः, पीडी विपिन-कुमारः, डीपीआरओ तथा सम्बन्धित-विभागानां जनपद-स्तरीय-अधिकारिणः, खण्ड-विकास-अधिकारिणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan