Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 01 जुलाईमासः हि. स.)।
उत्तराखण्डराज्ये बुधवासरात् आरभ्य उत्तराखण्ड अल्पसंख्यक शिक्षा प्राधिकरण यूएसएएमई प्रवृत्तम् अभवत्। अनेन सह उत्तराखण्ड मदरसा शिक्षा बोर्ड अधिनियमः तथा अशासकीय अरबी फारसी मदरसा मान्यता नियमाः समाप्ताः अभवन्। नवीनव्यवस्थायाः अन्तर्गतं राज्यस्य चतुःपञ्चाशदधिकचतुःशत पञ्जीकृतमदरसैः सह सर्वाणि अल्पसंख्यकशैक्षणिकसंस्थानानि निर्धारितनियमावल्यानुसारं मान्यतां प्राप्स्यन्ति।
मुख्यमन्त्री पुष्करसिंहधामी बुधवासरे प्रकाशितसन्देशे अलिखत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः मार्गदर्शनेन राज्यसरकारः आधुनिकां पारदर्शिनीं गुणवत्तायुतां उत्तरदायित्वसम्पन्नां च शिक्षाव्यवस्थां निर्मातुं प्रतिबद्धा अस्ति। तेन उक्तं यत् नवीनव्यवस्था सर्वेषां अल्पसंख्यकशैक्षणिकसंस्थानानां कृते समाना पारदर्शिनी च मान्यताप्रणालीं सुनिश्चितं करिष्यति तथा च शिक्षायाः गुणवत्तां उत्तरदायित्वं च सुदृढं करिष्यति। तेन अपि उक्तं यत् सरकारस्य उद्देश्यं प्रदेशस्य बालकान् आधुनिकशिक्षया विज्ञानेन प्रौद्योगिक्या कौशलविकासेन भारतीयजीवनमूल्यैश्च सशक्तान् कर्तुम् अस्ति यथा ते विकसितोत्तराखण्डस्य विकसितभारतस्य च निर्माणे प्रभावपूर्णां भूमिकां निर्वहेयुः।
नवीनव्यवस्थायाः अन्तर्गतं राज्यस्य चतुःपञ्चाशदधिकचतुःशत पञ्जीकृतमदरसाः प्रथमं उत्तराखण्ड विद्यालयी शिक्षा बोर्डतः सम्बद्धतां प्राप्स्यन्ति। ततः परम् अल्पसंख्यक शिक्षा प्राधिकरणात् मान्यता प्रदास्यते। प्रत्येकं मान्यतापत्रं त्रीणि शैक्षणिकवर्षाणि यावत् वैधं भविष्यति। प्राधिकरणाय संस्थानानां निरीक्षणस्य तथा नियमोल्लङ्घने श्रवणप्रक्रियायाः अनन्तरं मान्यतानिरसनस्य अधिकारोऽपि प्रदत्तः अस्ति।
राज्यसरकारस्य अनुसारं नवीनव्यवस्था मुस्लिम ईसाई सिख बौद्ध जैन पारसी समुदायानां सर्वेषां अल्पसंख्यकशैक्षणिकसंस्थानेषु समानरूपेण प्रवर्तिष्यते। संस्थानैः निर्धारिते पोर्टले आवश्यकप्रपत्रैः शुल्केन च सह आनलाइन आवेदनं समर्पणीयम्।
अल्पसंख्यककल्याणविभागस्य विशेषसचिवः डा पराग मधुकर धकाते अवदत् यत् एकजुलाईदिनात् आरभ्य प्राधिकरणं नवीनव्यवस्थानुसारं मान्यतासम्बद्धकार्याणि आरब्धवान्। तेन उक्तं यत् एतादृशीं व्यवस्थां प्रवर्तयितुं उत्तराखण्डः देशस्य प्रथमं राज्यम् अस्ति। तेन अपि उक्तं यत् नवीनव्यवस्थानुसारं बुधवासरे मध्याह्ने मुख्यमन्त्रिणः आवासे आयोजिते कार्यक्रमे अल्पसंख्यकशिक्षणसंस्थानानां मान्यताप्रमाणपत्राणि वितरितानि भविष्यन्ति। तेषु नव अल्पसंख्यकशिक्षणसंस्थानानि मान्यतां प्राप्स्यन्ति। तेषु एकं जैनसंस्थानम् एकं सिखसंस्थानम् सप्त मदरसाः च सन्ति।
Hindusthan Samachar / Dheeraj Maithani