Enter your Email Address to subscribe to our newsletters

दलस्य कार्यकर्तृभिः अनुपमफलकं निर्गतंकृतं ,सामाजिकमाध्यमेषु संजाता चर्चा
वाराणसी,01 जुलाईमासः (हि.स.)। समाजवादीपक्षस्य राष्ट्रीयाध्यक्षस्य उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणः अखिलेश यादवस्य त्रिपञ्चाशत्तमजन्मदिवसस्य अवसरे बुधवासरे पक्षकार्यकर्तारः उल्लासपूर्णे वातावरणे हवनपूजनं दुग्धाभिषेकं च कृत्वा स्वनेतुः दीर्घायुषः पुनः सत्ताप्राप्तेश्च कामनां कुर्वन्ति। नगरे स्थाने स्थाने पक्षकार्यकर्तारः कुत्रचित् पिष्टकं छिन्दन्ति कुत्रचित् चिकित्सालयेषु प्रविष्टेभ्यः रोगिभ्यः फलानि वितरन्ति। अस्यैव क्रमस्य अन्तर्गतं महानगरयुवजनसभा समाजवादीपक्षस्य ध्वजतले वरुणानद्याः शास्त्रीघाटे सूर्योदयसमये सप्त ब्राह्मणाः वैदिकमन्त्रैः सह वरुणानद्याः महाआरार्तिक्यां कृत्वा अखिलेश यादवस्य दीर्घायुषः आरोग्यसम्पन्नजीवनस्य च कामनाम् अकुर्वन्।
वरुणावीथ्याः अपूर्णपरियोजना पुनः राजनैतिकविमर्शस्य केन्द्रे स्थापिता। जन्मदिवसकार्यक्रमस्य माध्यमेन पक्षनेतारः पुनरपि वरुणा कॉरिडोरस्य अपूर्णपरियोजनां राजनैतिकचर्चायाः केन्द्रे नेतुम् अयतन्त। समाजवादीपक्षस्य नेतारः स्मारितवन्तः यत् अखिलेश यादवस्य मुख्यमन्त्रित्वकाले गोमतीनदीतटविकासयोजनायाः आदर्शेन वाराणस्यां वरुणानद्याः पुनरुद्धारस्य वरुणा कॉरिडोरनिर्माणस्य च योजना निर्मिता आसीत्। तेषां आरोपः अस्ति यत् द्विसहस्रसप्तदशवर्षे भाजपासर्वकारस्य आगमनानन्तरं एषा परियोजना उपेक्षिता अभवत्। अखिलेश यादव अपि अनेकसार्वजनिकमञ्चेषु योगी आदित्यनाथसरकारम् अस्य स्वप्नपरियोजनायाः उपेक्षां प्रति आरोपितवान्।
युवजनसभायाः प्रदेशमहासचिवः वरिष्ठसमाजवादीनेता किशन दीक्षित भाजपासरकारस्य नीतिषु प्रश्नान् उत्थापितवान्। तेन आरोपितं यत् प्रदेशस्य नद्यः शुष्यन्ति अथवा मलिननालिकासु परिणताः भवन्ति। तेन उक्तं यत् समाजवादीसरकारस्य अनेकाः जनहितयोजनाः निरुद्धाः सन्ति। किशन दीक्षित उक्तवान् यत् वरुणा असि नद्योः संगमात् अस्य नगरस्य वाराणसी इति नाम अभवत् किन्तु अद्य वरुणानद्याः स्थितिः अत्यन्तं चिन्ताजनका अस्ति। तेन उक्तं यत् गङ्गायाः विकासस्य निर्मलतायाः अविरलप्रवाहस्य च नाम्ना कोटिशः रूप्यकाणि व्ययीकृतानि किन्तु न गङ्गायाः न असिनद्याः न वरुणानद्याः स्थितौ अपेक्षितः सुधारः दृश्यते। तेन अभिहितं यत् वरुणानदी अद्यापि तादृशस्य नेतृत्वस्य प्रतीक्षां करोति यत् तस्याः वास्तविकं पुनर्जीवनं कर्तुं समर्थं भवेत्।
महानगरयुवजनसभायाः अध्यक्षः राहुल गुप्त अखिलेश यादवाय जन्मदिवसस्य शुभकामनाः प्रदाय उक्तवान् यत् समाजवादीपक्षः द्विसहस्रसप्तविंशतिवर्षस्य विधानसभानिर्वाचनं सम्पूर्णशक्त्या योत्स्यते तथा अखिलेश यादवं पुनः मुख्यमन्त्रिणं कर्तुं सर्वस्तरे संघर्षं करिष्यति।
कार्यक्रमस्य संयोजनं किशन दीक्षित राहुल गुप्त अशोक यादव नायक राजू जायसवाल मनोज सिंह सन्दीप मिश्र अनुप खरवार दिलीप कश्यप राहुल यादव च अकुर्वन्। अस्मिन् कार्यक्रमे शतशः कार्यकर्तारः उपस्थिताः आसन्। कार्यक्रमकाले अखिलेश यादवस्य विशालप्रतिमास्थापनं कृत्वा दुग्धेन अभिषेकः कृतः तथा तं वरुणानद्याः भगीरथरूपेण प्रस्तुतम् अकुर्वन्। सहैव पक्षकार्यकर्तारः द्विसहस्रसप्तविंशतिवर्षस्य विधानसभानिर्वाचने पीडीए सूत्रं दृढीकृत्य अखिलेश यादवं पुनः मुख्यमन्त्रिणं कर्तुं स्वसंकल्पं पुनरुक्तवन्तः।
महाआरार्तिक्याः अवसरे तेषां फलकानां विशेषचर्चा अभवत् यासु वरुणानद्याः वेदना राजनैतिकसन्देशश्च एकत्र प्रकाशितौ आस्ताम्। पिपासिताय जलम् नदीभ्यः जीवनम् जनतायै सम्मानः इति पीडीए सूत्रम्। पीडीए सूर्यः उदेष्यति वरुणायाः अन्धकारः नश्यति। वरुणा वदति परिवर्तनम् अपेक्षितम् अखिलेशः अपेक्षितः। गङ्गायाः कनिष्ठा भगिनी वरुणा वदति अखिलेशस्य आगमनेन मम उद्धारः भविष्यति इति घोषवाक्यानि जनानां विशेषाकर्षणस्य केन्द्राणि अभवन्।
Hindusthan Samachar / Dheeraj Maithani